अक्षर आकार:

श्रीयमुनाष्टकम् ४

shrIyamunAShTakam 4

श्रीयमुनाष्टकम् ४

यया तमीशवंशजः समापितो बृहद्धनं मरुच्चलञ्जलप्रभूतवीचिविप्लुषां मिषात् । तदङ्घ्रिकञ्जभक्तियुक्तया सुदत्तमार्गया कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ १॥ यदम्बुपानमात्रतोऽतिभक्तियुक्तचेतसां कृतैनसामहो निजस्वभावतः कृपायुता । प्रधाव्य धर्मराजतो महद्भयं निवर्त्य सा कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ २॥ यदीयनीरकेलितो दधार नन्दनन्दनः समस्तसुन्दरीजने स्वभावमद्भुतं मुदा । परस्परावलोकनं विवर्धयन् सुदृष्टितः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ३॥ यदङ्घ्रिफुल्लपङ्कजेऽवनप्रभावतः सदा समस्तभक्तसङ्ग्रहं पुनाति सा जगत्त्रयम् । गिरीशधारिसङ्गमप्रबोधसत्सुखासदं कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ४॥ यथाऽऽपदश्च दूरतो ज्वलन्ति सम्पदः सदा वसन्ति नन्दनन्दने दृढा रतिश्च जायते । महाष्टसिद्धिदाऽप्यशेषघोरपापसङ्क्षयः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ५॥ यदङ्कतो विनिःसृतस्य पापिनोऽपि शोभया जगत्त्रयं विमोहितं तदीयकान्तियुक्तया । प्रफुल्लसारसा प्रभूतरुद्रदेवसंस्तुता कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ६॥ यदीयभक्तसेवने कृते हरिः प्रसन्नता- मवाप गोपिकापतिः समस्तकामदायिनी । तदम्बुमध्यखेलनप्रभूतभावलज्जितः कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७॥ यदन्तिकस्थवालुकाः प्रयान्ति यत्र भूतले गृहे गृहे वसन्त्यसौ हरिस्तदन्वगश्च सा । यदा तदा सदैव तत्र भक्तवृन्दवन्दिता कलौ कलिन्दनन्दिनी कृपाकुलं करोतु नः ॥ ७॥ हरिप्रिये तवाऽष्टकं सदा पठेत्स शुद्धधी- र्य एव गोकुलाधिपस्य लेढि सङ्गमं शुभम् । पुनः प्रयाति तत्सुखं तटस्थरासमण्डल- स्थितास्त्रिभङ्गिमोहनं दधाति तद्विचेष्टितम् ॥ ८॥ इति श्रीरघुनाथजीकृतं यमुनाष्टकं समाप्तम् ।