अक्षर आकार:

श्रीयमुनाष्टकम् ७

Shri Yamunashtakam 7

श्रीयमुनाष्टकम् ७

त्वयि स्नाता ध्याता तव सलिलपाता नमयिता स्तुतेः कर्ता धर्ता तव रजसि मर्ता रविसुते । न चैवाख्यां वक्ता शमनसदने याति यमुने नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ १॥ मुरारातेः कायप्रतिमललितं वारि दधतीं कलिन्दाद्रेः श‍ृङ्गादपि पतनशीलां गतिमतीम् । स्वपादाब्जं ध्यातुर्जनिमरणशोकं वितुदतीं नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ २॥ कदम्बानां पुष्पावलिभिरनिशं रूषितजलां विधीन्द्राद्यैर्देवैर्मुनिजनकुलैः पूजितपदाम् । भ्रमद्गोगोधुग्भिर्विहगनिकरैर्भूषिततटां नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ३॥ रणद्भृङ्गश्रेणीविकसितसरोजआवलियुतां तरङ्गान्तर्भ्राम्यन्मकरसफरीकच्छपकुलाम् । जलक्रीडद्रामानुजचरणसंश्लेषरसिकां नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ४॥ तरुश्रेणीकुञ्जावलिभिरभितः शोभिततटां महोक्षाणां श‍ृङ्गावलिभिरभितो मर्दिततटाम् । स्थितां वृन्दाटव्यां सततमभितः पुष्पितवनां नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ५॥ निशायां यस्यां बिम्बितममलतारागणमहो विलोक्योत्कण्ठन्ते सकलसफरा अत्तुमनिशम् । विकीर्णं लाजानां निकरमिति मत्वा सरभसं नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ६॥ शरन्मेघच्छाया सकलमनुजैर्यत्सलिलगा हरेः स्वस्यामाप्तुं स्नपनमिति बुद्ध्या सरभसम् । किमायाता गर्भे सुरसरिदहो तर्क्यत इति नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ७॥ नृणामीक्षामात्रादपि सकलसौख्यं विदधती- मनायासेनैवाखिलभुवनभोग्यं प्रददतीम् । स्वकान्तीनां व्यूहैर्बलभिदुपलं चापि तुदतीं नमामस्त्वां नित्यां सकलगुणयुक्तां रविसुताम् ॥ ८॥ ममैषा विज्ञप्तिः पदकमलयोस्ते तरणिजे बटे हा भाण्डीरे तव विमलतीरे निवसतः । हरे कृष्णेत्युच्चैरपि च तव नामानि गदतः सदा वृन्दारण्ये जननि जननं यातु मम वै ॥ ९॥ किमायाता कालः स इह जनने मे हतविधे- र्यदायातः कृष्णो मधुमधुरवाङ्निर्झरजलैः । श्रुतेर्मार्गं सिञ्चन्करकमलयुग्मेन सहसा मदङ्गं स्वाङ्गे हा व्रततिमिव वृक्षो गमयिता ॥ १०॥ इदं स्तोत्रं प्रातः पठति यमुनायाः प्रतिदिनं शरीरी यस्तस्योपरि भवति प्रीता रविसुता । हरेः प्रेष्ठो भूत्वा हरिचरणभक्तिं च लभते भुवो भोगान्मुक्त्वा व्रजति मरणान्ते हरिपदम् ॥ ११॥ इति श्रीवनमालिशास्त्रिविरचितं श्रीयमुनाष्टकम् ।