अक्षर आकार:

श्रीयमुनास्तवः

Shri Yamunastava

श्रीयमुनास्तवः

कलिन्दतनये देवि परमानन्दवर्धिनि । स्नामि ते सलिले सर्वापराधान् मां विमोचय ॥ चिदानन्दभानोः सदा नन्दसूनोः परप्रेमपात्री द्रवब्रह्मगात्री । अघानां लवित्री जगत्क्षेमदात्री पवित्रीक्रियान् नो वपुर्मित्रपुत्री ॥ जयति तरणिपुत्री धर्मराजस्वसा या कलयति मथुरायाः सख्यमत्येति गङ्गाम् । मुरहरदयिता तत्पादपद्मप्रसूतं वहति च मकरन्दं नीरपूरच्छलेन ॥ गङ्गादितीर्थपरिसेवितपादपद्मां गोलोकसौख्यरसपूरमहिं महिम्ना । आप्लाविताखिलसुधासु जलां सुखाब्धौ राधामुकुन्दमुदितां यमुनां नमामि ॥ इति श्रीयमुनास्तवः सम्पूर्णः ।