अक्षर आकार:

विद्यादानवाक्सरस्वतीहृदयस्तोत्रम्

vidyAdAnavAksarasvatIhRidayastotram

विद्यादानवाक्सरस्वतीहृदयस्तोत्रम्

ॐ अस्य श्री वाग्वादिनी शारदामन्त्रस्य मार्कण्डेयाश्वलायनौ ऋषी, स्रग्धरा अनुष्टुभौ छन्दसी, श्रीसरस्वती देवता । श्रीसरस्वतीप्रसादसिद्ध्यर्थे विनियोगः ॥ ध्यानम् ॥ शुक्लां ब्रह्मविचारसारपरमां आद्यां जगद्व्यापिनीं वीणापुस्तकधारिणीमभयदां जाड्यान्धकारापहाम् । हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थितां वन्दे तां परमेष्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥ १॥ ब्रह्मोवाच । ह्रीं ह्रीं हृद्यैकविद्ये शशिरुचिकमलाकल्पविस्पष्टशोभे भव्ये भव्यानुकूले कुमतिवनदहे विश्ववन्द्याङ्घ्रिपद्मे । पद्मे पद्मोपविष्टे प्रणतजनमनोमोदसम्पादयित्रि प्रोत्प्लुष्टा ज्ञानकूटे हरिनिजदयिते देवि संसारसारे ॥ २॥ ऐं ऐं ऐं इष्टमन्त्रे कमलभवमुखाम्भोजरूपे स्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे । न स्थूले नैव सूक्ष्मेऽप्यविदितविषये नापि विज्ञानतत्त्वे विश्वे विश्वान्तराळे सुरवरनमिते निष्कळे नित्यशुद्धे ॥ ३॥ ह्रीं ह्रीं ह्रीं जापतुष्टे हिमरुचिमुकुटे वल्लकीव्यग्रहस्ते मातर्मातर्नमस्ते दह दह जडतां देहि बुद्धिं प्रशस्ताम् । विद्ये वेदान्तगीते श्रुतिपरिपठिते मोक्षदे मुक्तिमार्गे मार्गातीतप्रभावे भव मम वरदा शारदे शुभ्रहारे ॥ ४॥ ध्रीं ध्रीं ध्रीं धारणाख्ये धृतिमतिनुतिभिः नामभिः कीर्तनीये नित्ये नित्ये निमित्ते मुनिगणनमिते नूतने वै पुराणे । पुण्ये पुण्यप्रभावे हरिहरनमिते वर्णशुद्धे सुवर्णे मन्त्रे मन्त्रार्थतत्त्वे मतिमतिमतिदे माधवप्रीतिनादे ॥ ५॥ ह्रीं क्षीं धीं ह्रीं स्वरूपे दह दह रुदितं पुस्तकव्यग्रहस्ते सन्तुष्टाचारचित्ते स्मितमुखि सुभगे जंभनिस्तंभविद्ये । मोहे मुग्द्धप्रबोधे मम कुरु सुमतिं ध्वान्तविध्वंसनित्ये गीर्वाग् गौर्भारती त्वं कविवररसनासिद्धिदा सिद्धिसाद्ध्या ॥ ६॥ सौं सौं सौं शक्तिबीजे कमलभवमुखांभोजभूतस्वरूपे रूपारूपप्रकाशे सकलगुणमये निर्गुणे निर्विकारे । न स्थूले नैव सूक्ष्मेऽप्यविदितविभवे जाप्यविज्ञानतत्त्वे विश्वे विश्वान्तराळे सुरगणनमिते निष्कळे नित्यशुद्धे ॥ ७॥ स्तौमि त्वां त्वां च वन्दे भज मम रसनां मा कदाचित् त्यजेथा मा मे बुद्धिर्विरुद्धा भवतु न च मनो देवि मे जातु पापम् । मा मे दुःखं कदाचिद्विपदि च समयेऽप्यस्तु मेऽनाकुलत्वम् शास्त्रे वादे कवित्वे प्रसरतु मम धिः माऽस्तु कुण्ठा कदाचित् ॥ ८॥ इत्येतैः श्लोकमुख्यैः प्रतिदिनमुषसि स्तौति यो भक्तिनम्रः देवीं वाचस्पतेरप्यतिमतिविभवो वाक्पटुर्नष्टपङ्कः । सः स्यादिष्टार्थलाभः सुतमिव सततं पाति तं सा च देवि सौभाग्यं तस्य लोके प्रभवति कविताविघ्नमस्तं प्रयाति ॥ ९॥ ब्रह्मचारी व्रती मौनी त्रयोदश्यां निरामिषः । सारस्वतो नरः पाठात् स स्यादिष्टार्थलाभवान् ॥ १०॥ पक्षद्वयेऽपि यो भक्त्या त्रयोदश्येकविंशतिम् । अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् ॥ ११॥ शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् । वाञ्छितं फलमाप्नोति स लोके नात्र संशयः ॥ १२॥ इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् । प्रयत्नेन पठेन्नित्यं सोऽमृतत्वं प्रयच्छति ॥ १३॥ इति श्रीब्रह्माण्डपुराणे नारदनन्दिकेश्वरसंवादे ब्रह्मप्रोक्ते विद्यादानवाक्सरस्वतीहृदयस्तोत्रं सम्पूर्णम् ॥