अक्षर आकार:

वनदुर्गामन्त्रविधानम्

Vanadurga Mantra VidhAnam

वनदुर्गामन्त्रविधानम्

अथ सङ्कल्पः । मम सकुटुम्बस्य सपरिवारस्य च सकलदुरितोपशमनार्थं समस्तक्षुद्राद्याभिचार-दोषनिरासार्थं दुष्टग्रहबाधा निवृत्यर्थं सर्वोपद्रवशान्त्यर्थं देहरक्षार्थं स्थलरक्षार्थं गृहरक्षार्थं विशेषेण-आत्मकलत्रपुत्रपुत्रीभ्रातॄणां विद्या-उद्योगविवाहसन्तति-अभ्युदयप्रतिबन्धकदोषाणां निवृत्त्यर्थं क्षेमस्थैर्यवीर्यविजयाभ्युदयायुरारोग्यानन्द-ऐश्वर्याभिवृद्‍ध्यर्थं धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं सर्वदेवतात्मिका भगवती श्रीवनदुर्गा प्रीतिद्वारा सर्वापच्छान्ति-पूर्वकदीर्घायुर्विपुलधनधान्यपुत्र- पौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजया- द्यभीष्टफलसिद्ध्यर्थं राजामात्यादिसर्वजनवशीकरणार्थं गोभूगृहधनधान्यकनकवस्तु वाहनादिसकल-सम्पदभिवृद्ध्यर्थं श्रीवनदुर्गाप्रीत्यर्थं वनदुर्गामन्त्रहोमाख्यं कर्म करिष्ये ॥ इति ॥ अथ जपविधानम् । अस्य श्रीवनदुर्गामन्त्रस्य आरण्यकऋषिः । See End Footnote 1 अनुष्टुप्छन्दः । श्रीवनदुर्गादेवता । दुँ बीजम् । स्वाहा शक्तिः । श्रीवनदुर्गाप्रीत्यर्थे जपे विनियोगः ॥ उत्तिष्ठ पुरुषि हृदयाय नमः । किं स्वपिषि शिरसे स्वाहा । भयं मे समुपस्थितं शिखायै वषट् । यदि शक्यमशक्यं वा कवचाय हुम् । तन्मे भगवति नेत्रत्रयाय वौषट् । शमय स्वाहा अस्त्राय फट् । इति षडङ्गन्यासाः ॥ ॐ भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ अथ ध्यानम् । हेमप्रख्यामिन्दुखण्डात्तमौलिं शङ्खारीष्टां अभीतिहस्तां त्रिणेत्राम् । हेमाब्जस्थां पीतवस्त्रां प्रसन्नां देवीं दुर्गां दिव्यरूपां नमामि ॥ इति ॥ ॐ उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितम् । यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ इत्युपद्रवशान्तिरक्षाप्रधानोऽयं मन्त्रः ॥ अथ मन्त्रोद्धारः ॥ उत्तिष्ठ पदमाभाष्य पुरुषि स्यात्पदं ततः । पितामहः स नेत्रे नः स्वपिषि स्याद्भयं च मे ॥ समुपस्थितमुच्चार्य यदिशक्यमनन्तरम् । अशक्यं वा पुनस्तन्मे वदेद्भगवतीं ततः ॥ शमयाग्निवधूः सप्तत्रिंशद्वर्णात्मको मनुः । ऋउषिराण्यकश्छन्दोप्यनुष्टुबुदाहृतम् ॥ देवता वनदुर्गा स्यात् सर्वदुर्गविमँचनी । षड्भिश्चतुर्भिरष्टाभिः षड्भिरिन्द्रियैः ॥ मन्त्रार्णैरङ्गक्लृप्तिः स्याज्जातियुक्तैर्यथाक्रमम् ॥ इति ॥ अथ मन्त्रान्तरम् ॥ सहस्रमन्त्रसारसङ्ग्रहे, आरण्यक ईश्वरऋषिः । अनुष्टुप्छन्दः । अन्तर्यामी नारायण किरातरूपधर ईश्वरो वनदुर्गा देवता । दुं बीजम् । ह्रीं शक्तिः । क्लीं कीलकम् । सर्वदुःखविमोचनार्थे जपे विनियोगः ॥ ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि रुद्रतेजो ज्वलज्वालामालिनि हंसिनि ह्रां, हृदयाय नमः । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं किं स्वपिषि ब्रह्मतेजो ज्वलज्वालामालिनि पद्मिनि ह्रीं, शिरसे स्वाहा । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं भयं मे समुपस्थितं विष्णुतेजो ज्वलज्वालामालिनि चक्रिणि ह्रूं, शिखायै वषट् । