अक्षर आकार:

श्रीविशाखानन्दाभिधस्तोत्रम्

Shri Vishakhanandabhidhastotram

श्रीविशाखानन्दाभिधस्तोत्रम्

भावनामगुणादीनामैक्यात्श्रीराधिकैव या । कृष्णेन्दोः प्रेयसी सा मे श्रीविशाखा प्रसीदतु ॥ १॥ जयति श्रीमती काचिद्वृन्दारण्यविहारिणी । विधातुस्तरुणीसृष्टिकौशलश्रीऋ इहोज्ज्वला ॥ २॥ छिन्नस्वर्णसदृक्षाङ्गी रक्तवस्त्रावगुण्ठिनी । निर्बन्धबद्धवेणीका चारुकाश्मीरचर्चिता ॥ ३॥ द्विकालेन्दुललाटोद्यत्कस्तूरीतिलकोज्ज्वला । स्फुटकोकनदद्वन्द्व बन्धुरीकृतकर्णिका ॥ ४॥ विचित्रवर्णविन्यास चित्रितीकृतविग्रहा कृष्णचोरभयाच्चोली गुम्फीकृतमणिस्तनी ॥ ५॥ हारमञ्जीरकेयूर चूडानासाग्रमौक्तिकैः । मुद्रिकादिभिरन्यैश्च भूषिता भूषणोत्तमैः ॥ ६॥ सुदीप्तकज्जलोद्दीप्त नयनेन्दीवरद्वय । सौरभोज्ज्वलताम्बूल मञ्जुला श्रीमुखाम्बुजा ॥ ७॥ स्मितलेशलसत्पक्व चारुबिम्बफलाधरा । मधुरालापपीयूष सञ्जीवितसखीकुला ॥ ८॥ वृषभानुकुलोत्कीर्ति वर्धिका भानुसेविका । कीर्तिदाखणिरत्नश्रीः श्रीजितश्रीः श्रियोज्ज्वला ॥ ९॥ अनङ्गमञ्जरीज्येष्ठा श्रीदामानन्ददानुजा । मुखरादृष्टिपीयूष वर्तिनप्त्री तदाश्रिता ॥ १०॥ पौर्णमासीबहिःखेलत्प्राणपञ्जरसारिका । सुबलप्रणयोल्लासा तत्र विन्यस्तभारका ॥ ११॥ व्रजेश्याः कृष्णवत्प्रेम पात्री तत्राति भक्तिका । अम्बावात्सल्यसंसिक्ता रोहिणीघ्रातमस्तका ॥ १२॥ व्रजेन्द्रचरणाम्भोजे ऽर्पितभक्तिपरम्परा । तस्यापि प्रेमपात्रीयं पितुर्भानोरिव स्फुटम् ॥ १३॥ गुरुबुद्ध्या प्रलम्बारौ नतिं दूरे वितन्वती । वधूबुद्ध्यैव तस्यापि प्रेमभूमीह ह्रीयुता ॥ १४॥ ललिताललिता स्वीय प्राणोरुललितावृता । ललिताप्राणरक्षैकरक्षिता तद्वशात्मिका ॥ १५॥ वृन्दाप्रसाधितोत्तुङ्ग कुडुङ्गानङ्गवेश्मनि । कृष्णखण्डितमानत्वाल् ललिताभीतिकम्पिनी ॥ १६॥ विशाखनर्मसख्येन सुखिता तद्गतात्मिका । विशाखाप्राणदीपालि निर्मञ्छ्यनखचन्द्रिका ॥ १७॥ सखीवर्गैकजीवातुस्मितकैरवकोरका । स्नेहफुल्लीकृतस्वीयगणा गोविन्दवल्लभा ॥ १८॥ वृन्दारण्यमहाराज्यमहासेकमहोज्ज्वला । गोष्ठसर्वजनाजीव्यवदना रदनोत्तमा ॥ १९॥ ज्ञातवृन्दाटवीसर्वलतातरुमृगद्विजा । तदीयसख्यसौरभ्यसुरभीकृतमानसा ॥ २०॥ सर्वत्र कुर्वति स्नेहं स्निग्धप्रकृतिराभवम् । नाममात्रजगाचित्तद्राविका दीनपालिका ॥ २१॥ गोकुले कृष्णचन्द्रस्य सर्वापच्छान्तिपूर्वकम् । धीरलालित्यवृद्ध्यर्थं क्रियमाणव्रताधिका ॥ २२॥ गुरुगोविप्रसत्काररता विनयसन्नता । तदाशीःशतवर्धिष्णुसौभाग्यादिगुणाञ्चिता ॥ २३॥ आयुर्गोश्रीयशोदायिपाको दुर्वाससो वरात् । अतः कुन्दलतानीयमाना राज्ञ्याः समाज्ञया ॥ २४॥ गोष्ठजीवातुगोविन्दजीवातुलपितामृता । निजप्रानार्बुदश्रेणिरक्ष्यतत्पादरेणुका ॥ २५॥ कृष्णपदारविन्दोद्यन्मकरन्दमये मुदा । अरिष्टमर्दि कासारे स्नात्री निर्बन्धतोऽन्वहम् ॥ २६॥ निजकुन्दपुरस्तीरे रत्नस्थल्यामहर्निशम् । प्रेष्ठनर्मालिभिर्भङ्ग्या समं नर्म वितन्वती ॥ २७॥ गोवर्धनगुहालक्ष्मीर्गोवर्धनविहारिणी । धृतगोवर्धनप्रेमा धृतगोवर्धनप्रिया ॥ २८॥ गान्धर्वाद्भुतगान्धर्वा राधा बाधापहारिणी । चन्द्रकान्तिश्चलापङ्गी राधिका भानुराधिका ॥ २९॥ गान्धर्विका स्वगन्धातिसुगन्धीकृतगोकुला । इति पञ्चभिराहूता नामभिर्गोकुले जनैः ॥ ३०॥ हरिणी हरिणीनेत्रा रङ्गिणी रङ्गिणीप्रिया । रङ्गिणीध्वनिनागच्छत्सुरङ्गध्वनिहासिनी ॥ ३१॥ बद्धनन्दीश्वरोत्कण्ठा कान्तकृष्णैककङ्क्षया । नवानुरागसम्बन्धमदिरोन्मत्तमानसा ॥ ३२॥ मदनोन्मादिगोविन्दमकस्मात्प्रेक्ष्य हासिनी । लपन्ती रुदती कम्प्रा रुष्टा दष्टाधरातुरा ॥ ३३॥ विलोकयति गोविन्दे स्मित्वा चारुमुखाम्बुजम् । पुष्पाकृष्टिमिषादूर्ध्वे धृतदोर्मुलचालना ॥ ३४॥ समक्षमपि गोविन्दमविलोक्येव भावतः । दले विलिख्य तन्मूर्तिं पश्यन्ती तद्विलोकिताम् ॥ ३५॥ लीलया याचकं कृष्णमवधीर्येव भामिनी । गिरीन्द्रगाह्वरं भङ्ग्या पश्यन्ती विकसद्दृशा ॥ ३६॥ सुबलस्कन्धविन्यस्तबाहौ पश्यति माधवे । स्मेरा स्मेरारविन्देन तमालं तडयन्त्यथ ॥ ३७॥ लीलया केलिपाथोजं स्मित्वा चुम्बितमाधवे । स्मित्वा भालात्तकस्तूरीरसं घृतवती क्वचित् ॥ ३८॥ महाभावोज्ज्वलाचिन्तारत्नोद्भवितविग्रहाम् । सखीप्रणयसद्गन्धवरोद्वर्तनसुप्रभाम् ॥ ३९॥ कारुण्यामृतवीचिभिस्तारुण्यामृतधारया । लावण्यामृतवन्याभिः स्नपितां ग्लपितेन्दिराम् ॥ ४०॥ ह्रीपट्टवस्त्रगुप्ताङ्गीं सौन्दर्यघुसृणाञ्चिताम् । श्यामलोज्ज्वलकस्तूरीविचित्रितकलेवराम् ॥ ४१॥ कम्पाश्रुपुलकस्तम्भस्वेदगद्गदरक्तता । उन्मदो जाड्यमित्येतै रत्नैर्नवभिरुत्तमैः ॥ ४२॥ क्ल्प्तालङ्कृतिसंश्लिष्टां गुणालिपुष्पमालिनीम् । धीराधिरत्वसद्वषपटवासैः परिष्कृताम् ॥ ४३॥ प्रच्छन्नमानधम्मिल्लां सौभाग्यतिलकोज्ज्वलाम् । कृष्णनामयशःश्रावावतंसोल्लासिकर्णिकाम् ॥ ४४॥ रागतम्बूलरक्तोष्ठीं प्रेमकौटिल्यकज्जलाम् । नर्मभाषितनिःस्यन्दस्मितकर्पूरवासिताम् ॥ ४५॥ सौरभान्तःपुरे गर्वपर्यङ्कोपरि लीलया । निविष्टां प्रेमवैचित्त्यविचलत्तरलाञ्चिताम् ॥ ४६॥ प्रणयक्रोधसाचोलीबन्धगुप्तिकृतस्तनाम् । सपत्नीवक्त्रहृच्छोशियशःश्रीकच्छपीरवाम् ॥ ४७॥ मध्यतात्मसखीस्कन्धलीलान्यस्तकराम्बुजाम् । श्यामां श्यामस्मरामोदमधुलीपरिवेशिकाम् ॥ ४८॥ सुभगवल्गुविञ्छोलीमौलीभूषणमञ्जरी । आवैकुण्ठमजाण्डालिवतंसीकृतसद्यशः ॥ ४९॥ वैदग्ध्यैकसुधासिन्धुश्चाटुर्यैकसुधापुरी । माधुर्यैकसुधावल्ली गुणरत्नैकपेटिका ॥ ५०॥ गोविन्दानङ्गराजीवे भानुश्रीर्वार्षभानवी । कृष्णहृत्कुमुदोल्लासे सुधाकारकरस्थितिः ॥ ५१॥ कृष्णमानसहंसस्य मानसी सरसी वरा । कृष्णचातकजीवातुनवाम्भोदपयःश्रुतिः ॥ ५२॥ सिद्धाञ्जनसुधावार्तिः कृष्णलोचनयोर्द्वयोः । विलासश्रान्तकृष्णाङ्गे वातली माधवी मता ॥ ५३॥ मुकुन्दमत्तमातङ्गविहारापरदीर्घिका । कृष्णप्राणमहामीनखेलनानन्दवारिधिः ॥ ५४॥ गिरीन्द्रधारिरोलम्बरसालनवमञ्जरी । कृष्णकोकिलसम्मोदिमन्दरोद्यानविस्तृतिः ॥ ५५॥ कृष्णकेलिवरारामविहाराद्भुतकोकिला । नादाकृष्टबकद्वेषिवीरधीरमनोमृगा ॥ ५६॥ प्रणयोद्रेकसिद्ध्येकवशिकृतधृताचला । माधवातिवशा लोके माधवी माधवप्रिया ॥ ५७॥ कृष्णमञ्जुलतापिञ्छे विलसत्स्वर्णयूथिका । गोविन्दनव्यपाथोदे स्थिरविद्युल्लताद्भुता ॥ ५८॥ ग्रीष्मे गोविन्दसर्वाङ्गे चन्द्रचन्दनचन्द्रिका । शीते श्यामशुभाङ्गेषु पीतपट्टलसत्पटी ॥ ५९॥ मधौ कृष्णतरूल्लासे मधुश्रीर्मधुराकृतिः । मञ्जुमल्लाररागश्रीः प्रावृषी श्यामहर्षिणी ॥ ६०॥ ऋतौ शरदि रासैकरसिकेन्द्रमिह स्फुटम् । वरितुं हन्त रासश्रीर्विहरन्ती सखीश्रिता ॥ ६१॥ हेमान्ते स्मरयुद्धार्थमटन्तं राजनन्दनम् । पौरुषेण पराजेतुं जयश्रीर्मूर्तिधारिणी ॥ ६२॥ सर्वतः सकलस्तव्यवस्तुतो यत्नतश्चिरात् । सारणाकृष्य तैर्युक्त्या निर्मायाद्भुतशोभया ॥ ६३॥ स्वश्लाघं कुर्वता फुल्लविधिना श्लाघिता मुहुः । गौरीश्रीमृग्यसौन्दर्यवन्दितश्रीनखप्रभा ॥ ६४॥ शरत्सरोजशुभ्रांशुमणिदर्पनमालया । निर्मञ्छितमुखाम्भोजविलसत्सुषमकणा ॥ ६५॥ स्थायीसञ्चारिसूद्दीप्तसत्त्विकैरनुभावकैः । विभावाद्यैर्विभावोऽपि स्वयं श्रीरसतां गता ॥ ६६॥ सौभाग्यदुन्दुभिप्रोद्यद्ध्वनिकोलाहलैः सदा । वित्रस्तीकृतगर्विष्ठविपक्षाखिलगोपिका ॥ ६७॥ विपक्षलक्षाहृत्कम्पासम्पादकमुखश्रिया । वशीकृतबकारातिमानसा मदनालसा ॥ ६८॥ कन्दर्पकोटिरम्यश्रीजयिश्रीगिरिधारिणा । चञ्चलापङ्गभङ्गेन विस्मारितसतीव्रता ॥ ६९॥ कृष्णेतिवर्णयुग्मोरुमोहमन्त्रेण मोहिता । कृष्णदेहवरामोदहृद्यमादनमादिता ॥ ७०॥ कुटिलभ्रूचलाचण्डकन्दर्पोद्दण्डकर्मुका । न्यस्तापङ्गशरक्षेपैर्विह्वलीकृतमाधवा ॥ ७१॥ निजाङ्गसौरभोद्गारमदकौषधिवात्यया । उन्मदीकृतसर्वैकमदकप्रवराच्युता ॥ ७२॥ दैवाच्छ्रुतिपथायातनामनीहारवायुना । प्रोद्यद्रोमाञ्चशीत्कारकम्पिकृष्णमनोहरा ॥ ७३॥ कृष्णनेत्रलसञ्जिह्वालेह्यवक्त्रप्रभामृता । कृष्णान्यतृष्णासंहारी सुधासारैकझर्झरी ॥ ७४॥ रासलास्यरसोल्लासवशीकृतबलानुजा । गानफुल्लीकृतोपेन्द्रा पिकोरुमधुरस्वरा ॥ ७५॥ कृष्णकेलिसुधासिन्धुमकरी मकरध्वजम् । वर्धयन्ती स्फुटं तस्य नर्मास्फलनखेलया ॥ ७६॥ गतिर्मत्तगजः कुम्भौ कुचौ गन्धमदोद्धुरौ । मध्यमुद्दामसिंहोऽयं त्रिबल्यो दुर्गभित्तयः ॥ ७७॥ रोमाली नागपाशश्रीर्नितम्बो रथ उल्बनः । दान्ता दुर्दन्तसामान्ताः पादाङ्गुल्यः पदातयः ॥ ७८॥ पादौ पदतिकाध्यक्षौ पुलकः पृथुकङ्कतः । ऊरू जयमणिस्तम्भौ बाहू पाशवरौ दृढौ ॥ ७९॥ भ्रूद्वन्द्वं कर्मुकं क्रूरं कटाक्षाः शनिताः शराः । भालमर्धेन्दुदिव्यास्त्रमङ्कुशाणि नखाङ्कुराः ॥ ८०॥ स्वर्णेन्दुफलकं वक्त्रं कृपणी करयोर्द्युतिः । भल्लभारः कराङ्गुल्यो गण्डौ कनकदर्पनौ ॥ ८१॥ केशपाशः कटुक्रोधः कर्णौ मौर्वगुणोत्तमौ । बन्धुकाधररागोऽतिप्रतापः करकम्पकः ॥ ८२॥ दुन्दुभ्यादिरवश्चूडाकिङ्किनीनूपुरस्वनः । चिबुकं स्वस्तिकं शास्तं कण्ठः शङ्खो जयप्रदः ॥ ८३॥ परिष्वङ्गो हि विद्ध्यस्त्रं सौरभं मदकौषदम् । वाणी मोहनमन्त्रश्रीर्देहबुद्धिविमोहिनी ॥ ८४॥ नाभी रत्नादिभाण्डारं नासाश्रीः सकलोन्नता । स्मितलेशोऽप्यचिन्त्यादि वशीकरणतन्त्रकः ॥ ८५॥ अलकानां कुलं भीष्मं भृङ्गास्त्रं भङ्गदायकम् । मूर्तिः कन्दर्पयुद्धश्रीर्वेणी सञ्जयिनी ध्वजा ॥ ८६॥ इति ते कामसङ्ग्रामसामग्यो दुर्घटाः परैः । ईदृश्यो ललितादीनां सेनानीनां च राधिके ॥ ८७॥ अतो दर्पमदाद्यूतं दानीन्द्रमवधीर्य माम् । महामारमहाराजनियुक्तं प्रथितं व्रजे ॥ ८८॥ सुष्ठु सीमान्तसिन्दूर तिलकानां वरत्विषाम् । हाराङ्गदादिचोलीनां नासामौक्तिकवाससाम् ॥ ८९॥ केयूरमुद्रिकादीनां कज्जलोद्यद्वतंसयोः । एतावद्युद्धवस्तूनां परार्ध्यानां परर्ध्यतः ॥ ९०॥ तथा दध्यादिगव्यानआममूल्यानानां व्रजोद्भवात् । अदत्त्वा मे करं न्याय्यं खेलन्त्यो भ्रमतेह यत् ॥ ९१॥ ततो मया समं युद्धं कर्तुमिच्छत बुध्यते । किं चैकोऽहं शतं यूयं कुरुध्वं क्रमशस्ततः ॥ ९२॥ प्रथमं ललितोच्चण्डा चरताच्चण्डसङ्गरम् । ततस्त्वं तदनु प्रेष्ठसङ्गराः सकलाः क्रमात् ॥ ९३॥ अथ चेन्मिलिताः कर्तुं कामयध्वे रणं मदात् । अग्रे सरत तद्दोर्भ्यां पिनष्मि सकलाः क्षणात् ॥ ९४॥ इति कृष्णवचः श्रुत्वा साटोपं नर्मनिर्मितम् । सानन्दं मदनाक्रान्तमानसालिकुलान्विता ॥ ९५॥ स्मित्वा नेत्रान्तबाणैस्तं स्तब्धीकृत्य मदोद्धतम् । गच्छन्ती हंसवद्भङ्ग्या स्मित्वा तेन धृताञ्चला ॥ ९६॥ लीलयाञ्चलमाकृष्य चलन्ती चारुहेलया । पुरो रुद्धपथं तं तु पश्यन्ती रुष्टया दृशा ॥ ९७॥ मानसस्वर्धुनीं तूर्णमुत्तरीतुं तरीं श्रिता । कम्पितायां तरौ भीत्या स्तुवन्ती कृष्णनाविकम् ॥ ९८॥ निजकुण्डपयःकेलिलीलानिर्जितमच्युतम् । हसितुं युञ्जती भङ्ग्या स्मेरा स्मेरमुखीः सखीः ॥ ९९॥ मकन्दमकुलस्यन्दिमरन्दस्यन्दिमन्दिरे । केलितल्पे मुकुन्देन कुन्दवृन्देन मण्डिता ॥ १००॥ नानापुष्पमणिव्रातपिञ्छागुञ्जाफलादिभिः । कृष्णगुम्फितधम्मिल्लोत्फुल्लरोमस्मरङ्कुरा ॥ १०१॥ मञ्जुकुञ्जे मुकुन्दस्य कुचौ चित्रयतः करम् । क्षपयन्ती कुचक्षेपैः सुसख्यमधुनोन्मदा ॥ १०२॥ विलासे यत्नतः कृष्णदत्तं ताम्बूलचर्वितम् । स्मित्वा वाम्यादगृह्णाना तत्रारोपितदूषणम् ॥ १०३॥ द्यूते पाणिकृतां वंशीं जित्वा कृष्णसुगोपिताम् । हसित्वाच्छिद्य गृह्णाना स्तुता स्मेरालिसञ्चयैः ॥ १०४॥ विशाखागूढनर्मोक्तिजितकृष्णार्पितस्मिता । नर्माध्यायवराचार्या भारतीजयवाग्मिता ॥ १०५॥ विशाखाग्रे रहःकेलिकथोद्घाटकमाधवम् । ताडयन्ती द्विरब्जेन सभ्रूभङ्गेन लीलया ॥ १०६॥ ललितादिपुरः साक्षात्कृष्णसम्भोगलञ्छने । सूच्यमाने दृशा दूत्या स्मित्वा हुङ्कुर्वती रुषा ॥ १०७॥ क्वचित्प्रणयमानेन स्मितमावृत्य मौनिनी । भीत्या स्मरशरैर्भङ्ग्यलिङ्गन्ती सस्मितं हरिम् ॥ १०८॥ कुपितं कौतुकैः क्र्ष्णं विहारे बाढमौनिनम् । कतरा परिरभ्याशु मानयन्ती स्मिताननम् ॥ १०९॥ मिथः प्रणयमानेन मौनिनी मौनिनं हरिम् । निर्मौना स्मरमित्रेण निर्मौनं वीक्ष्य सस्मिता ॥ ११०॥ क्वचित्पथि मिलाचन्द्रावलीसम्भोगदूषणम् । श्रुत्वा क्रूरसखीवक्त्रान्मुकुन्दे मानिनी रुषा ॥ १११॥ पादलक्षारसोल्लासिशिरस्कं कंसविद्विषम् । कृतकाकुशतं सास्रा पश्यन्तीषाचलद्दृशा ॥ ११२॥ क्वचित्कलिन्दजातीरे पुष्पत्रोटनखेलया । विहरन्ती मुकुन्देन सार्धमालीकुलावृता ॥ ११३॥ तत्र पुष्पकृते कोपाद्व्रजन्ती प्रेमकारितात् । व्याघोतिता मुकुन्देन स्मित्वा धृत्वा पटाञ्चलम् ॥ ११४॥ विहारश्रान्तितः कान्तं ललितान्यस्तमस्तकम् । वीजयन्ती स्वयं प्रेम्णा कृष्णं रक्तपटाञ्चलैः ॥ ११५॥ पुष्पकल्पितदोलायां कलगानकुतूहलैः । प्रेम्णा प्रेष्ठसखीवर्गैर्दोलिता हरिभूषिता ॥ ११६॥ कुण्डकुञ्जाङ्गने वल्गु गायदालीगणान्विता । वीणानन्दितगोविन्ददत्तचुम्बेन लज्जिता ॥ ११७॥ गोविन्दवदनाम्भोजे स्मित्वा ताम्बूलवीटिकाम् । युञ्जतीह मिथो नर्मकेलिकर्पूरवासिताम् ॥ ११८॥ गिरीन्द्रगाह्वरे तल्पे गोविन्दोरसि सालसम् । शयना ललितावीज्यमाना स्वीयपटाञ्चलैः ॥ ११९॥ अपूर्वबन्धगान्धर्वाकलयोन्मद्य माधवम् । स्मित्वा हरिततद्वेणुहारा स्मेरविशाखया ॥ १२०॥ वीणाध्वनिधुतोपेन्द्रहस्ताच्च्योतितवंशिका । चूडास्वनहृतश्यामदेहगेहपथस्मृतिः ॥ १२१॥ मुरलीगिलितोत्तुङ्गगृहधर्मकुलस्थितिः । श‍ृङ्गतो दत्ततत्सर्वसतिलापोऽञ्जलित्रया ॥ १२२॥ कृष्णपुष्टिकरामोदिसुधासाराधिकाधरा । स्वमधुरित्वसम्पादिकृष्णपादाम्बुजामृता ॥ १२३॥ राधेति निजनाम्नैव जगत्ख्यापितमाधवा । माधवस्यैव राधेति ज्ञापितात्मा जगत्त्रये ॥ १२४॥ मृगनाभेः सुगन्धश्रीरिवेन्दोरिव चन्द्रिका । तरोः सुमञ्जरीवेह कृष्णस्याभिन्नतां गता ॥ १२५॥ रङ्गिना सङ्गरङ्गेन सानङ्गरङिनीकृता । सानङ्गरङ्गभङ्गेन सुरङ्गीकृतरङ्गदा ॥ १२६॥ इत्येतन्नामलीलाक्तपद्यैः पीयूषवर्षकैः । तद्रसास्वादनिष्णातवसनावासितान्तरैः ॥ १२७॥ गीयमानं जनैर्धन्यैः स्नेहविक्लिन्नमानसैः । नत्वा तां कृपयाविष्टां दुष्टोऽपि निष्ठुरः शठः ॥ १२८॥ जनोऽयं याचते दुःखी रुदन्नुच्चैरिदं मुहुः । तत्पदाम्भोजयुग्मैकगतिः कातरतां गतः ॥ १२९॥ कृत्वा निजगणस्यान्तः कारुण्यान्निजसेवने । नियिजयतु मां साक्षात्सेयं वृन्दावनेश्वरी ॥ १३०॥ भजामि राधामरविन्दनेत्रां स्मरामि राधां मधुरस्मितास्याम् । वदामि राधां करुणभरार्द्रां ततो ममान्यास्ति गतिर्न कापि ॥ १३१॥ लीलानामाङ्कितस्तोत्रं विशाखानन्ददाभिधम् । यः पठेन्नियतं गोष्ठे वसेन्निर्भरदीनधीः ॥ १३२॥ आत्मालङ्कृतिराधायां प्रीतिमुत्पद्य मोदभाक् नियोजयति तां कृष्णः साक्षात्तत्प्रियसेवने ॥ १३३॥ श्रीमद्रूपपदाम्भोजधूलीमात्रैकसेविना केनचिद्ग्रथिता पद्यैर्मालाघ्रेया तदाश्रयैः ॥ १३४॥ इति श्रीरघुनाथदासगोस्वामिविरचितस्तवावल्यां श्रीविशाखानन्दाभिधस्तोत्रं सम्पूर्णम् ।