अक्षर आकार:

श्री श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामस्तोत्रम्

Shri Shriyoganayika or RajarajeshvarI Sahasranama Stotram

श्री श्रीयोगनायिका अथवा राजराजेश्वरी सहस्रनामस्तोत्रम्

राकारादिरकारान्ताद्याक्षरघटितम् । राजराजेश्वरी राजरक्षकी राजनर्तकी । राजविद्या राजपूज्या राजकोशसमृद्धिदा ॥ १॥ राजहंसतिरस्कारिगमना राजलोचना । राज्ञां गुरुवराराध्या राजयुक्तनटाङ्गना ॥ २॥ राजगर्भा राजकन्दकदलीसक्तमानसा । राज्ञां कविकुलाख्याता राजरोगनिवारिणी ॥ ३॥ राजौषधिसुसम्पन्ना राजनीतिविशारदा । राज्ञां सभालङ्कृताङ्गी राजलक्षणसंयुता ॥ ४॥ राजद्बला राजवल्ली राजत्तिल्ववनाधिपा । राजसद्गुणनिर्दिष्टा राजमार्गरथोत्सवा ॥ ५॥ राजचक्राङ्कितकरा राजांशा राजशासना । राजत्कृपा राजलक्ष्मीः राजत्कञ्चुकधारिणी ॥ ६॥ राजाहङ्कारशमना राजकार्यधुरन्धरा । राजाज्ञा राजमातङ्गी राजयन्त्रकृतार्चना ॥ ७॥ राजक्रीडा राजवेश्मप्रवेशितनिजाश्रिता । राजमन्दिरवास्तव्या राजस्त्री राजजागरा ॥ ८॥ राजशापविनिर्मुक्ता राजश्री राजमन्त्रिणी । राजपुत्री राजमैत्री राजान्तःपुरवासिनी ॥ ९॥ राजपापविनिर्मुक्ता राजर्षिपरिसेविता । राजोत्तममृगारूढा राज्ञस्तेजःप्रदायिनी ॥ १०॥ राजार्चितपदाम्भोजा राजालङ्कारवेष्टिता । राजसूयसमाराध्या राजसाहस्रसेविता ॥ ११॥ राजसन्तापशमनी राजशब्दपरायणा । राजार्हमणिभूषाढ्या राजच्छृङ्गारनायिका ॥ १२॥ राजद्रुमूलसंराजद्विघ्नेशवरदायिनी । राजपर्वतकौमारी राजशौर्यप्रदायिनी ॥ १३॥ राजाभ्यन्तःसमाराध्या राजमौलिमनस्विनी । राजमाता राजमाषप्रियार्चितपदाम्बुजा ॥ १४॥ राजारिमर्दिनी राज्ञी राजत्कल्हारहस्तका । रामचन्द्रसमाराध्या रामा राजीवलोचना ॥ १५॥ रावणेशसमाराध्या राकाचन्द्रसमानना । रात्रिसूक्तजपप्रीता रागद्वेषविवर्जिता ॥ १६॥ रिङ्खन्नूपुरपादाब्जा रिट्यादिपरिसेविता । रिपुसङ्घकुलध्वान्ता रिगमस्वरभूषिता ॥ १७॥ रुक्मिणीशसहोद्भूता रुद्राणी रुरुभैरवी । रुग्घन्त्री रुद्रकोपाग्निशमनी रुद्रसंस्तुता ॥ १८॥ रुषानिवारिणी रूपलावण्याम्बुधिचन्द्रिका । रूप्यासनप्रिया रूढा रूप्यचन्द्रशिखामणिः ॥ १९॥ रेफवर्णगला रेवानदीतीरविहारिणी । रेणुका रेणुकाराध्या रेवोर्ध्वकृतचक्रिणी ॥ २०॥ रेणुकेयाख्यकल्पोक्तयजनप्रीतमानसा । रोमलम्बितविध्यण्डा रोमन्थमुनिसेविता ॥ २१॥ रोमावलिसुलावण्यमध्यभागसुशोभिता । रोचनागरुकस्तूरीचन्दनश्रीविलेपिता ॥ २२॥ रोहिणीशकृतोत्तंसा रोहिणीपितृवन्दिता । रोहिताश्वसुसम्भूता रौहिणेयानुजार्चिता ॥ २३॥ रौप्यसिंहासनारूढचाक्षुष्मन्मन्त्रविग्रहा । रौद्रमन्त्राभिषिक्ताङ्गी रौद्रमध्यसमीडिता ॥ २४॥ रौरवान्तकरी रौच्यपत्रपुष्पकृतार्चना । रङ्गलास्यकृतालोला रङ्गवल्ल्याद्यलङ्कृता ॥ २५॥ रञ्जकश्रीसभामध्यगायकान्तरवासिनी । ललिता लड्डुकप्रीतमानसस्कन्दजन्मभूः ॥ २६॥ लकारत्रययुक्तश्रीविद्यामन्त्रकदम्बका । लक्षणा लक्षणाराध्या लक्षबिल्वार्चनप्रिया ॥ २७॥ लज्जाशीला लक्षणज्ञा लकुचान्नकृतादरा । ललाटनयनार्धाङ्गी लवङ्गत्वक्सुगन्धवाक् ॥ २८॥ लाजहोमप्रिया लाक्षागृहे कौन्तेयसेविता । लाङ्गली लालना लाला लालिका लिङ्गपीठगा ॥ २९॥ लिपिव्यष्टिसमष्टिज्ञा लिपिन्यस्त त्रिणेत्रभृत् । लुङ्गाफलसमासक्ता लुलायासुरघातुकी ॥ ३०॥ लूतिकापतिसम्पूज्या लूताविस्फोटनाशिनी । लृलॄवर्णस्वरूपाढ्या लेखिनी लेखकप्रिया ॥ ३१॥ लेह्यचोष्यपेयखाद्यभक्ष्यभोज्यादिमप्रिया । लेपितश्रीचन्दनाङ्गी लैङ्गमार्गप्रपूजिजता ॥ ३२॥ लोलम्बिरत्नहाराङ्गी लोलाक्षी लोकवन्दिता । लोपामुद्रार्चितपदा लोपामुद्रापतीडिता ॥ ३३॥ लोभकामक्रोधमोहमदमात्सर्यवारिता । लोहजप्रतिमायन्त्रवासिनी लोकरञ्जिनी ॥ ३४॥ लोकवेद्या लोलडोलास्थितशम्भुविहारिणी । लोलजिह्वापरीताङ्गी लोकसंहारकारिणी ॥ ३५॥ लौकिकीज्याविदूरस्था लङ्केशानसुपूजिता । लम्पटा लम्बिमालाभिनन्दिता लवलीधरा ॥ ३६॥ वक्रतुण्डप्रिया वज्रा वधूटी वनवासिनी । वधूर्वचनसन्तुष्टा वत्सला वटुभैरवी ॥ ३७॥ वटमूलनिवासार्धा वरवीराङ्गनावृता । वनिता वर्धनी वर्ष्या वरालीरागलोलुपा ॥ ३८॥ वलयीकृतमाहेशकरसौवर्णकन्धरा । वराङ्गी वसुधा वप्रकेलिनी वणिजा(जां)वरा ॥ ३९॥ वपुरायितश्रीचक्रा वरदा वरवर्णिनी । वराहवदनाराध्या वर्णपञ्चदशात्मिका ॥ ४०॥ वसिष्ठार्च्या वल्कलान्तर्हितरम्यस्तनद्वयी । वशिनी वल्लकी वर्णा वर्षाकालप्रपूजिता ॥ ४१॥ वल्ली वसुदलप्रान्तवृत्तकट्याश्रितादरा । वर्गा वरवृषारूढा वषण्मन्त्रसुसंज्ञका ॥ ४२॥ वलयाकारवैडूर्यवरकङ्कणभूषणा । वज्राञ्चितशिरोभूषा वज्रमाङ्गल्यभूषिता ॥ ४३॥ वाग्वादिनी वामकेशी वाचस्पतिवरप्रदा । वादिनी वागधिष्ठात्री वारुणी वायुसेविता ॥ ४४॥ वात्स्यायनसुतन्त्रोक्ता वाणी वाक्यपदार्थजा । वाद्यघोषप्रिया वाद्यवृन्दारम्भनटोत्सुका ॥ ४५॥ वापीकूपसमीपस्था वार्ताली वामलोचना । वास्तोष्पतीड्या वामाङ्घ्रिधृतनूपुरशोभिता ॥ ४६॥ वामा वाराणसीक्षेत्रा वाडवेयवरप्रदा । वामाङ्गा वाञ्छितफलदात्री वाचालखण्डिता ॥ ४७॥ वाच्यवाचकवाक्यार्था वामना वाजिवाहना । वासुकीकण्ठभूषाढ्यवामदेवप्रियाङ्गना ॥ ४८॥ विजया विमला विश्वा विग्रहा विधृताङ्कुशा । विनोदवनवास्तव्या विभक्ताण्डा विधीडिता ॥ ४९॥ विक्रमा विषजन्तुघ्नी विश्वामित्रवरप्रदा । विश्वम्भरा विष्णुशक्तिर्विजिज्ञासाविचक्षणा ॥ ५०॥ विटङ्कत्यागराजेन्द्रपीठसंस्था विधीडिता । विदिता विश्वजननी विस्तारितचमूबला ॥ ५१॥ विद्याविनयसम्पन्ना विद्याद्वादशनायिका । विभाकरात्यर्बुदाभा विधात्री विन्ध्यवासिनी ॥ ५२॥ विरूपाक्षसखी विश्वनाथवामोरुसंस्थिता । विशल्या विशिखा विघ्ना विप्ररूपा विहारिणी ॥ ५३॥ विनायकगुहक्रीडा विशालाक्षी विरागिणी । विपुला विश्वरूपाख्या विषघ्नी विश्वभामिनी ॥ ५४॥ विशोका विरजा विप्रा विद्युल्लेखेव भासुरा । विपरीतरतिप्रीतपतिर्विजयसंयुता ॥ ५५॥ विरिञ्चिविष्णुवनिताधृतचामरसेविता । वीरपानप्रिया वीरा वीणापुस्तकधारिणी ॥ ५६॥ वीरमार्तण्डवरदा वीरबाहुप्रियङ्करी । वीराष्टाष्टकपरीता वीरशूरजनप्रिया ॥ ५७॥ वीजितश्रीचामरधृल्लक्ष्मीवाणीनिषेविता । वीरलक्ष्मीर्वीतिहोत्रनिटिला वीरभद्रका ॥ ५८॥ वृक्षराजसुमूलस्था वृषभध्वजलाञ्छना । वृषाकपायी वृत्तज्ञा वृद्धा वृत्तान्तनायिका ॥ ५९॥ वृवॄवर्णाङ्गविन्यासा वेणीकृतशिरोरुहा । वेदिका वेदविनुता वेतण्डकृतवाहना ॥ ६०॥ वेदमाता वेगहन्त्री वेतसीगृहमध्यगा । वेतालनटनप्रीता वेङ्कटाद्रिनिवासिनी ॥ ६१॥ वेणुवीणामृदङ्गादि वाद्यघोषविशारदा । वेषिणी वैनतेयानुकम्पिनी वैरिनाशिनी ॥ ६२॥ वैनायकी वैद्यमाता वैष्णवी वैणिकस्वना । वैजयन्तीष्टवरदा वैकुण्ठवरसोदरी ॥ ६३॥ वैशाखपूजिता वैश्या वैदेही वैद्यशासिनी । वैकुण्ठा वैजयन्तीड्या वैयाघ्रमुनिसेविता ॥ ६४॥ वैहायसीनटीरासा वौषट्श्रौषट्स्वरूपिणी । वन्दिता वङ्गदेशस्था वंशगानविनोदिनी ॥ ६५॥ वम्र्यादिरक्षिका वङ्क्रिर्वन्दारुजनवत्सला । वन्दिताखिललोकश्रीः वक्षःस्थलमनोहरा ॥ ६६॥ शर्वाणी शरभाकारा शप्तजन्मानुरागिणी । शक्वरी शमिताघौघा शक्ता शतकरार्चिता ॥ ६७॥ शची शरावती शक्रसेव्या शयितसुन्दरी । शरभृच्छबरी शक्तिमोहिनी शणपुष्पिका ॥ ६८॥ शकुन्ताक्षी शकाराख्या शतसाहस्रपुजिता । शब्दमाता शतावृत्तिपूजिता शत्रुनाशिनी ॥ ६९॥ शतानन्दा शतमुखी शमीबिल्वप्रिया शशी । शनकैः पदविन्यस्तप्रदक्षिणनतिप्रिया ॥ ७०॥ शातकुम्भाभिषिक्ताङ्गी शातकुम्भस्तनद्वयी । शातातपमुनीन्द्रेड्या शालवृक्षकृतालया ॥ ७१॥ शासका शाक्वरप्रीता शाला शाकम्भरीनुता । शार्ङ्गपाणिबला शास्तृजननी शारदाम्बिका ॥ ७२॥ शापमुक्तमनुप्रीता शाबरीवेषधारिणी । शाम्भवी शाश्वतैश्वर्या शासनाधीनवल्लभा ॥ ७३॥ शास्त्रतत्त्वार्थनिलया शालिवाहनवन्दिता । शार्दूलचर्मवास्तव्या शान्तिपौष्टिकनायिका ॥ ७४॥ शान्तिदा शालिदा शापमोचिनी शाडवप्रिया । शारिका शुकहस्तोर्ध्वा शाखानेकान्तरश्रुता ॥ ७५॥ शाकलादिमऋक्शाखामन्त्रकीर्तितवैभवा । शिवकामेश्वराङ्कस्था शिखण्डिमहिषी शिवा ॥ ७६॥ शिवारम्भा शिवाद्वैता शिवसायुज्यदायिनी । शिवसङ्कल्पमन्त्रेड्या शिवेन सह मोदिता ॥ ७७॥ शिरीषपुष्पसङ्काशा शितिकण्ठकुटुम्बिनी । शिवमार्गविदां श्रेष्ठा शिवकामेशसुन्दरी ॥ ७८॥ शिवनाट्यपरीताङ्गी शिवज्ञानप्रदायिनी । शिवनृत्तसदालोकमानसा शिवसाक्षिणी ॥ ७९॥ शिवकामाख्यकोष्ठस्था शिशुदा शिशुरक्षकी । शिवागमैकरसिका शिक्षितासुरकन्यका ॥ ८०॥ शिल्पिशालाकृतावासा शिखिवाहा शिलामयी । शिंशपावृक्षफलवद्भिन्नानेकारिमस्तका ॥ ८१॥ शिरःस्थितेन्दुचक्राङ्का शितिकुम्भसुमप्रिया । शिञ्जन्नूपुरभूषात्तकृतमन्मथभेरिका ॥ ८२॥ शिवेष्टा शिबिकारूढा शिवारावाभयङ्करी । शिरोर्ध्वनिलयासीना शिवशक्त्यैक्यरूपिणी ॥ ८३॥ शिवासनसमाविष्टा शिवार्च्या शिववल्लभा । शिवदर्शनसन्तुष्टा शिवमन्त्रजपप्रिया ॥ ८४॥ शिवदूती शिवानन्या शिवासनसमन्विता । शिष्याचरितशैलेशा शिवगानविगायिनी ॥ ८५॥ शिवशैलकृतावासा शिवाम्बा शिवकोमला । शिवगङ्गासरस्तीरप्रत्यङ्मन्दिरवासिनी ॥ ८६॥ शिवाक्षरारम्भपञ्चदशाक्षरमनुप्रिया । शिखादेवी शिवाभिन्ना शिवतत्त्वविमर्शिनी ॥ ८७॥ शिवालोकनसन्तुष्टा शिवार्धाङ्गसुकोमला । शिवरात्रिदिनाराध्या शिवस्य हृदयङ्गमा ॥ ८८॥ शिवरूपा शिवपरा शिववाक्यार्थबोधिनी । शिवार्चनरता शिल्पलक्षणा शिल्पिसेविता ॥ ८९॥ शिवागमरहस्योक्त्या शिवोहम्भावितान्तरा । शिम्बीजश्रवणानन्दा शिमन्तर्नाममन्त्रराट् ॥ ९०॥ शीकारा शीतला शीला शीतपङ्कजमध्यगा । शीतभीरुः शीघ्रगन्त्री शीर्षका शीकरप्रभा ॥ ९१॥ शीतचामीकराभासा शीर्षोद्धूपितकुन्तला । शीतगङ्गाजलस्नाता शुका(क्रा)राधितचक्रगा ॥ ९२॥ शुक्रपूज्या शुचिः शुभ्रा शुक्तिमुक्ता शुभप्रदा । शुच्यन्तरङ्गा शुद्धाङ्गी शुद्धा शुकी शुचिव्रता ॥ ९३॥ शुद्धान्ता शूलिनी शूर्पकर्णाम्बा शूरवन्दिता । शून्यवादिमुखस्तम्भा शूरपद्मारिजन्मभूः ॥ ९४॥ श‍ृङ्गाररससम्पूर्णा श‍ृङ्गिणी श‍ृङ्गघोषिणी । भृङ्गाभिषिक्तसुशिराः श‍ृङ्गी श‍ृङ्खलदोर्भटा ॥ ९५॥ शॄश्लृरूपा शेषतल्पभागिनी शेखरोडुपा । शोणशैलकृतावासा शोकमोहनिवारिणी ॥ ९६॥ शोधनी शोभना शोचिष्केशतेजःप्रदायिनी । शौरिपूज्या शौर्यवीर्या शौक्तिकेयसुमालिका ॥ ९७॥ श्रीश्च श्रीधनसम्पन्ना श्रीकण्ठस्वकुटुम्बिनी । श्रीमाता श्रीफली श्रीला श्रीवृक्षा श्रीपतीडिता ॥ ९८॥ श्रीसंज्ञायुतताम्बूला श्रीमती श्रीधराश्रया । श्रीबेरबद्धमालाढ्या श्रीफला श्रीशिवाङ्गना ॥ ९९॥ श्रुतिः श्रुतिपदन्यस्ता श्रुतिसंस्तुतवैभवा । श्रूयमाणचतुर्वेदा श्रेणिहंसनटाङ्घ्रिका ॥ १००॥ श्रेयसी श्रेष्ठिधनदा श्रोणानक्षत्रदेवता । श्रोणिपूज्या श्रोत्रकान्ता श्रोत्रे श्रीचक्रभूषिता ॥ १०१॥ श्रौषड्रूपा श्रौतस्मार्तविहिता श्रौतकामिनी । शम्बरारातिसम्पूज्या शङ्करी शम्भुमोहिनी ॥ १०२॥ षष्ठी षडाननप्रीता षट्कर्मनिरतस्तुता । षट्शास्त्रपारसन्दर्शा षष्ठस्वरविभूषिता ॥ १०३॥ षट्कालपूजानिरता षण्ढत्वपरिहारिणी । षड्रसप्रीतरसना षड्ग्रन्थिविनिभेदिनी ॥ १०४॥ षडभिज्ञमतध्वंसी षड्जसंवादिवाहिता । षट्त्रिंशत्तत्त्वसम्भूता षण्णवत्युपशोभिता ॥ १०५॥ षण्णवतितत्त्वनित्या षडङ्गश्रुतिपारदृक् । षाण्डदेहार्धभागस्था षाड्गुण्यपरिपूरिता ॥ १०६॥ षोडशाक्षरमन्त्रार्था षोडशस्वरमातृका । षोढाविभक्तषोढार्णा षोढान्यासपरायणा ॥ १०७॥ सकला सच्चिदानन्दा साध्वी सारस्वतप्रदा । सायुज्यपदवीदात्री तथा सिंहासनेश्वरी ॥ १०८॥ सिनीवाली सिन्धुसीमा सीता सीमन्तिनीसुखा । सुनन्दा सूक्ष्मदर्शाङ्गी सृणिपाशविधारिणी ॥ १०९॥ सृष्टिस्थितिसंहारतिरोधानानुग्रहात्मिका । सेव्या सेवकसंरक्षा सैंहिकेयग्रहार्चिता ॥ ११०॥ सोऽहम्भावैकसुलभा सोमसूर्याग्निमण्डना । सौःकाररूपा सौभाग्यवर्धिनी संविदाकृतिः ॥ १११॥ संस्कृता संहिता सङ्घा सहस्रारनटाङ्गना । हकारद्वयसन्दिग्धमध्यकूटमनुप्रभा ॥ ११२॥ हयग्रीवमुखाराध्या हरिर्हरपतिव्रता । हादिविद्या हास्यभस्मीकृतत्रिपुरसुन्दरी ॥ ११३॥ हाटकश्रीसभानाथा हिङ्कारमन्त्रचिन्मयी । हिरण्मयपु(प)राकोशा हिमा हीरककङ्कणा ॥ ११४॥ ह्रीङ्कारत्रयसम्पूर्णा ह्लीङ्कारजपसौख्यदा । हुताशनमुखाराध्या हुङ्कारहतकिल्बिषा ॥ ११५॥ हूं पृच्छा(ष्टा)नेकविज्ञप्तिः हृदयाकारताण्डवा । हृद्ग्रन्थिभेदिका हृह्लृमन्त्रवर्णस्वरूपिणी ॥ ११६॥ हेमसभामध्यगता हेमा हैमवतीश्वरी । हैयङ्गवीनहृदया होरा हौङ्काररूपिणी ॥ ११७॥ हंसकान्ता हंसमन्त्रतत्त्वार्थादिमबोधिनी । हस्तपद्मालिङ्गिताम्रनाथाऽद्भुतशरीरिणी ॥ ११८॥ अनृतानृतसंवेद्या अपर्णा चार्भकाऽऽत्मजा । आदिभूसदनाकारजानुद्वयविराजिता ॥ ११९॥ आत्मविद्या चेक्षुचापविधात्रीन्दुकलाधरा । इन्द्राक्षीष्टार्थदा चेन्द्रा चेरम्मदसमप्रभा ॥ १२०॥ ईकारचतुरोपेता चेशताण्डवसाक्षिणी । उमोग्रभैरवाकारा ऊर्ध्वरेतोव्रताङ्गना ॥ १२१॥ ऋषिस्तुता ऋतुमती ऋजुमार्गप्रदर्शिनी । ॠजुवादनसन्तुष्टा लृलॄवर्णमनुस्वना ॥ १२२॥ एधमानप्रभा चैला चैकान्ता चैकपाटला । एत्यक्षरद्वितीयाङ्ककादिविद्यास्वरूपिणी ॥ १२३॥ ऐन्द्रा चैश्वर्यदा चौजा ओङ्कारार्थप्रदर्शिनी । औषधायित साहस्रनाममन्त्रकदम्बका ॥ १२४॥ अम्बा चाम्भोजनिलया चांशभूतान्यदेवता । अर्हणाऽऽहवनीयाग्निमध्यगाऽहमितीरिता ॥ १२५॥ कल्याणी कत्रयाकारा काञ्चीपुरनिवासिनी । कात्यायनी कामकला कालमेघाभमूर्धजा ॥ १२६॥ कान्ता काम्या कामजाता कामाक्षी किङ्किणीयुता । कीनाशनायिका कुब्जकन्यका कुङ्कुमाकृतिः ॥ १२७॥ कुल्लुकासेतुसंयुक्ता कुरङ्गनयना कुला । कूलङ्कषकृपासिन्धुः कूर्मपीठोपरिस्थिता ॥ १२८॥ कृशाङ्गी कृत्तिवसना क्लीङ्कारी क्लीम्मनूदिता । केसरा केलिकासारा केतकीपुष्पभासुरा ॥ १२९॥ कैलासवासा कैवल्यपदसञ्चारयोगिनी । कोशाम्बा कोपरहिता कोमला कौस्तुभान्विता ॥ १३०॥ कौशिकी कंसदृष्टाङ्गी कञ्चुकी कर्मसाक्षिणी । क्षमा क्षान्तिः क्षितीशार्च्या क्षीराब्धिकृतवासिनी ॥ १३१॥ क्षुरिकास्त्रा क्षेत्रसंस्था क्षौमाम्बरसुशुभ्रगा । खवासा खण्डिका खाङ्ककोटिकोटिसमप्रभा ॥ १३२॥ खिलर्क्सूक्तजपासक्ता खेटग्रहार्चितान्तरा । खण्डिता खण्डपरशुसमाश्लिष्टकलेबरा ॥ १३३॥ गव्य(वय) श‍ृङ्गाभिषिक्ताङ्गी गवाक्षी गव्यमज्जना । गणाधिपप्रसूर्गम्या गायत्री गानमालिका ॥ १३४॥ गार्हपत्याग्निसम्पूज्या गिरीशा गिरिजा च गीः । गीर्वाणीवीजनानन्दा गीतिशास्त्रानुबोधिनी ॥ १३५॥ गुग्गुलो(लू)पेतधूपाढ्या गुडान्नप्रीतमानसा । गूढकोशान्तराराध्या गूढशब्दविनोदिनी ॥ १३६॥ गृहस्थाश्रमसम्भाव्या गृहश्रेणीकृतोत्सवा । गृ ग्लृ शब्दसुविज्ञात्री गेयगानविगायिनी ॥ १३७॥ गैरिकाभरणप्रीता गोमाता गोपवन्दिता । गौरी गौरवत्रैपुण्ड्रा गङ्गा गन्धर्ववन्दिता ॥ १३८॥ गहना गह्वराकारदहरान्तःस्थिता घटा । घटिका घनसारादिनीराजनसमप्रभा ॥ १३९॥ घारिपूज्या घुसृणाभा घूर्णिताशेषसैनिका । घृघॄघ्लृ स्वरसम्पन्ना घोरसंसारनाशिनी ॥ १४०॥ घोषा घौषाक्तखड्गास्त्रा घण्टामण्डलमण्डिता । ङकारा चतुरा चक्री चामुण्डा चारुवीक्षणा ॥ १४१॥ चिन्तामणिमनुध्येया चित्रा चित्रार्चिता चितिः । चिदानन्दा चित्रिणी चिच्चिन्त्या चिदम्बरेश्वरी ॥ १४२॥ चीनपट्टांशुकालेपकटिदेशसमन्विता । चुलुकीकृतवाराशिमुनिसेवितपादुका ॥ १४३॥ चुम्बितस्कन्दविघ्नेशपरमेशप्रियंवदा । चूलिका चूर्णिका चूर्णकुन्तला चेटिकावृता । १४४॥ चैत्री चैत्ररथारूढा चोलभूपालवन्दिता । चोरितानेकहृत्पद्मा चौक्षा चन्द्रकलाधरा ॥ १४५॥ चर्मकृष्णमृगाधिष्ठा छत्रचामरसेविता । छान्दोग्योपनिषद्गीता छादिताण्डस्वशाम्बरी ॥ १४६॥ छान्दसानां स्वयंव्यक्ता छायामार्ताण्डसेविता । छायापुत्रसमाराध्या छिन्नमस्ता वरप्रदा ॥ १४७॥ जयदा जगतीकन्दा जटाधरधृता जया । जाह्नवी जातवेदाख्या जापकेष्टहितप्रदा ॥ १४८॥ जालन्धरासनासीना जिगीषा जितसर्वभूः । जिष्णुर्जिह्वाग्रनिलया जीवनी जीवकेष्टदा ॥ १४९॥ जुगुप्साढ्या जूतिर्जू(जू)र्णा जृम्भकासुरसूदिनी । जैत्री जैवातृकोत्तंसा जोटिं(षं)गा जोषदायिनी ॥ १५०॥ झञ्झानिलमहावेगा झषा झर्झरघोषिणी । झिण्टीसुमपरप्रेम्णा( प्रीता) झिल्लिकाकेलिलालिता ॥ १५१॥ टङ्कहस्ता टङ्कितज्या टिट्टरीवाद्यसुप्रिया । टिट्टिभासनहृत्संस्था ठवर्गचतुरानना ॥ १५२॥ डमड्डमरुवाद्यूर्ध्वा णकाराक्षररूपिणी । तत्त्वज्ञा तरुणी सेव्या तप्तजाम्बूनदप्रभा ॥ १५३॥ तत्त्वपुस्तोल्लसत्पाणिः तपनोडुपलोचना । तार्तीयभूपुरात्मस्वपादुका तापसेडिता ॥ १५४॥ तिलकायितसर्वेशनिटिलेक्षणशोभना । तिथिस्तिल्लवनान्तःस्था तीक्ष्णा तीर्थान्तलिङ्गयुक् ॥ १५५॥ तुलसी तुरगारूढा तूलिनी तूर्यवादिनी । तृप्ता तृणीकृतारातिसेनासङ्घमहाभटा ॥ १५६॥ तेजिनीवनमायूरी तैलाद्यैरभिषेचिता । तोरणाङ्कितनक्षत्रा तोटकीवृत्तसन्नुता ॥ १५७॥ तौणीरपुष्पविशिखा तौर्यत्रिकसमन्विता । तन्त्रिणी तर्कशास्त्रज्ञा तर्कवार्ताविदूरगा ॥ १५८॥ तर्जन्यङ्गुष्ठसंलग्नमुद्राञ्चितकराब्जिका । थकारिणी थां थीं थों थैं कृतलास्यसमर्थका ॥ १५९॥ दशाश्वरथसंरूढा दक्षिणामूर्तिसंयुगा । दशबाहुप्रिया दह्रा दशाशाशासनेडिता ॥ १६०॥ दारका दारुकारण्यवासिनी दिग्विलासिनी । दीक्षिता दीक्षिताराध्या दीनसन्तापनाशिनी ॥ १६१॥ दीपाग्रमङ्गला दीप्ता दीव्यद्ब्रह्माण्डमेखला । दुरत्यया दुराराध्या दुर्गा दुःखनिवारिणी ॥ १६२॥ दूर्वासतापसाराध्या दूती दूर्वाप्रियप्रसूः । दृष्टान्तरहिता देवमाता दैत्यविभञ्जिनी ॥ १६३॥ दैविकागारयन्त्रस्था दोर्द्वन्द्वातीतमानसा । दौर्भाग्यनाशिनी दौती दौवारिकनिधिद्वयी ॥ १६४॥ दण्डिनीमन्त्रिणीमुख्या दहराकामध्यगा । दर्भारण्यकृतावासा दह्रविद्याविलासिनी ॥ १६५॥ धन्वन्तरीड्या धनदा धारासाहस्रसेचना । धेनुमुद्रा धेनुपूज्या धैर्या धौम्यनुतिप्रिया ॥ १६६॥ नमिता नगरावासा नटी नलिनपादुका । नकुली नाभिनालाग्रा नाभावष्टदलाब्जिनी ॥ १६७॥ नारिकेलामृतप्रीता नारीसम्मोहनाकृतिः । निगमाश्वरथारूढा नीललोहितनायिका ॥ १६८॥ नीलोत्पलप्रिया नीला नीलाम्बा नीपवाटिका । नुतकल्याणवरदा नूतना नृपपूजिता ॥ १६९॥ नृहरिस्तुतहृत्पूर्णा नृत्तेशी नृत्तसाक्षिणी । नैगमज्ञानसंसेव्या नैगमज्ञानदुर्लभा ॥ १७०॥ नौकारूढेश वामोरुवीक्षितस्थिरसुन्दरी । नन्दिविद्या नन्दिकेशविनुता नन्दनानना ॥ १७१॥ नन्दिनी नन्दजा नम्या नन्दिताशेषभूपुरा । नर्मदा परमाद्वैतभाविता परिपन्थिनी ॥ १७२॥ परा परीतदिव्यौघा परशम्भुपुरन्ध्रिका । पथ्या परब्रह्मपत्नी पतञ्जलिसुपूजिता ॥ १७३॥ पद्माक्षी पद्मिनी पद्मा परमा पद्मगन्धिनी । पयस्विनी परेशाना पद्मनाभसहोदरी ॥ १७४॥ परार्धा परमैश्वर्यकारणा परमेश्वरी । पातञ्जलाख्यकल्पोक्तशिवावरणसंयुता ॥ १७५॥ पाशकोदण्डसुमभृत् पारिपार्श्वकसन्नुता । पिञ्छा(ञ्जा)विलेपसुमुखा पितृतुल्या पिनाकिनी ॥ १७६॥ पीतचन्दनसौगन्धा पीताम्बरसहोद्भवा । पुण्डरीकपुरीमध्यवर्तिनी पुष्टिवर्धिनी ॥ १७७॥ पूरयन्ती पूर्यमाणा पूर्णाभा पूर्णिमान्तरा । पृच्छामात्रातिशुभदा पृथ्वीमण्डलशासिनी ॥ १७८॥ पृतना पेशला पेरुमण्डला पैत्ररक्षकी । पौषी पौण्ड्रेक्षुकोदण्डा पञ्चपञ्चाक्षरी मनुः ॥ १७९॥ पञ्चमीतिथिसम्भाव्या पञ्चकोशान्तरस्थिता । फणाधिपसमाराध्या फणामणिविभूषिता ॥ १८०॥ बकपुष्पकृतोत्तंसा बगला बलिनी बला । बालार्कमण्डलाभासा बाला बालविनोदिनी ॥ १८१॥ बिन्दुचक्रशिवाङ्कस्था बिल्वभूषितमूर्धजा । बीजापूरफलासक्ता बीभत्सावहदृक्त्रयी ॥ १८२॥ बुभुक्षावर्जिता बुद्धिसाक्षिणी बुधवर्षका । बृहती बृहदारण्यनुता वृहस्पतीडिता ॥ १८३॥ बेराख्या बैन्दवाकार वैरिञ्चसुषिरान्तरा । बोद्ध्री बोधायना बौद्धदर्शना बन्धमोचनी ॥ १८४॥ भट्टारिका भद्रकाली भारतीभा भिषग्वरा । भित्तिका भिन्नदैत्याङ्गा भिक्षाटनसहानुगा ॥ १८५॥ भीषणा भीतिरहिता भुवनत्रयशङ्करा । भूतघ्नी भूतदमनी भूतेशालिङ्गनोत्सुका ॥ १८६॥ भूतिभूषितसर्वाङ्गी भृग्वङ्गिरमुनिप्रिया । भृङ्गिनाट्यविनोदज्ञा भैरवप्रीतिदायिनी ॥ १८७॥ भोगिनी भोगशमनी भोगमोक्षप्रदायिनी । भौमपूज्या भण्डहन्त्री भग्नदक्षक्रतुप्रिया ॥ १८८॥ मकारपञ्चमी मह्या मदनी मकरध्वजा । मत्स्याक्षी मधुरावासा मन्वश्रहृदयाश्रया ॥ १८९॥ मार्ताण्डविनुता माणिभद्रेड्या माधवार्चिता । माया मारप्रिया मारसखीड्या माधुरीमनाः ॥ १९०॥ माहेश्वरी माहिषघ्नी मिथ्यावादप्रणाशिनी । मीनाक्षी मीनसंसृष्टा मीमांसाशास्त्रलोचना ॥ १९१॥ मुग्धाङ्गी मुनिवृन्दार्च्या मुक्तिदा मूलविग्रहा । मूषिकारूढजननी मूढभक्तिमदर्चिता ॥ १९२॥ मृत्युञ्जयसती मृग्या मृगालेपनलोलुपा । मेधाप्रदा मेखलाढ्या मेघवाहनसेविता ॥ १९३॥ मेनात्मजा मैथिलीशकृतार्चनपदाम्बुजा । मैत्री मैनाकभगिनी मोहजालप्रणाशिनी ॥ १९४॥ मोदप्रदा मौलिगेन्दुकलाधरकिरीटभाक् । मौहूर्तलग्नवरदा मञ्जीरा मञ्जुभाषिणी ॥ १९५॥ मर्मज्ञात्री महादेवी यमुना यज्ञसम्भवा । यातनारहिता याना यामिनीपूजकेष्टदा ॥ १९६॥ युक्ता यूपा यूथिकार्च्या योगा योगेशयोगदा । (यक्षराजसखान्तरा) रथिनी रजनी रत्नगर्भा रक्षितभूरुहा ॥ १९७॥ रमा रसक्रिया रश्मिमालासन्नुतवैभवा । रक्ता रसा रती रथ्या रणन्मञ्जीरनूपुरा ॥ १९८॥ रक्षा रविध्वजाराध्या रमणी रविलोचना । रसज्ञा रसिका रक्तदन्ता रक्षणलम्पटा ॥ १९९॥ रक्षोघ्नजपसन्तुष्टा रक्ताङ्गापाङ्गलोचना । रत्नद्वीपवनान्तःस्था रजनीशकलाधरा ॥ २००॥ रत्नप्राकारनिलया रणमध्या रमार्थदा । रजनीमुखसम्पूज्या रत्नसानुस्थिता रयिः ॥ २०१॥ ॥ इति श्रीयोगनायिका अथवा श्रीराजराजेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