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं यदि शक्यमशक्यं वा सूर्यतेजो ज्वलज्वालामालिनि गदिनि ह्रैं, कवचाय हुम् । ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं तन्मे भगवति अग्नितेजो ज्वलज्वालामालिनि त्रिशूलिनि ह्रौं, नेत्रत्रयाय वौषट् । ओं ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं शमय स्वाहा सर्वतेजो ज्वलज्वालामालिनि त्रिशूलधारिणि ह्रः, अस्त्राय फट् ॥ इति करषडङ्गहृदयादिन्यासाः ॥ ॐ क्लीं पशु हुं फट् स्वाहा इति दिग्बन्धः ॥ अथ ध्यानम् ॥ महाविद्यां हृद्यां सकलदुरितध्वंसनकरी पिशाचव्यालोग्रग्रहरिपुग्रहोच्छेदन करीम् । महामन्त्रज्वाला पठुलपठु दिग्बन्धनकरीं पठेद्यः सम्प्राप्तो न्यदखिलमिहामुष्मिकफलम् ॥ इति ॥ ॐ ह्रीं श्रीं क्लीं दुं ऐं ह्रीं श्रीं दुं उत्तिष्ठ पुरुषि किं स्वपिषि भयं मे समुपस्थितं यदि शक्यमशक्यं वा तन्मे भगवति शमय स्वाहा ॥ इति ॥ सर्वदुःखोपद्रवशान्ति रक्षाप्रधानोऽयं मन्त्रः ॥ अथ वनदुर्गायन्त्रम् ॥ षट्कोणाष्टदलद्वादशदलचतुर्विंशति दलान्विलिख्य तद्बहिर्द्विवृत्तं चतुर्द्वारमिति वनदुर्गापूजायन्त्रम् । भूपुरद्वयसहितं पद्मं विलिख्य सर्वसमृद्‍ध्यर्थं पूजयेदिति सहस्रमन्त्र सारसङ्ग्रहे ॥ अथ द्वारपालपूजा । ॐ पूर्वद्वारे द्वारश्रियै नमः । ॐ धात्रे नमः । ॐ विधात्रे नमः । ओं दक्षिणद्वारे द्वारश्रियै नमः । ॐ चण्डाय नमः । ॐ प्रचण्डाय नमः । ॐ पश्चिमद्वारे द्वारश्रियै नमः । ॐ जयाय नमः । ॐ विजयाय नमः । ॐ उत्तरद्वारे द्वारश्रियै नमः । ॐ शङ्खनिधये नमः । ॐ पुष्पनिधये नमः ॥ इति ॥ अथ पीठ पूजा । ॐ गुं गुरुभ्यो नमः । ॐ गं गणपतये नमः । ॐ आधारशक्त्यै नमः । ॐ मूलप्रकृत्यै नमः । ॐ आदिकूर्माय नमः । ॐ अनन्ताय नमः । ओं पृथिव्यै नमः । ॐ क्षीरसमुद्राय नमः । ॐ श्वेतद्वीपाय नमः । ओं रत्नमण्डपाय नमः । ॐ कल्पवृक्षाय नमः । ॐ श्वेतच्छत्राय नमः । ॐ सितचामराभ्यां नमः । ॐ रत्नसिंहासनाय नमः । ॐ धर्माय नमः । ॐ ज्ञानाय नमः । ॐ वैराग्याय नमः । ॐ ऐश्वर्याय नमः । ॐ अधर्माय नमः । ॐ अज्ञानाय नमः । ॐ अवैराग्याय नमः । ॐ आनैश्वर्याय नमः । ॐ सं सत्वाय नमः । ॐ रं रजसे नमः । ॐ तं तमसे नमः । ओं मं मायायै नमः । ॐ विं विद्यायै नमः । ॐ अं अनन्ताय नमः । ॐ पं पद्माय नमः । ॐ अं सूर्यमण्डलाय नमः । ॐ उं सोममण्डलाय नमः । ॐ मं वह्निमण्डलाय नमः । ॐ अं आत्मने नमः । ॐ उं अन्तरात्मने नमः । ॐ मं परमात्मने नमः । ॐ ह्रीं ज्ञानात्मने नमः ॥ इति पीठं सम्पूज्य नवशक्तिपूजां कुर्यात् ॥ ॐ आं प्रभायै नमः । ॐ ईं मायायै नमः । ॐ ऊं जयायै नमः । ॐ एं सूक्ष्मायै नमः । ॐ ऐं विशुद्धायै नमः । ॐ ॐ नन्दिन्यै नमः । ॐ औं सुप्रभायै नमः । ॐ अं विजयायै नमः । ॐ अः सर्वसिद्धिदायै नमः ॥ ॐ वज्रनखदंष्ट्रायुधाय महासिंहाय हुं फण्णमः ॥ इति ॥ अथ षोडशोपचार पूजा । अथ ध्यानम् । दुर्गां भगवतीं ध्यायेन्मूलमन्त्राधिदेवताम् । वाणीं लक्ष्मीं महादेवीं महामायां विचिन्तयेत् ॥ माहिषघ्नीं दशभुजां कुमारीं सिंहवाहिनीम् । दानवांस्तर्जयन्तीं च सर्वकामदुघां शिवाम् ॥ श्री वनदुर्गायै नमः । ध्यायामि ध्यानं समर्पयामि ॥ अथावाहनम् । श्रीदुर्गादिरूपेण विश्वमावृत्य तिष्ठति । आवाहयामि त्वां देवि सम्यक् सन्निहिता भव ॥ श्री वनदुर्गायै नमः । आवाहयामि आवाहनं समर्पयामि ॥ अथासनम् । भद्रकालि नमस्तेऽस्तु भक्तानामीप्सितार्थदे । स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । आसनं समर्पयामि ॥ अथ स्वागतम् । सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । कृताञ्जलिपुटो भक्त्या स्वागतं कल्पयाम्यहम् ॥ श्री वनदुर्गायै नमः । स्वागतं समर्पयामि ॥ अथार्घ्यम् । महालक्ष्मि महामये महाविद्यास्वरूपिणि । अर्घ्यपाद्याचमान् देवि गृहाण परमेश्वरि ॥ श्री वनदुर्गायै नमः । अर्घ्य-पाद्य-आचमनानि समर्पयामि ॥ अथ मधुपर्कम् । दूर्वाङ्कुरसमायुक्तं गन्धादिसुमनोहरम् । मधुपर्कं मया दत्तं नारायणि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । मधुपर्कं समर्पयामि ॥ अथ पञ्चामृतस्नानम् । स्नानं पञ्चामृतं देवि भद्रकालि जगन्मयि । भक्त्या निवेदितं तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । पञ्चामृतस्नानं समर्पयामि ॥ अथ शुद्धोदकस्नानम् । शुद्धोदकसमायुक्तं गङ्गासलिलमुत्तमम् । स्नानं गृहाण देवेशि भद्रकालि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । शुद्धोदकस्नानं समर्पयामि ॥ अथ वस्त्रम् । वस्त्रं गृहाण देवेशि देवाङ्गसदृशं नवम् । विश्वेश्वरि महामाये नारायणि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । रत्नदुकूलवस्त्रं समर्पयामि ॥ अथ कञ्चुकम् । गोदावरि नमस्तुभ्यं सर्वाभीष्टप्रदायिनि । सर्वलक्षणसम्भूते दुर्गे देवि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । रत्नकञ्चुकं समर्पयामि ॥ अथ यज्ञोपवीतम् । तक्षकानन्तकर्कोट नागयज्ञोपवीतिने । सौवर्णं यज्ञसूत्रं ते ददामि हरिसेविते ॥ श्री वनदुर्गायै नमः । स्वर्णयज्ञोपवीतं समर्पयामि ॥ अथाभरणम् । नानारत्नविचित्राढ्यान् वलयान् सुमनोहरान् । अलङ्कारान् गृहाण त्वं ममाभीष्टप्रदा भव ॥ श्री वनदुर्गायै नमः । आभरणानि समर्पयामि ॥ अथ गन्धः । गन्धं चन्दनसंयुक्तं कुङ्कुमादिविमिश्रितम् । गृह्णीष्व देवि लोकेशि जगन्मातर्नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । गन्धं समर्पयामि ॥ अथ बिल्वगन्धः । बिल्ववृक्षकृतावासे बिल्वपत्रप्रिये शुभे । बिल्ववृक्षसमुद्भूतो गन्धश्च प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । बिल्वगन्धं समर्पयामि ॥ अथाक्षताः । अक्षतान् शुभदान् देवि हरिद्राचूर्णमिश्रितान् । प्रतिगृह्णीष्व कौमारि दुर्गादेवि नमोऽस्तुते ॥ श्री वनदुर्गायै नमः । अक्षतान् समर्पयामि ॥ अथ पुष्पाणि । मालतीबिल्वमन्दारकुन्दजातिविमिश्रितम् । पुष्पं गृहाण देवेशि सर्वमङ्गलदा भव ॥ शिवपत्नि शिवे देवि शिवभक्तभयापहे । द्रोणपुष्पं मया दत्तं गृहाण शिवदा भव ॥ श्री वनदुर्गायै नमः । नानाविध परिमळ पत्रपुष्पाणि समर्पयामि ॥ अथ अङ्गपूजा । ॐ वाराह्यै नमः पादौ पूजयामि । ॐ चामुण्डायै नमः जङ्घे पूजयामि । ॐ माहेन्द्र्यै नमः जानुनी पूजयामि । ॐ वागीश्वर्यै नमः ऊरू पूजयामि । ॐ ब्रह्माण्यै नमः गुह्यं पूजयामि । ॐ कालरात्र्यै नमः कटिं पूजयामि । ॐ जगन्मायायै नमः नाभिं पूजयामि । ॐ माहेश्वर्यै नमः कुक्षिं पूजयामि । ॐ सरस्वत्यै नमः हृदयं पूजयामि । ॐ कात्यायन्यै नमः कण्ठं पूजयामि । ॐ शिवदूत्यै नमः हस्तान् पूजयामि । ॐ नारसिंह्यै नमः बाहून् पूजयामि । ॐ इन्द्राण्यै नमः मुखं पूजयामि । ॐ शिवायै नमः नासिकां पूजयामि । ॐ शताक्ष्यै नमः कर्णौ पूजयामि । ॐ त्रिपुरहन्त्र्यै नमः नेत्रत्रयं पूजयामि । ॐ परमेश्वर्यै नमः ललाटं पूजयामि । ॐ शाकम्भर्यै नमः शिरः पूजयामि । ॐ कौशिक्यै नमः सर्वाणि अङ्गानि पूजयामि ॥ अथ बिल्वपत्रम् । श्रीवृक्षममृतोद्भूतं महादेवी प्रियं सदा । बिल्वपत्रं प्रयच्छामि पवित्रं ते सुरेश्वरी ॥ श्री वनदुर्गायै नमः । बिल्वपत्रं समर्पयामि ॥ अथ पुष्पपूजा । ॐ दुर्गायै नमः तुलसी पुष्पं समर्पयामि । ॐ कात्यायन्यै नमः चम्पकपुष्पं समर्पयामि । ॐ कौमार्यै नमः जाती पुष्पं समर्पयामि । ॐ काल्यै नमः केतकी पुष्पं समर्पयामि । ॐ गौर्यै नमः करवीरपुष्पं समर्पयामि । ॐ लक्ष्म्यै नमः उत्पलपुष्पं समर्पयामि । ॐ सर्वमङ्गलायै नमः मल्लिकापुष्पं समर्पयामि । ॐ इन्द्राण्यै नमः यूथिकापुष्पं समर्पयामि । ॐ सरस्वत्यै नमः कमलपुष्पं समर्पयामि । ॐ श्री भगवत्यै नमः सर्वाणि पुष्पाणि समर्पयामि ॥ अथावरणदेवताः । प्रथमावरणदेवताः ॥ ॐ उत्तिष्ठ पुरुषि हृदयाय नमः । ॐ किं स्वपिषि शिरसे स्वाहा नमः । ॐ भयं मे समुपस्थितं शिखायै वषण्णमः । ॐ यदि शक्यमशक्यं वा कवचाय हुं नमः । ॐ तन्मे भगवति नेत्रत्रयाय वौषण्णमः । ॐ शमय स्वाहा अस्त्राय फण्णमः ॥ ०१॥ द्वितीयावरण देवताः ॥ ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ भद्रायै नमः । ॐ भद्रकाळ्यै नमः । ॐ अम्बिकायै नमः । ॐ क्षेम्यायै नमः । ॐ वेदगर्भायै नमः । ॐ क्षेमकार्यै नमः ॥ ०२॥ तृतीयावरण देवताः ॥ ॐ अरये नमः । ॐ दराय नमः । ॐ कृपाणाय नमः । ॐ खेटाय नमः । ॐ बाणाय नमः । ॐ धनुषे नमः । ॐ शूलाय नमः । ॐ कपालाय नमः ॥ ०३॥ चतुर्थावरणदेवताः ॥ ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ओं कौमार्यै नमः । ॐ वैष्णव्यै नमः । ॐ वाराह्यै नमः । ॐ इन्द्राण्यै नमः । ॐ चामुण्डायै नमः । ॐ महालक्ष्म्यै नमः ॥ ०४॥ पञ्चमावरण देवताः ॥ ॐ इन्द्राय नमः । ॐ अग्नये नमः । ॐ यमाय नमः । ॐ निरृतये नमः । ॐ वरुणाय नमः । ॐ वायवे नमः । ॐ सोमाय नमः । ॐ ईशानाय नमः । ॐ ब्रह्मणे नमः । ॐ अनन्ताय नमः ॥ ०५॥ इति ॥

॥ दुर्गाष्टोत्तरशतनामावलिः ॥

ॐ सत्यायै नमः । ॐ साध्यायै नमः । ॐ भवप्रीतायै नमः । ॐ भवान्यै नमः । ॐ भवमोचन्यै नमः । ५ ॐ आर्यायै नमः । ॐ दुर्गायै नमः । ॐ जयायै नमः । ॐ आद्यायै नमः । ॐ त्रिणेत्रायै नमः । १० ॐ शूलधारिण्यै नमः । ॐ पिनाकधारिण्यै नमः । ॐ चित्रायै नमः । ॐ चण्डघण्टायै नमः । ॐ महातपसे नमः । १५ ॐ मनसे नमः । ॐ बुद्‍ध्यै नमः । ॐ अहङ्कारायै नमः । ॐ चिद्रूपायै नमः । ॐ चिदाकृत्यै नमः । २० ॐ सर्वमन्त्रमय्यै नमः । ॐ सत्तायै नमः । ॐ सत्यानन्दस्वरूपिण्यै नमः । ॐ अनन्तायै नमः । ॐ भाविन्यै नमः । २५ ॐ भाव्यायै नमः । ॐ अभव्यायै नमः । ॐ सदागत्यै नमः । ॐ शाम्भव्यै नमः । ॐ देवमात्रे नमः । ३० ॐ चिन्तायै नमः । ॐ रत्नप्रियायै नमः । ॐ सर्वविद्यायै नमः । ॐ दक्षकन्यायै नमः । ॐ दक्षयज्ञविनाशिन्यै नमः । ३५ ॐ अपर्णायै नमः । ॐ अनेकवर्णायै नमः । ॐ पाटलायै नमः । ॐ पाटलावत्यै नमः । ॐ पट्टाम्बरपरीधानायै नमः । ४० ॐ कलमञ्जीररञ्जिन्यै नमः । ॐ ईशान्यै नमः । ॐ महाराज्ञै नमः । ॐ अप्रमेयपराक्रमायै नमः । ॐ रुद्राण्यै नमः । ४५ ॐ क्रूररूपायै नमः । ॐ सुन्दर्यै नमः । ॐ वनदुर्गयै नमः । ॐ मातङ्ग्यै नमः । ५० ॐ कन्यकायै नमः । ॐ ब्राह्म्यै नमः । ॐ माहेश्वर्यै नमः । ॐ ऐन्द्रायै नमः । ॐ कौमार्यै नमः । ५५ ॐ वैष्णव्यै नमः । ॐ चामुण्डायै नमः । ॐ वाराह्यै नमः । ॐ लक्ष्म्यै नमः । ॐ पुरुषाकृत्यै नमः । ६० ॐ विमलायै नमः । ॐ ज्ञानरूपायै नमः । ॐ क्रियायै नमः । ॐ नित्यायै नमः । ॐ बुद्धिदायै नमः । ६५ ॐ बहुलायै नमः । ॐ बहुलप्रेमायै नमः । ॐ महिषासुरमर्दिन्यै नमः । ॐ मधुकैटभहन्त्र्यै नमः । ॐ चण्डमुण्डविनाशिन्यै नमः । ७० ॐ सर्वशास्त्रमय्यै नमः । ॐ सर्वदानवघातिन्यै नमः । ॐ अनेकशस्त्रहस्तायै नमः । ॐ सर्वशस्त्रास्त्रधारिण्यै नमः । ॐ भद्रकाल्यै नमः । ७५ ॐ सदाकन्यायै नमः । ॐ कैशोर्यै नमः । ॐ युवत्यै नमः । ॐ यतये नमः । ॐ प्रौढायै नमः । ८० ॐ अप्रौढायै नमः । ॐ वृद्धमात्रे नमः । ॐ अघोररूपायै नमः । ॐ महोदर्यै नमः । ॐ बलप्रदायै नमः । ८५ ॐ घोररूपायै नमः । ॐ महोत्साहायै नमः । ॐ महाबलायै नमः । ॐ अग्निज्वालायै नमः । ॐ रौद्रमुख्यै नमः । ९० ॐ कालरात्र्यै नमः । ॐ तपस्विन्यै नमः । ॐ महादेव्यै नमः । ॐ विष्णुमायायै नमः । ॐ शिवात्मिकायै नमः । ९५ ॐ शिवदूत्यै नमः । ॐ कराल्यै नमः । ॐ अनन्तायै नमः । ॐ परमेश्वर्यै नमः । ॐ कात्यायन्यै नमः । १०० ॐ महाविद्यायै नमः । ॐ महामेधास्वरूपिण्यै नमः । ॐ गौर्यै नमः । ॐ सरस्वत्यै नमः । ॐ सावित्र्यै नमः । १०५ ॐ ब्रह्मवादिन्यै नमः । ॐ सर्वतन्त्रैकनिलयायै नमः । ॐ वेदमन्त्रस्वरूपिण्यै नमः । १०८ ॥ इति श्री दुर्गाष्टोत्तरशतनामावलिः ॥ अथ धूपः । सगुग्गुल्वगरूशीरगन्धादिसुमनोहरम् । धूपं गृहाण देवेशि दुर्गे देवि नमोऽस्तु ते ॥ श्री वनदुर्गायै नमः । धूपमाघ्रापयामि ॥ अथ दीपः । पट्टसूत्रोल्लसद्वर्ति गोघृतेन समन्वितम् । दीपं ज्ञानप्रदं देवि गृहाण परमेश्वरी ॥ श्री वनदुर्गायै नमः । दीपं दर्शयामि ॥ अथ नैवेद्यम् । जुषाण देवि नैवेद्यं नानाभक्ष्यैः समन्वितम् । परमान्नं मया दत्तं सर्वाभीष्टं प्रयच्छ मे ॥ श्री वनदुर्गायै नमः । महानैवेद्यं समर्पयामि ॥ अथ पानीयम् । गङ्गादिसलिलोद्भूतं पानीयं पावनं शुभम् । स्वादूदकं मया दत्तं गृहाण परमेश्वरी ॥ श्री वनदुर्गायै नमः । अमृतपानीयं समर्पयामि ॥ अथ ताम्बूलम् । पूगीफलसमायुक्तं नागवल्लीदलैर्युतम् । कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥ श्री वनदुर्गायै नमः । ताम्बूलं समर्पयामि ॥ अथ नीराजनम् । पट्टिसूत्रविचित्राढ्यैः प्रभामण्डलमण्डितैः । दीपैर्नीराजये देवीं प्रणवाद्यैश्च नामभिः ॥ श्री वनदुर्गायै नमः । दिव्यमङ्गलनीराजनं समर्पयामि ॥ अथ मन्त्रपुष्पम् । गन्धपुष्पाक्षतैर्युक्तमञ्जलीकरपूरकैः । महालक्ष्मि नमस्तेऽस्तु मन्त्रपुष्पं गृहाण भो ॥ श्री वनदुर्गायै नमः । वेदोक्त मन्त्रपुष्पं समर्पयामि ॥ अथ प्रदक्षिणनमस्कारः । महादुर्गे नमस्तेऽस्तु सर्वेष्टफलदायिनि । प्रदक्षिणां करोमि त्वां प्रीयतां शिववल्लभे ॥ श्री वनदुर्गायै नमः । प्रदक्षिणनमस्कारान् समर्पयामि ॥ अथ प्रसन्नार्घ्यम् । सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । बिल्वार्घ्यं च मया दत्तं देवेशि प्रतिगृह्यताम् ॥ १॥ ज्ञानेश्वरि गृहाणेदं सर्वसौख्यविवर्धिनि । गृहाणार्घ्यं मया दत्तं देवेशि वरदा भव ॥ २॥ श्री वनदुर्गायै नमः । बिल्वपत्रार्घ्यं समर्पयामि ॥ अथ प्रार्थना । न ध्यातं तव चास्यमम्ब रुचिरं चेतस्समाकर्षणं, नो मन्त्रस्तव देवि निर्जनवने स्थित्वा प्रजप्तो मया । नो पूजा ह्यपि वेदशास्त्रविहिता पञ्चामृताद्यैः कृता, लोके केवलमेव देवि शरणं मातस्त्वमेकास्ति मे ॥ देवि देहि परं रूपं देवि देहि परं सुखम् । धर्मं देहि धनं देहि सर्वकामांश्च देहि मे ॥ सुपुत्रांश्च पशून् कोशान् सुक्षेत्राणि सुखानि च । देवि देहि परं ज्ञानमिह मुक्ति सुखं कुरु ॥ अपराध सहस्राणि क्रियन्तेऽहर्निशं मया । दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ आवाहनं न जानामि न जानामि विसर्जनम् । पूजाविधिं न जानामि क्षमस्व परमेश्वरि ॥ अपराधशतं कृत्वा जगदम्बेति चोच्चरेत् । यां गतिं समवाप्नोति नतां ब्रह्मादयः सुराः ॥ सापराधोऽस्मि शरणं प्राप्तस्त्वां जगदम्बिके । इदानीमनुकम्प्योऽहं यथेच्छसि तथा कुरु ॥ अज्ञानाद्विस्मृतेर्भ्रान्त्या यन्न्यूनमधिकं कृतम् । तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि ॥ कामेश्वरि जगन्मातः सच्चिदानन्दविग्रहे । गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरि ॥ प्रसीदतां जातवेदा दुर्गा च वरदा मम । तयोः प्रसादात्सर्वत्र वाञ्छितं मम सिद्‍ध्यतात् ॥ प्रीयतां जातवेदोऽग्निः सफलं चास्तु मे व्रतम् । मन्त्रोऽयं फलतां शीघ्रं सिद्धिश्चैवास्तु शाश्वती ॥ इति ॥ श्री वनदुर्गायै नमः । प्रार्थनां समर्पयामि ॥

अथ पुरश्चरणम् ।

सौवर्णाम्बुजमध्यगां त्रिणयनां सौदामिनी सन्निभां चक्रं शङ्खवराभयानि दधतीमिन्दोः कलां बिभ्रतीम् । ग्रैवेयाङ्गदहारकुण्डलधरामाखण्डलाद्यैस्तुतां ध्यायॅद्विन्ध्यनिवासिनीं शशिमुखीं पार्श्वस्थपञ्चाननाम् ॥ एवं ध्यात्वा जपेल्लक्षं चतुष्कं तद्दशांशतः । जुहुयाद्धविषा मन्त्री शालीभिः सर्पिषा तिलैः ॥ इति ॥ तत्र प्रयोगाः ॥ १ चतुर्लक्षं जपः व्रीहितिलाज्यहविर्भिर्दशांशं पुरश्चरणहोमः । २ स्नात्वार्काभिमुखस्सन्नाभिद्वयसेऽम्भसि स्थितो मन्त्री अष्टोर्ध्वशतं प्रजपेन्निज-वाञ्च्छितसिद्धये च लक्ष्म्यै । ३ अयुतं तिलवनोत्थैः राजीभिर्वा हुनेत्समिद्भिर्वा मायूरिकीभिरचिरात्सोऽपस्मारादिकांश्च नाशयति । ४ जुहुयाद्रोहिणसमिधामयुतं मन्त्री पुनस्सशुङ्गानां सर्वापदां विमुक्त्यै सर्वसमृद्‍ध्यै ग्रहादिशान्त्यै च । ५ जपेल्लक्षचतुष्कं जुहुयाद्धविषा मन्त्री गालिभिस्सर्पिषा तिलैः ॥ इति ॥

