अक्षर आकार:

श्रीविधिमानसहंसास्तोत्रम्

Shri Vidhimanasahamsastotram

श्रीविधिमानसहंसास्तोत्रम्

पापिषु प्रथमतो गणनीयं पुण्यवज्जनसुदूरगतं माम् । नागराजमिव पङ्कजचक्षुर्वाणि पाहि विधिमानसहंसे ॥ १॥ मांसरक्तमलपूर्णशरीरे पूतिगन्धनिलयेऽस्थिरवर्ये । आत्मबुद्धिमचलां दधतं मां वाणि पाहि विधिमानसहंसे ॥ २॥ मोहलोभमुखरोगविशीर्णं जन्ममृत्युभयतप्तहृदब्जम् । शान्तिदान्तिमुखमातृविहीनं वाणि पाहि विधिमानसहंसे ॥ ३॥ वेदशीर्षपरिशीलनशून्यं पादपद्मनमनेऽप्यलसं ते । पाणिपङ्कजलसच्छुकबाले वाणि पाहि विधिमानसहंसे ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीविधिमानसहंसास्तोत्रं सम्पूर्णम् ।