अक्षर आकार:

श्रीयमुना कवचम्

Shri Yamuna Kavacham

श्रीयमुना कवचम्

गर्गसंहितान्तर्गतं मान्धातोवाच - यमुनायाः कृष्णराज्ञ्याः कवचं सर्वतोऽमलम् । देहि मह्यं महाभाग धारयिष्याम्यहं सदा ॥ १॥ सौभरिरुवाच - यमुनायाश्च कवचं सर्वरक्षाकरं नृणाम् । चतुष्पदार्थदं साक्षाच्छृणु राजन्महामते ॥ २॥ कृष्णां चतुर्भुजां श्यामां पुण्डरीकदलेक्षणाम् । रथस्थां सुन्दरीं ध्यात्वा धारयेत्कवचं ततः ॥ ३॥ स्नातः पूर्वमुखो मौनी कृतसन्ध्यः कुशासने । कुशैर्बद्धशिखो विप्रः पठेद्वै स्वस्तिकासनः ॥ ४॥ यमुना मे शिरः पातु कृष्णा नेत्रद्वयं सदा । श्यामा भ्रूभङ्गदेशं च नासिकां नाकवासिनी ॥ ५॥ कपोलौ पातु मे साक्षात्परमानन्दरूपिणी । कृष्णवामांससम्भूता पातु कर्णद्वयं मम ॥ ६॥ अधरौ पातु कालिन्दी चिबुकं सूर्यकन्यका । यमस्वसा कन्धरां च हृदयं मे महानदी ॥ ७॥ कृष्णप्रिया पातु पृष्ठं तटिनि मे भुजद्वयम् । श्रोणीतटं च सुश्रोणी कटिं मे चारुदर्शना ॥ ८॥ ऊरुद्वयं तु रम्भोरुर्जानुनी त्वङ्घ्रिभेदिनी । गुल्फौ रासेश्वरी पातु पादौ पापप्रहारिणी ॥ ९॥ अन्तर्बहिरधश्चोर्ध्वं दिशासु विदिशासु च । समन्तात्पातु जगतः परिपूर्णतमप्रिया ॥ १०॥ इदं श्रीयमुनायाश्च कवचं परमाद्भुतम् । दशवारं पठेद्भक्त्या निर्धनो धनवान्भवेत् ॥ ११॥ त्रिभिर्मासैः पठेद्धीमान् ब्रह्मचारी मिताशनः । सर्वराज्याधिपत्यञ्च प्राप्यते नात्र संशयः ॥ १२॥ दशोत्तरशतं नित्यं त्रिमासावधि भक्तितः । यः पठेत्प्रयतो भूत्वा तस्य किं किं न जायते ॥ १३॥ यः पठेत्प्रातरुत्थाय सर्वतीर्थफलं लभेत् । अन्ते व्रजेत्परं धाम गोलोकं योगिदुर्लभम् ॥ १४॥ इति गर्गसंहितायां माधुर्यखण्डे षोडशाध्यायान्तर्गतं यमुना कवचं सम्पूर्णम् । Garga Samhita, Madhuryakhanda, Adhaya 16