अक्षर आकार:

विन्ध्येश्वरीस्तोत्रम्

vindhyeshvarIstotram

विन्ध्येश्वरीस्तोत्रम्

श्रीगणेशाय नमः । निशुम्भशुम्भमर्दिनीं प्रचण्डमुण्डखण्डनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ॥ १॥ त्रिशूलमुण्डधारिणीं धराविघातहारिणीम् । गृहे गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ॥ २॥ दरिद्रदुःखहारिणीं सतां विभूतिकारिणीम् । वियोगशोकहारिणीं भजामि विन्ध्यवासिनीम् ॥ ३॥ लसत्सुलोललोचनां लतासदेवरप्रदाम् । var जने सदा वरप्रदाम् कपालशूलधारिणीं भजामि विन्ध्यवासिनीम् ॥ ४॥ करो मुदा गदाधरो शिवां शिवप्रदायिनीम् । var कराब्जदानदाधरां वरावराननां शुभां भजामि विन्ध्यवासिनीम् ॥ ५॥ ऋषीन्द्रजामिनिप्रदां त्रिधास्यरूपधारिणीम् । var कपीन्द्रजामिनिप्रदां त्रिधास्वरूप जले स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ॥ ६॥ विशिष्टसृष्टिकारिणीं विशालरूपधारिणीम् । महोदरे विशालिनीं भजामि विन्ध्यवासिनीम् ॥ ७॥ पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् । var सुरारिवंशखण्डिताम् विशुद्धबुद्धिकारिणीं भजामि विन्ध्यवासिनीम् ॥ ८॥ ॥ इति विन्ध्येश्वरीस्तोत्रं सम्पूर्णम् ॥ var indicates variation or pAThabheda.