अक्षर आकार:

यमुनाष्टकम् २

Yamunashtakam 2

यमुनाष्टकम् २

॥ श्रीः॥ कृपापारावारां तपनतनयां तापशमनीं मुरारिप्रेयस्यां भवभयदवां भक्तिवरदाम् । वियज्ज्वालोन्मुक्तां श्रियमपि सुखाप्तेः परिदिनं सदा धीरो नूनं भजति यमुनां नित्यफलदाम् ॥ १॥ मधुवनचारिणि भास्करवाहिनि जाह्नविसङ्गिनि सिन्धुसुते मधुरिपुभूषणि माधवतोषिणि गोकुलभीतिविनाशकृते । जगदघमोचिनि मानसदायिनि केशवकेलिनिदानगते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ २॥ अयि मधुरे मधुमोदविलासिनि शैलविदारिणि वेगपरे परिजनपालिनि दुष्टनिषूदिनि वाञ्छितकामविलासधरे । व्रजपुरवासिजनार्जितपातकहारिणि विश्वजनोद्धरिके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ३॥ अतिविपदम्बुधिमग्नजनं भवतापशताकुलमानसकं गतिमतिहीनमशेषभयाकुलमागतपादसरोजयुगम् । ऋणभयभीतिमनिष्कृतिपातककोटिशतायुतपुञ्जतरं जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ४॥ नवजलदद्युतिकोटिलसत्तनुहेमभयाभररञ्जितके तडिदवहेलिपदाञ्चलचञ्चलशोभितपीतसुचेलधरे । मणिमयभूषणचित्रपटासनरञ्जितगञ्जितभानुकरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ५॥ शुभपुलिने मधुमत्तयदूद्भवरासमहोत्सवकेलिभरे उच्चकुलाचलराजितमौक्तिकहारमयाभररोदसिके । नवमणिकोटिकभास्करकञ्चुकिशोभिततारकहारयुते जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ६॥ करिवरमौक्तिकनासिकभूषणवातचमत्कृतचञ्चलके मुखकमलामलसौरभचञ्चलमत्तमधुव्रतलोचनिके । मणिगणकुण्डललोलपरिस्फुरदाकुलगण्डयुगामलके जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ७॥ कलरवनूपुरहेममयाचितपादसरोरुहसारुणिके धिमिधिमिधिमिधिमितालविनोदितमानसमञ्जुलपादगते । तव पदपङ्कजमाश्रितमानवचित्तसदाखिलतापहरे जय यमुने जय भीतिनिवारिणि संकटनाशिनि पावय माम् ॥ ८॥ भवोत्तापाम्भोधौ निपतितजनो दुर्गतियुतो यदि स्तौति प्रातः प्रतिदिनमन्याश्रयतया । हयाह्रेषैः कामं करकुसुमपुञ्जै रविसुतां सदा भोक्ता भोगान्मरणसमये याति हरिताम् ॥ ९॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकम् सम्पूर्णम् ॥