अक्षर आकार:

यमुनाष्टकम् १

Yamunashtakam 1

यमुनाष्टकम् १

॥ श्रीः ॥ मुरारिकायकालिमाललामवारिधारिणी तृणीकृतत्रिविष्टपा त्रिलोकशोकहारिणी । मनोऽनुकूलकूलकुञ्जपुञ्जधूतदुर्मदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ १॥ मलापहारिवारिपूरिभूरिमण्डितामृता भृशं प्रवातकप्रपञ्चनातिपण्डितानिशा । सुनन्दनन्दिनाङ्गसङ्गरागरञ्जिता हिता धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ २॥ लसत्तरङ्गसङ्गधूतभूतजातपातका नवीनमाधुरीधुरीणभक्तिजातचातका । तटान्तवासदासहंससंसृताह्निकामदा var1 संसृता हि कामदा var2 संवृताह्निकामदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ३॥ विहाररासस्वेदभेदधीरतीरमारुता गता गिरामगोचरे यदीयनीरचारुता । प्रवाहसाहचर्यपूतमेदिनीनदीनदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ४॥ तरङ्गसङ्गसैकतान्तरातितं सदासिता शरन्निशाकरांशुमञ्जुमञ्जरी सभाजिता । भवार्चनाप्रचारुणाम्बुनाधुना विशारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ५॥ जलान्तकेलिकारिचारुराधिकाङ्गरागिणी स्वभर्तुरन्यदुर्लभाङ्गताङ्गतांशभागिनी । स्वदत्तसुप्तसप्तसिन्धुभेदिनातिकोविदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ६॥ जलच्युताच्युताङ्गरागलम्पटालिशालिनी विलोलराधिकाकचान्तचम्पकालिमालिनी । सदावगाहनावतीर्णभर्तृभृत्यनारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ७॥ सदैव नन्दिनन्दकेलिशालिकुञ्जमञ्जुला तटोत्थफुल्लमल्लिकाकदम्बरेणुसूज्ज्वला । जलावगाहिनां नृणां भवाब्धिसिन्धुपारदा धुनोतु नो मनोमलं कलिन्दनन्दिनी सदा ॥ ८॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ यमुनाष्टकम् सम्पूर्णम् ॥