अक्षर आकार:

वेदकृत देवीस्तुतिः

Praise of Devi by Vedas

वेदकृत देवीस्तुतिः

नमो देवि महामाये विश्वोत्पत्तिकरे शिवे । निर्गुणे सर्वभूतेशि मातः शङ्करकामदे ॥ १॥ त्वं भूमिः सर्व भूतानां प्राणः प्राणवतां तथा । धीः श्री कान्तिः क्षमा शान्तिः श्रद्धा मेधा धृतिः स्मृतिः ॥ २॥ त्वमुद्गीथेऽर्धमात्रासि गायत्री व्याहृतिस्तथा । जया च विजया धात्री लज्जा कीर्तिः स्पृहा दया ॥ ३॥ त्वां संस्तुमोऽम्ब भुवनत्रयसंविधान दक्षां दयारसयुतां जननीं जनानाम् । विद्यां शिवां सकललोकहितां वरेण्यां वाग्बीजवासनिपुणां भवनाशकर्तीम् ॥ ४॥ ब्रह्मा हरः शौरिसहस्रनेत्र वाग्वाह्नि सूर्या भुवनाधिनाथाः । ते त्वत्कृताः सन्ति ततो न मुख्या माता यतस्त्वं स्थिरजङ्गमानाम् ॥ ५॥ सकलभुवनमेतत् कर्तुकामा यदा त्वं सृजसि जननि देवान् विष्णुरुद्राजमुख्यान् । स्थितिलयजननं तैः कारयस्येकरूपा न खलु तव कथञ्चिद्देवि संसारलेशः ॥ ६॥ न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां सङ्ख्यां ते कथितुमिह योग्योऽस्ति पुरुषः । यदल्पं कीलालं कलयितुमशक्तः स तु नरः कथं पारावाराकलनचतुरः स्यादृतमतिः ॥ ७॥ इति वेदकृत देवीस्तुतिः समाप्ता ।