अक्षर आकार:

श्रीयमुनालहरी

Shri Yamuna Lahari

श्रीयमुनालहरी

वरौवर्तिश्यामा तरणितनया दीनशरणा पदाप्तानामन्दौ हरणविधिवैदग्धहृदया । प्रवृत्ता गोलोकाद्यदमृतसुधारामलहरा पुनन्ती त्रैलोक्यं पुनरपि निजे धाम्नि विशति ॥ १॥ यदेकः सिद्धिनां किल जननि ! गोलोकसरणिः प्रवृत्तं सन्तापं प्रशमयितुमारोग्यजनकम् । हृदञ्चिप्रोन्नत्यै मदुलहिमसिदाञ्जनमिदं त्वदीयं कीलालं मम दुरितजालं जरयतु ॥ २॥ तमो दूरीकुर्वन् मद कलहमोहादिकगणं तिरः कुर्वन् कामं अमुदितकुगर्वं हृदयतः । सकृदृष्टिं यातस्तरणितनयेऽयं तव शुभः प्रवाहो नीराणां मयि विमलतत्वं वितरतु ॥ ३॥ अयि श्रीकृष्णाङ्गप्रचुरतरगन्धाक्तसलिले रजस्तेऽसत्कर्माङ्कितहृदयसमार्जनकरम् । मदीयेऽस्मिंश्चित्ते विविधविषयावासमलिने चिदानन्दामोदं निगमतिबोधं प्रदिशतु ॥ ४॥ विचित्रं त्वत्तेजो भुवि किमु समर्थाः प्रकटितुं कवीन्द्रा योगीन्द्रादिविगतमुनीन्द्राः शुभधियः । महित्वं तेऽनन्तं तपयति मखादीनपि यत- स्त्वया स्पृष्टो वायुर्नरक पदहारीनरकदः ॥ ५॥ पलायन्ते यस्या झटिति शुभनामग्रहयतो भयार्ताः पापानां विविधनिकराः कम्पनयुताः । विनिन्दन्तो मर्त्यान् स्वकृतमलनाशाश्रितविधी नऽतः को वा दक्षस्तवचरण सेवां न हि चरेत् ॥ ६॥ जनः को वा दीनस्त्यजति तव पीताऽम्बरपदै- र्विचित्रैः कलोल्लैर्निगमसरितस्वौरमसितम् । यतः सत्कामानां भवति विमला सिद्धि रनिशं निशम्यैतां कीर्तिं ह्यहमपि तवोपस्थितिमितः ॥ ७॥ सदा दीनोद्धारे जयति तव तेजोऽमरनुतं प्रसिद्धं त्रैलोक्ये कविवरगिरा श्लाघितमहो । इदानीं दौर्भाग्यं मम तु तदपि न्यूनयति वै यतस्वं निःस्नेहा भवसि मयि दीने पदमिते ॥ ८॥ अयि श्रीगोविन्दालयकलनि ! मार्त्तण्डतनये ! त्वयाऽहो वैषम्यं वद जननि ! लब्धं कुत इदम् । प्रसूधर्मं यत्त्वं त्यजसि निजबालेषु विषमा- वरेष्विष्टा मूर्खेष्वितरनयनेति त्वऽघटते ॥ ९॥ इदं त्वद्द्वैषम्यं समुचितपदं नैति कठिनं यदीच्छा चेत्कर्तुं भवति तवचित्ते हठयुते । तदा कार्य्यं चैतत्सततमपरेणैव विधिना क्वचित्तत्प्रख्यातं तवसहजजातं रविसुते ॥ १०॥ तदेतद्वैषम्यं प्रधयितुमहं नैव विभवे विशुद्धा लोकन्ते किमु मम लघोः सूचनभरैः । यतस्त्वं पुण्यानामतिशय समृद्धिं प्रकुरुषे- ऽन्यथात्वं पापानामिति जननि ! जागर्तिजगति ॥ ११॥ अबोधे विद्रोहं तमसि च विमोहं वितनुषे कलेः सैन्ये शोकं विषयिनि विमोकं रविसुते । मखादीनां वृद्धिं जगति च समृद्धिं पदगते तवाहो वैषम्यं कथितुमिह कः स्वाद्विभुरिदम् ॥ १२॥ कृतान्तप्रेष्याणां पधिगमनदुःखं प्रहरसि विमानानां तत् त्वं वितरसि कलिन्दाचलभवे । मलाढ्यानां यज्ञोद्भवफलमुताहो विदधतौ सुरेन्द्राणां चित्ते गृहरणशङ्का वितनुते ॥ १३॥ इदं त्वद्वैषम्यं क्वनुगतमहो कृष्णरमिते स्वभावादुत्पन्नं मयि जननि संयाचनपरे । यतो मत्पापानां प्रबलतरसम्बदनिचये क्वतोपेक्षासि त्वं चरितमिदमत्यद्भुतपदम् ॥ १४॥ स्वसारो वर्तन्ते जगति सरलाः स्नेहसहिता निजानां भ्रातृणां सुखसदनसम्पद्वृतधियः । चरित्रं चैतत्ते त्वमसि विषमा भ्रातरि निजे यतस्तस्यावासं गहनमिव शून्यं प्रकुरुषे ॥ १५॥ अतस्वातो भीतिर्विषमपदतः कर्तुमुचिता भवानन्दाकाङ्क्षैस्दपि तवदास्यं त्वभिलषे । यतो मे त्वङ्गात्रा सह विरोधोऽस्यऽघलिपे र्निदानादार्य्येऽतस्तव ! जननि पक्षेऽस्मि विबलः ॥ १६॥ अतो द्वेषान्मातर्मयि तवपदालम्बनतया न जाने विद्वेषं कतिविधमुताहो जनयिता । कृतान्तस्त्वङ्माता भयमिति मनो नैव कुरुते यतस्त्वं किन्तस्मान्मानिजामनुगतं पातुमबला ॥ १७॥ स्वभावाद्वाऽमर्शाद्यमसदनलुण्ठाकतिलके ममेयं वै मातस्तवपदयुगे प्रार्थनपदी । इदानीमारब्धे पितृपतिगृहालुण्ठन- विधौ मदेनो लेखानां कुरु रचितपत्राऽपहरणम् ॥ १८॥ जनं धर्मात्मानं त्वमसि यदि सन्तारयितुमु- दयुता संसाराब्धेरहह तव कोऽवास्ति महिमा । यदा पापात्मानं विगततरणोपायमबलं मुनीयासस्तर्हीह त्वयि किल महत्वं स्थितिमियात् ॥ १९॥ शिशूनां बाल्यत्वात्कृतमनुचितं बालचरितं विलोक्याऽऽमोदन्ते तदपहृतिमाकल्प पितरः । अतो मे यत्किञ्चित्कुचरितमपीड्ये तदधुना स्वकीयाद्वात्सल्यादपहर तथा पालय शिशुम् ॥ २०॥ अथ त्वं मत्पापप्रचयमिह नेवान्तकपदं नयिष्यस्याऽऽर्य्ये चेद्भवति च तदाऽनर्थपदवी । गमिष्यन्त्यौन्नत्यं विभयपमेनांस्यऽपि नृणां चरिष्यन्ती लायां स्वरुचि शुभनाशाय यमुने ॥ २१॥ अहं वै नो शक्ता तवदुरितसन्दारऽणविधौ वदेच्चेदित्येवं कथमपि न कालिन्दि घटते । यदेनो मेरोरऽप्यऽसि बलयुता मर्दनविधौ त्वदग्रे का वार्ता मदघतृणराशेरिति शपे ॥ २२॥ यदा पापाऽऽत्मानस्तवरजकणस्पर्शमऽपि वा- ऽऽप्य ते मालोके सन्दधति हरिरूपत्वमऽसिताः । अयं कृष्णः किम्बा त्विति बहुपरामर्शमनसो भ्रमन्ति श्रीकष्णानुगसखिगणा द्वापरपराः ॥ २३॥ सशङ्कं लोकन्ते तवमहिमवैचितत्र्यकुतुकं सुलेखा लेखानां विधिभिरपि लेखा न लिखितुम् । समर्था जायन्ते कथमिह तदा लेखविषये विभुः को वा भूयात्तदवरगुणाविष्टधिषणः ॥ २४॥ भवेन्नास्मिंश्चित्तं किमपि गणनाऽतर्क्यविषये महिम्नि त्वत्यादाम्बुजमहस आत्मेश्वरि ! यतः । भवाब्धिं सन्तीर्णास्तवजलनिकादिभिरहो महाघा यावन्तो न हि नभसि तारास्तरणिजे ॥ २५॥ भवत्या एतादृक् चरणमहिमा वै समुचितः पुनन्त्या प्राचीनाऽघगृहहृदयानुत्पथगतान् । यतो ब्रह्माण्डानामधिपतिरनन्तोऽपि विवश-। स्तवप्रेम्णा मातर्दधत ग्रह केलिं तवतटे ॥ २६॥ अथाऽपि श्रीकृष्णालय-विविध-सत्केलिकुतुके कवीन्द्रास्वत्पादाम्बुजयुगलमेवाविधिधियः । गुणन्ति त्वत् कीर्तिं विशदयितुमात्मीयरसनं ममाप्येवं भावो हृदय उदितो मुग्धमनसः ॥ २७॥ त्वदीये प्रत्यक्षे महिमनिहि विश्वाससहितो मली को वा न स्यात्तवचरणसेवाभिलषकः । यतस्वय्यावासात्कठिन उरगः कालिय इतः फणासु क्रीडन्तं निगमपदवीगम्यमजितम् ॥ २८॥ अतस्वं गोविन्दं नवहरिणकौशेय वसनं लसन्तं त्वत्तीरे वृषभदयिता पालनपरम् । विहारैः कौमारैः सखिभिरपि सङ्क्रीडनपरं विभुं मत्याणेशं कुरु झटिति मदृष्ठिविषये ॥ २९॥ क्वता येन क्रीडा लसति तवतीरे कलशिका जलादाने काले पशुपरमणीनां सुखकरा । विचित्रैर्माधुर्यैः सरसवचनैर्भावसहितै- र्वृतं तं स्वीकर्त्तुं कलय किल मां तत्प्रियसखि ॥ ३०॥ विहारि नियाख्ये तवपुलिन देशस्थल मिते सखीरूपेणाय्यें रसपतिनिकुञ्जोद्भवसुखम् । त्वया प्राप्तं सोऽपि त्वयि वसति साक्षाद्भरिरतः श्रमः कस्ते मह्यं प्रभुचरण पद्मेक्षणविधौ ॥ ३१॥ त्वयि स्नानान्मातः पशुपतनयाभिः पतिरितो विर्भुब्रहमादीनां व्रजपदयिता जीवनधनम् । पुलिन्दीभिश्चापि प्रभुचरणपङ्केरुहरसो वने प्राप्तःसाक्षात्दिति तवपदस्नानमहिमा ॥ ३२॥ विलीयन्ते कर्माण्ययि तवपदा वर्चति जने तदा तस्यार्चायै कलयति विधिं निर्ज्जरगणः । तवभ्रातुर्मन्त्रो निजलिपि विनाशं वितनुते तमानितुं कृष्णः परिषदिनियुङ्तेऽनुगगणान् ॥ ३३॥ भवत्याः श्रीमातर्मधुचरणपङ्केरुहयशो जनः को वा श‍ृण्वंस्त्रिदशपुरवद्यो न हि भवेत् । सवातः सुश्लोकं विषम हदयानामपि गति- प्रदं को वा दत्तो भुवि न श्रुणुयाद्वा न हि पठेत् ॥ ३४॥ भवत्यास्तीरस्था द्रुममृगविहङ्गादय उश- त्ययोमध्याविष्टाः कमठमकराद्या अपिवराः । यतो जीवन्तस्ते परमपुरुषानन्दजलाधौ निमग्नाः सन्तऽन्ते झटिति लयमायान्ति परमे ॥ ३५॥ कदाप्येको यज्ञः क्षिति विबुधशप्तः स्मरवशः सुरापी मांसाशी श्रुति-सृतिविरोधी तवतटे । भमन् दष्टो दैवात्पथिगतभुजङ्गेन सहसा मृतो रेणुस्पर्शाद्धरिमित इति त्वत्पदमहः ॥ ३६॥ मृतेऽरण्ये दुष्टे भसक उरुदुर्गन्धि-क्वमिले त्वदप्सु, स्नात्वाऽन्यैः क्वतसमर उड्डीयपतितः । वटः कश्चिद्दैवात्तवजलरजःश्लिष्टपतन- स्ततः स्पर्शामुक्तो भसक इति ते देविमहिमा ॥ ३७॥ यदार्येते रोधद्वयलसितपादाशनलता विता नराच्छन्नं दिनमणिविभा-तापरहितम् । घनश्यामाङ्गा भज्जित-मरकताभं शिक्करं मदीय स्नानाय प्रतिदिनमिदं वारि भवतात् ॥ ३८॥ मदीयेऽस्मिंश्चित्ते गगनमणि-कन्ये रुचिरियं वसंस्त्वत्तीरे श्रीपरमपदगोवर्धनधरम् । स्मरेयं गोविन्दं सकलमपहायांशु विषयं त्वयेत्यार्ये पाल्या कुरु मयि कृपां दीन उचिताम् ॥ ३९॥ ततो वृन्दारण्ये तवपुलिन सद् वृक्षकालिते निकुञ्जे कीडन्तं स्वपदरमणीभिः परिवृतम् । हरिं राधायुक्तं कनकमणिसिंहासनयुतं निरीक्षन्नर्चिष्ये तवचरण जाऽनुग्रहलवात् ॥ ४०॥ कदाहं स्यां मातस्तवचरण पङ्केरुहक्वपा भराद्वर्ये नित्यं निगम शुभसारैयाशरणः । परानन्दाऽऽपुष्टः परिहृतमवानन्दनिकरः प्रसीद श्रीकृष्णे कुरु मयि दयां कृष्णदयिते ॥ ४१॥ इदानीं सन्देहो भवति मयि कालिन्दिरविजे स्वभावादुत्पन्नं विविधजनतोद्धारक गुणम् । अथादयाहो मातर्गतमहह किं विस्मृतिपदं यदङ्घ्याव्यामोदं वितरसि न मे दीनगतिदे ॥ ४२॥ त्वदङ्घ्यज्जालम्बाद्धिगतसुरभीतीरविसुते ह्ययं चिन्ताहीनो निजभवसमुद्धारविषये । इदानीं मत्त्यागो यदि बतविधेयो जननि ते तदा मे स्याङ्गानिस्तव तु यशसामन्त विषयः ॥ ४३॥ पुनन्ती त्वं लोकांस्यजसि निजतोका निति शुभे चरित्रं को ब्रूयात् क्षम मयि सहस्त्रांशुतनये । कथं मे त्वं पुत्रो भवसि वद चेच्छङकस इति स्वयं प्राप्तोऽपि स्यात्सुत इति दृढाऽस्ति श्रुतिरिह ॥ ४४॥ सुता नो जायन्ते जगति मलमूत्रादिरहिता- स्तथा नो मातापि श्रुतिपथमिता ग्लानिसहिता । सदाचारश्चैकं जयति नु तिरस्कृत्य तमहो कथं मत्तो ग्लानिं कुरुष इह मातर्मलिनतः ॥ ४५॥ अयि श्रीगोविन्दप्रियसखिसहस्रांशुतनये तमीनाशो न स्वाद्यदि तवपितुः कः करगुणः । तथा त्वत्पादानाऽऽश्रयिण इह मेऽन्तःकरणत- स्तमोलोपो न स्यात् किमु तवयशस्तर्हि भविता ॥ ४६॥ तवालम्बान्मातर्मदकलहमोहादिकखलान् कदर्थीकृत्येभं भवनिधिमहं तर्त्तुमबलः । समोहे हे कृष्णे मम पणमिमं पालय शिशो- र्निरीक्षन् कीर्तिं स्वामपि जननि मा हासय रिपून् ॥ ४७॥ नमस्ते कालिन्दि प्रभुचरणपङ्केरुहरज- स्तुलस्यामोदान्भोविविधगमनाऽऽनन्दरसदे । तरङ्गैः प्रोत्तुङ्गैः कलिकलुषभङ्गैः शिवतमै- र्मदन्गम्मार्जन्ती मम मन दूने प्रेरय निजे ॥ ४८॥ क्वचिद्गोभिर्वत्सैः क्वचिदपि मयूरादिनिकरैः क्वचिद्वास्नातीनां पशुपरमणीनां नवगणैः । क्वचिद्वेदाभ्याऽऽगमजपपरैर्ब्राह्मणगणै- र्व्रजे याति शोभा मम हृदयलोभाय भवतात् ॥ ४९॥ कपालुत्वं ते वा इह जगति को वा निगदितुं समर्थः सम्भूयात्कविसदसि साहित्यचतुरः । सुनीतिर्वालो यत्तवतटनिवासेन झटिति प्रपेदे श्रीकृष्णं त्विति खलु न को वेत्ति यमुने ॥ ५०॥ पयोदाभे मातस्तव शुभपयःपान विधिनाऽ- म्बरीषो दुर्वासः कृतकठिनपाशादपि दृढः । भयं नैक प्राधिषदपि हरिचक्राऽविततनु- र्ह्यतः को वा न स्यात्ततवसलिलपानाऽर्पितमनाः ॥ ५१॥ कृतान्तस्त्वांङ्गाता तवदपकृतालम्बनजनान् समर्चन्नानन्दं भजति च पयःपाननिरतान् । कथं वा नो कुर्याद्यदुचितमिदं धर्मपथगः स्वसुपुन्नान् यस्माद्यजतिविभवैर्मातुलगणः ॥ ५२॥ उषो मज्जन्तीनां व्रजपदयितानां तनुगतैः सुरागैरामोदैः शिवशिवकरैः पिञ्जचररुचि । त्वदीयं कीलालं त्रिदशनिकरैः प्रार्थमनिषं कथं न स्यान्मातर्बुधजनमनोहारि यमुने ॥ ५३॥ मधोः पुर्य्याः प्राच्यां दिशि लसति भूयोजन मिते विचित्रे रायाख्ये नगर उरु कालात् स्वपितृभिः । कृतं वासं त्यक्त्वा तवजलनिधानैकविधिना स्वमुक्ते संसिध्ययाऽहमुशतिवृन्दावन इतः ॥ ५४॥ खलो वा नीचो वा निगमविमुखो वा शठमति- र्मन्दो वा क्रोधो वा कलिमलरतो वा विषयधीः । अहं याहक् तादृक् तवचरणपङ्केरुहरजः प्रपन्नोऽहं मातस्विह यदुचितं तत्कुरु हितम् ॥ ५५॥ नमस्ते कृष्णायै दिनमणिसुतायै भवकृते नमः श्रीकालिन्द्यैः जनशरणदात्र्यै शुभभुवे । नमः संशुद्धायै यदुपतिगृहिण्यैः किल नमो नमस्ते श्रीवृन्दावमपुलिनकेल्यायऽयि नमः ॥ ५६॥ स्वान्तः सुखाय यमुनालहरीकृतेयं श्लोकैसचिश्च्छिखरिणीत्यभिधानवृत्तैः । प्रेम्णाऽर्पिता रविसुतापदयोश्च दुर्गा दत्ताऽभिधेन कविनन्दकिशोरजेन ॥ ५७॥ इति श्रीनन्दकिशोरात्मज-दुर्गादत्तकृता श्रीयमुनालहरी समाप्ता ।