अक्षर आकार:

श्रीयमुनाष्टकम् ५

shrIyamunAShTakam 5

श्रीयमुनाष्टकम् ५

या गोकुलागमनसम्भ्रमदत्तमार्गा कृष्णाय शौरिमुदकैरविभावयन्ती । स्रष्टुं तदङ्घ्रिकमलेऽभवदुत्तरङ्गा सा मन्मनोरथशतं यमुना विधत्ताम् ॥ १॥ या नन्दसूनुमुरलीरवलीलयोद्यद्- भावप्रभावगलदश्रुपरागमङ्घ्रिम् । उन्मीलिताब्जनयनाऽस्पृशदूर्मिदोर्भिः सा मन्मनोरथशतं यमुना विधत्ताम् ॥ २॥ या गोकुलेशमुषितांशुकलज्जितान्त- राकण्ठमग्ननवनन्दकुमारिकाणाम् । कम्पोद्गमं विदधती न विलम्बमैच्छत् सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ३॥ या राधिकाऽधरपयोधरकामुकाय तस्मै निकुञ्चनिलयं स्वकरैश्चकार । स्वच्छोचितातिमृदुवालुकभूवितानं सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ४॥ या रासकेलिजनितश्रमहारिवारि- क्रीडासु घोषवनितोच्छलदम्बुराशिः । नन्दात्मजं सुखयति स्म कृताभिषेकं सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ५॥ या चञ्चदञ्चलदृशः सभयं व्रजस्त्रीः पीनोन्नतस्तनतटीः परिरभ्य मन्दम् । पारे नयन्तमुपलक्ष्य हरिं समासीत् सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ६॥ या विभ्रमद्भ्रमरपङ्क्तितदङ्गसङ्ग- लग्नाङ्गरागरुचिरद्युतिदामनेत्री । तत्पादपङ्कजरजोपचिताङ्गदात्री सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ७॥ या सेविताऽनिशमशेषजनैर्व्रजेश- पादाम्बुजेऽतिरतिमाशु ददाति तेभ्यः । संस्तूयते शिवविरञ्चिमुनीन्द्रवर्यैः सा मन्मनोरथशतं यमुना विधत्ताम् ॥ ८॥ उक्तं मयाऽष्टकमिदं तव सूरसूते यः सादरं त्वयि मनः प्रपठेन्निधाय । तस्याचला व्रजपतौ रतिराविरास्तां नित्यं प्रसीद मयि देवकिनन्दनेऽपि ॥ ९॥ इति श्रीदेवकीनन्दनकृतं यमुनाष्टकं सम्पूर्णम् ।