अक्षर आकार:

यमुनास्तवम्

yamunAstavam

यमुनास्तवम्

गर्गसंहितान्तर्गतम् मान्धातोवाच - यमुनायाः स्तवं दिव्यं सर्वसिद्धिकरं परम् । सौभरे मुनिशार्दूल वद मां कृपया त्वरम् ॥ १॥ श्रीसौभरिरुवाच - मार्तण्डकन्यकायास्तु स्तवं श‍ृणु महामते । सर्वसिद्धिकरं भूमौ चातुर्वर्ग्यफलप्रदम् ॥ २॥ कृष्णवामांसभूतायै कृष्णायै सततं नमः । नमः श्रीकृष्णरूपिण्यै कृष्णे तुभ्यं नमो नमः ॥ ३॥ यः पापपङ्काम्बुकलङ्ककुत्सितः कामी कुधीः सत्सु कलिं करोति हि । वृन्दावनं धाम ददाति तस्मै नदन्मिलिन्दादि कलिन्दनन्दिनी ॥ ४॥ कृष्णे साक्षात्कृष्णरूपा त्वमेव वेगावर्ते वर्तसे मत्स्यरूपी । ऊर्मावूर्मौ कूर्मरूपी सदा ते बिन्दौ बिन्दौ भाति गोविन्ददेवः ॥ ५॥ वन्दे लीलावतीं त्वां सघनघननिभां कृष्णवामांसभूतां वेगं वै वैरजाख्यं सकलजलचयं खण्डयन्तीं बलात्स्वात् । छित्वा ब्रह्माण्डमारात्सुरनगरनगान् गण्डशैलादिदुर्गान् भित्वा भूखण्डमध्ये तटनिधृतवतीमूर्मिमालां प्रयान्तीम् ॥ ६॥ दिव्यं कौ नामधेयं श्रुतमथ यमुने दण्डयत्यद्रितुल्यं पापव्यूहं त्वखण्डं वसतु मम गिरां मण्डले तु क्षणं तत् । दण्ड्यांश्चाकार्यदण्ड्या सकृदपि वचसा खण्डितं यद्गृहीतं भ्रातुर्मार्तण्डसूनोरटति पुरि दृढस्ते प्रचण्डोऽतिदण्डः ॥ ७॥ रज्जुर्वा विषयान्धकूपतरणे पापाखुदर्वीकरी । वेण्युष्णिक् च विराजमूर्तिशिरसो मालास्ति वा सुन्दरी । धन्यं भाग्यमतः परं भुवि नृणां यत्रादिकृद्वल्लभा । गोलोकेऽप्यतिदुर्लभातिशुभगा भात्यद्वितीया नदी ॥ ८॥ गोपीगोकुलगोपकेलिकलिते कालिन्दि कृष्णप्रभे त्वत्कूले जललोलगोलविचलत्कल्लोलकोलाहलः । त्वत्कान्तारकुतूहलालिकुलकृज्झङ्कारकेकाकुलः कूजत्कोकिलसङ्कुलो व्रजलतालङ्कारभृत्पातु माम् ॥ ९॥ भवन्ति जिह्वास्तनुरोमतुल्या गिरो यदा भूसिकता इवाशु । तदप्यलं यान्ति न ते गुणान्तं सन्तो महान्तः किल शेषतुल्याः ॥ १०॥ कलिन्दगिरिनन्दिनीस्तव उषस्ययं वापरः श्रुतश्च यदि पाठितो भुवि तनोति सन्मङ्गलम् । जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशः स याति परमं पदं निजनिकुञ्जलीलावृतम् ॥ ११॥ इति श्रीगर्गसंहितायां माधुर्यखण्डे श्रीनारदबहुलाश्वसंवादे श्रीसौभरिमान्धातृसंवादे श्रीयमुनास्तवो नाम सप्तदशोऽध्यायः ॥ १७॥ Garga Samhita, Madhuryakhanda, Adhaya 17