अक्षर आकार:

श्रीयमुनाविज्ञप्तिः

shrIyamunAvijnaptiH

श्रीयमुनाविज्ञप्तिः

कृष्णां कृष्णसमां कृष्ण-रूपां कृष्णरसात्मिकाम् । कृष्णलीलामृतजलां कृष्णसम्बन्धकारिणीम् ॥ १॥ कृष्णप्रियां कृष्णमुख्यरससङ्गमदायिनीम् । कृष्णक्रीडाश्रयां कृष्णपदवीप्रापिकामपि ॥ २॥ कृष्णस्थितां कृष्णवासहृदयां कृष्णकामुकाम् । कृष्णप्रियाप्रियां कृष्णस्थायिभावसमुद्भवाम् ॥ ३॥ कृष्णैकमिलनस्थानभूतां कृष्णसुखार्थिनीम् । कृष्णगोपीसहचरीं कृष्णसन्मानवर्धिनीम् ॥ ४॥ कृष्णकार्यपरीं कृष्णलीलास्थलविशोधिकाम् । कृष्णक्रीडाकुङ्कुमादियुतां कृष्णरसान्तराम् ॥ ५॥ कृष्णगोपीपूज्यदेवीं कृष्णव्रतफलप्रदाम् । कृष्णलीलार्थमायान्तीं कृष्णनीरधिसङ्गताम् ॥ ६॥ कृष्णपादस्पर्शकामां कृष्णमानससंश्रिताम् । कृष्णासक्तां कृष्णभक्तकृष्णप्रीतिप्रसाधिनीम् ॥ ७॥ कृष्णाङ्घ्रिरेणुबहुलां कृष्णसेवकसन्मुखाम् । कृष्णभावाविरोधिस्वदासप्रकृतिनाशिनीम् ॥ ८॥ नमामि यमुनां कृष्णतुर्यप्रियतमामहम् । निजाचार्यपदाम्भोजदासे भावं प्रयच्छतु ॥ ९॥ इति श्रीहरिदासोदिता श्रीयमुनाविज्ञक्तिः समाप्ता ।