अथ श्रीरुद्रचण्डी कवचम् ॥

श्रीकार्तिकेय उवाच । कवचं चण्डिकादेव्याः श्रोतुमिच्छामि ते शिव! । यदि तेऽस्ति कृपा नाथ! कथयस्व जगत्प्रभो ! ॥ १॥ श्रीशिव उवाच । श‍ृणु वत्स ! प्रवक्ष्यामि चण्डिकाकवचं शुभम् । भुक्तिमुक्तिप्रदातारमायुष्यं सर्वकामदम् ॥ २॥ दुर्लभं सर्वदेवानां सर्वपापनिवारणम् । मन्त्रसिद्धिकरं पुंसां ज्ञानसिद्धिकरं परम् ॥ ३॥ श्रीरुद्र चण्डिकाकवचस्य श्रीभैरव ऋषिः, अनुष्टुप्छन्दः, श्रीचण्डिका देवता, चतुर्वर्गफलप्राप्त्यर्थं पाठे विनियोगः ॥ अथ कवचस्तोत्रम् । चण्डिका मेऽग्रतः पातु आग्नेय्यां भवसुन्दरी । याम्यां पातु महादेवी नैऋत्यां पातु पार्वती ॥ १॥ वारुणे चण्डिका पातु चामुण्डा पातु वायवे । उत्तरे भैरवी पातु ईशाने पातु शङ्करी ॥ २॥ पूर्वे पातु शिवा देवी ऊर्ध्वे पातु महेश्वरी । अधः पातु सदाऽनन्ता मूलाधार निवासिनी ॥ ३॥ मूर्ध्नि पातु महादेवी ललाटे च महेश्वरी । कण्ठे कोटीश्वरी पातु हृदये नलकूबरी ॥ ४॥ नाभौ कटिप्रदेशे च पायाल्लम्बोदरी सदा । ऊर्वोर्जान्वोः सदा पायात् त्वचं मे मदलालसा ॥ ५॥ ऊर्ध्वे पार्श्वे सदा पातु भवानी भक्तवत्सला । पादयोः पातु मामीशा सर्वाङ्गे विजया सदा ॥ ६॥ रक्त मांसे महामाया त्वचि मां पातु लालसा । शुक्रमज्जास्थिसङ्घेषु गुह्यं मे भुवनेश्वरी ॥ ७॥ ऊर्ध्वकेशी सदा पायान् नाडी सर्वाङ्गसन्धिषु । ॐ ऐं ऐं ह्रीं ह्रीं चामुण्डे स्वाहामन्त्रस्वरूपिणी ॥ ८॥ आत्मानं मे सदा पायात् सिद्धविद्या दशाक्षरी । इत्येतत् कवचं देव्याश्चण्डिकायाः शुभावहम् ॥ ९॥ अथफलश्रुतिः । गोपनीयं प्रयत्नेन कवचं सर्वसिद्धिदम् । सर्वरक्षाकरं धन्यं न देयं यस्य कस्यचित् ॥ १०॥ अज्ञात्वा कवचं देव्या यः पठेत् स्तवमुत्तमम् । न तस्य जायते सिद्धिर्बहुधा पठनेन च ॥ ११॥ धृत्वैतत् कवचं देव्या दिव्यदेहधरो भवेत् । अधिकारी भवेदेतच्चण्डीपाठेन साधकः ॥ १२॥ इति श्रीरुद्रयामलतन्त्रे श्रीशिवकार्तिकेयसंवादे रुद्रचण्डीकवचं सम्पूर्णम् ॥

अथ वनदुर्गाष्टोत्तरशतनाम स्तोत्रम् ॥

अस्यश्री दुर्गाष्टोत्तरशतनामास्तोत्रमालामन्त्रस्य, ब्रह्माविष्णुमहेश्वराः ऋषयः, अनुष्टुप्छन्दः, श्रीदुर्गापरमेश्वरी देवता । ह्रां बीजं, ह्रीं शक्तिः, ह्रूं कीलकम् । सर्वाभीष्टसिध्यर्थे जपे विनियोगः ॥ ॐ सत्या साध्या भवप्रीता भवानी भवमोचनी । आर्या दुर्गा जया चाध्या त्रिणेत्राशूलधारिणी ॥ पिनाकधारिणी चित्रा चण्डघण्टा महातपाः । मनो बुद्धि रहङ्कारा चिद्रूपा च चिदाकृतिः ॥ अनन्ता भाविनी भव्या ह्यभव्या च सदागतिः । शाम्भवी देवमाता च चिन्ता रत्नप्रिया तथा ॥ सर्वविद्या दक्षकन्या दक्षयज्ञविनाशिनी । अपर्णाऽनेकवर्णा च पाटला पाटलावती ॥ पट्टाम्बरपरीधाना कलमञ्जीररञ्जिनी । ईशानी च महाराज्ञी ह्यप्रमेयपराक्रमा । रुद्राणी क्रूररूपा च सुन्दरी सुरसुन्दरी ॥ वनदुर्गा च मातङ्गी मतङ्गमुनिकन्यका । ब्राम्ही माहेश्वरी चैन्द्री कौमारी वैष्णवी तथा ॥ चामुण्डा चैव वाराही लक्ष्मीश्च पुरुषाकृतिः । विमला ज्ञानरूपा च क्रिया नित्या च बुद्धिदा ॥ बहुला बहुलप्रेमा महिषासुरमर्दिनी । मधुकैठभ हन्त्री च चण्डमुण्डविनाशिनी ॥ सर्वशास्त्रमयी चैव सर्वधानवघातिनी । अनेकशस्त्रहस्ता च सर्वशस्त्रास्त्रधारिणी ॥ भद्रकाली सदाकन्या कैशोरी युवतिर्यतिः । प्रौढाऽप्रौढा वृद्धमाता घोररूपा महोदरी ॥ बलप्रदा घोररूपा महोत्साहा महाबला । अग्निज्वाला रौद्रमुखी कालारात्री तपस्विनी ॥ नारायणी महादेवी विष्णुमाया शिवात्मिका । शिवदूती कराली च ह्यनन्ता परमेश्वरी ॥ कात्यायनी महाविद्या महामेधास्वरूपिणी । गौरी सरस्वती चैव सावित्री ब्रह्मवादिनी । सर्वतत्त्वैकनिलया वेदमन्त्रस्वरूपिणी ॥ इदं स्तोत्रं महादेव्याः नाम्नां अष्टोत्तरं शतम् । यः पठेत् प्रयतो नित्यं भक्तिभावेन चेतसा । शत्रुभ्यो न भयं तस्य तस्य शत्रुक्षयं भवेत् । सर्वदुःखदरिद्राच्च सुसुखं मुच्यते ध्रुवम् ॥ विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । कन्यार्थी लभते कन्यां कन्या च लभते वरम् ॥ ऋणी ऋणात् विमुच्येत ह्यपुत्रो लभते सुतम् । रोगाद्विमुच्यते रोगी सुखमत्यन्तमश्नुते ॥ भूमिलाभो भवेत्तस्य सर्वत्र विजयी भवेत् । सर्वान्कामानवाप्नोति महादेवीप्रसादतः ॥ कुङ्कुमैः बिल्वपत्रैश्च सुगन्धैः रक्तपुष्पकैः । रक्तपत्रैर्विशेषेण पूजयन्भद्रमश्नुते ॥ इति ॥

॥ दुर्गा आपदुद्धाराष्टकम् ॥

नमस्ते शरण्ये शिवे सानुकम्पे नमस्ते जगद्व्यापिके विश्वरूपे । नमस्ते जगद्वन्द्यपादारविन्दे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ १॥ नमस्ते जगच्चिन्त्यमानस्वरूपे नमस्ते महायोगिविज्ञानरूपे । नमस्ते नमस्ते सदानन्द रूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ २॥ अनाथस्य दीनस्य तृष्णातुरस्य भयार्तस्य भीतस्य बद्धस्य जन्तोः । त्वमेका गतिर्देवि निस्तारकर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ३॥ अरण्ये रणे दारुणे शुत्रुमध्ये जले सङ्कटे राजग्रेहे प्रवाते । त्वमेका गतिर्देवि निस्तार हेतुर्नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ४॥ अपारे महदुस्तरेऽत्यन्तघोरे विपत् सागरे मज्जतां देहभाजाम् । त्वमेका गतिर्देवि निस्तारनौका नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ५॥ नमश्चण्डिके चण्डोर्दण्डलीलासमुत्खण्डिता खण्डलाशेषशत्रोः । त्वमेका गतिर्विघ्नसन्दोहहर्त्री नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ६॥ त्वमेका सदाराधिता सत्यवादिन्यनेकाखिला क्रोधना क्रोधनिष्ठा । इडा पिङ्गला त्वं सुषुम्ना च नाडी नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ७॥ नमो देवि दुर्गे शिवे भीमनादे सदासर्वसिद्धिप्रदातृस्वरूपे । विभूतिः सतां कालरात्रिस्वरूपे नमस्ते जगत्तारिणि त्राहि दुर्गे ॥ ८॥ शरणमसि सुराणां सिद्धविद्याधराणां मुनिदनुजवराणां व्याधिभिः पीडितानाम् । नृपतिगृहगतानां दस्युभिस्त्रासितानां त्वमसि शरणमेका देवि दुर्गे प्रसीद ॥ ९॥ ॥ इति सिद्धेश्वरतन्त्रे हरगौरीसंवादे आपदुद्धाराष्टकस्तोत्रं सम्पूर्णम् ॥ सङ्ग्राहकः विद्वान् परमेश्वर भट्टः पुट्टनमने