अक्षर आकार:

यमुनाष्टपदी

yamunAShTapadI

यमुनाष्टपदी

नमो देवि यमुने नमो देवि यमुने हर कृष्णमिलनान्तरायम् । निजनाथमार्गदायिनि कुमारी- कामपूरिके कुरु भक्तिरायम् ॥ ध्रु०॥ मधपकुलकलितकमलीवलीव्यपदेश- धारितश्रीकृष्णयुतभक्तहृदये । सततमतिशयितहरिभावना- जाततत्सारूप्यगदितहृदये ॥ १॥ निजकूलभवविविधतरुकुसुम- युतनीरशोभया विलसदलिवृन्दे । स्मारयसि गोपीवृन्दपूजित- सरसमीशवपुरानन्दकन्दे ॥ २॥ उपरि बलदमलकमलारुण- द्युतिरेणुपरिमलितजलभरेणामुना । व्रजयुवतिकुचकुम्भकुङ्कुमारुण- मुरः स्मारयामि मारपितुरधुना ॥ ३॥ अधिरजनि हरिविहृतिमीक्षितुं कुवलयाभिधसुभगनयनान्युशति तनुषे । नयनयुगमल्पमिति बहुतराणि च तानि रसिकतानिधितया कुरुषे ॥ ४॥ रजनिजागरजनितरागरञ्जित- नयनपङ्कजैरहनि हरिमीक्षसे । मकरन्दरभरमिषेणानन्दपूरिता सततमिह हर्षाश्रु मुञ्चसे ॥ ५॥ तटगतानेकशुकसारिकामुनि- गणस्तुतविविधगुणसीधुसागरे । सङ्गता सततमिह भक्तजन- तापहृदि राजसे रासरससागरे ॥ ६॥ रतिभरश्रमजलोदितकमल- परिमलव्रजयुवतिमोदे । ताटङ्कचलनसुनिरस्तसङ्गीत- युतमदमुदितमधुपकृतविनोदे ॥ ७॥ निजव्रजजनावनात्तगोवर्द्धने राधिकाहृदयगतहृदयकमले । रतिमतिशयितरसविठ्ठलस्याशु कुरु वेणुनिनदाह्वानसरले ॥ ८॥ श्लोकौ । व्रजपरिवृढवल्लभे कदा त्व- च्चरणसरोरुहमीक्षणास्पदं मे । तव तटगतवालुकाः कदाहं सकलनिजाङ्कगता मुदा करिष्ये ॥ १॥ वृन्दावने चारुबृहद्वने म- न्मनोरथं पूरय सूरसूते । दृग्गोचरः कृष्णविहार एव स्थितिस्त्वदीये तट एव भूयात् ॥ २॥ इति श्रीविठ्ठलेश्वरविरचिता यमुनाष्टपदी सामाप्त ।