अक्षर आकार:

वराहमुखीस्तवः तथा वाराह्यनुग्रहाष्टकम्

Hymn to Goddess varAhamukhI

वराहमुखीस्तवः तथा वाराह्यनुग्रहाष्टकम्

कुवलयनिभा कौशेयार्धोरुका मुकुटोज्ज्वला हलमुसलिनी सद्भक्तेभ्यो वराभयदायिनी । कपिलनयना मध्ये क्षामा कठोरघनस्तनी जयति जगतां मातः सा ते वराहमुखी तनुः ॥ १ ॥ तरति विपदो घोरा दूरात् परिह्रियते भय- स्खलितमतिभिर्भूतप्रेतैः स्वयं व्रियते श्रिया । क्षपयति रिपूनीष्टे वाचां रणे लभते जयं वशयति जगत् सर्वं वाराहि यस्त्वयि भक्तिमान् ॥ २ ॥ स्तिमितगतयः सीदद्वाचः परिच्युतहेतयः क्षुभितहृदयाः सद्यो नश्यद्दृशो गलितौजसः । भयपरवशा भग्नोत्साहाः पराहतपौरुषा भगवति पुरस्त्वद्भक्तानां भवन्ति विरोधिनः ॥ ३ ॥ किसलयमृदुर्हस्तः क्लिश्यते कन्दुकलीलया भगवति महाभारः क्रीडासरोरुहमेव ते । तदपि मुसलं धत्से हस्ते हलं समयद्रुहां हरसि च तदाघातैः प्राणानहो तव साहसम् ॥ ४ ॥ जननि नियतस्थाने त्वद्वामदक्षिणपार्श्वयो- र्मृदुभुजलतामन्दोत्क्षेपप्रणर्तितचामरे । सततमुदिते गुह्याचारद्रुहां रुधिरासवै- रुपशमयतां शत्रून् सर्वानुभे मम देवते ॥ ५ ॥ हरतु दुरितं क्षेत्राधीशः स्वशासनविद्विषां रुधिरमदिरामत्तः प्राणोपहारबलिप्रियः । अविरतचटत्कुर्वद्दंष्ट्रास्थिकोटिरटन्मुको भगवति स ते चण्डोच्चण्डः सदा पुरतः स्थितः ॥ ६ ॥ क्षुभितमकरैर्वीचीहस्तोपरुद्धपरस्परै- श्चतुरदधिभिः क्रान्ता कल्पान्तदुर्ललितोदकैः । जननि कथमुत्तिष्ठेत् पातालसद्मबिलादिला तव तु कुटिले दंष्ट्राकोटी न चेदवलम्बनम् ॥ ७ ॥ तमसि बहुले शून्याटव्यां पिशाचनिशाचर- प्रमथकलहे चोरव्याघ्रोरगद्विपसंकटे । क्षुभितमनसः क्षुद्रस्यैकाकिनोऽपि कुतो भयं सकृदपि मुखे मातस्त्वन्नाम संनिहितं यदि ॥ ८ ॥ विदितविभवं हृद्यैः पद्मैर्वराहमुखीस्तवं सकलफलदं पूर्णं मन्त्राक्षरैरिममेव यः । पठति स पटुः प्राप्नोत्यायुश्चिरं कवितां प्रियां सुतसुखधनारोग्यं कीर्तिं श्रियं जयमुर्वराम् ॥ ९ ॥ इति श्रीवराहमुखीस्तवः समाप्तः ॥