अक्षर आकार:

श्रीवल्लीसहस्रनामस्तोत्रम्

Shri Valli Sahasranama Stotra

श्रीवल्लीसहस्रनामस्तोत्रम्

(स्कान्दे शङ्करसंहितातः) ब्रह्मोवाच - श‍ृणु नारद मद्वत्स वल्लीनाम्नां सहस्रकम् । स्कन्दक्रीडाविनोदादिबोधकं परमाद्भुतम् ॥ १॥ मुनिरस्म्यहमेवास्य छन्दोऽनुष्टुप् प्रकीर्तितम् । वल्लीदेवी देवता स्यात् व्रां व्रीं व्रूं बीजशक्त्यपि ॥ २॥ कीलकं च तथा न्यस्य व्रां इत्याद्यैः षडङ्गकम् । ॐ अस्य श्री वल्लीसहस्रनाम स्तोत्र मन्त्रस्य भगवान् श्रीब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीवल्लीदेवी देवता । व्रां बीजम् । व्रीं शक्तिः । व्रूं कीलकम् । श्रीस्कन्दपतिव्रता भगवती श्रीवल्लीदेवी प्रीत्यर्थं सहस्रनामजपे विनियोगः ॥ ॥ अथ करन्यासः ॥ व्रां अङ्गुष्ठाभ्यां नमः । व्रीं तर्जनीभ्यां नमः । व्रूं मध्यमाभ्यां नमः । व्रैं अनामिकाभ्यां नमः । व्रौं कनिष्ठाभ्यां नमः । व्रः करतलकरपुष्ठाभ्यां नमः ॥ ॥ इति करन्यासः ॥ ॥ अथ हृदयादिषडङ्ग न्यासः ॥ व्रां हृदयाय नमः । व्रीं शिरसे स्वाहा । व्रूं शिखायै वषट् । व्रैं कवचाय हुम् । व्रौं नेत्रत्रयाय वौषट् । व्रः अस्त्राय फट् ॥ ॥ इति हृदयादिषडङ्ग न्यासः ॥ ततः सञ्चिन्तयेद्देवीं वल्लीं स्कन्दपतिव्रताम् ॥ ३॥ श्यामां श्यामालकान्तां द्रुतकनकमणि प्रस्फुरद्दिव्यभूषां गुञ्जामालाभिरामां शिवमुनितनयां काननेन्द्राभिमान्याम् । वामे हस्ते च पद्मं तदितरकरवरं लम्बितं सन्दधानां संस्थां सेनानिदक्षे समुदमपि महावल्लिदेवीं भजेऽहम् ॥ ४॥ इत्येवं चिन्तयित्वाऽम्बां मनसाऽभ्यर्चं सादरम् । पठेन्नामसहस्रं तत् श्रूयतां स्तोत्रमुत्तमम् ॥ ५॥ ॐ वल्ली वल्लीश्वरी वल्लीबह्वा वल्लीनिभाकृतिः । वैकुण्ठाक्षिसमुद्भूता विष्णुसंवर्धिता वरा ॥ ६॥ वारिजाक्षा वारिजास्या वामा वामेतराश्रिता । वन्या वनभवा वन्द्या वनजा वनजासना ॥ ७॥ वनवासप्रिया वादविमुखा वीरवन्दिता । वामाङ्गा वामनयना वलयादिविभूषणा ॥ ८॥ वनराजसुता वीरा वीणावादविदूषिणी । वीणाधरा वैणिकर्षिश्रुतस्कन्दकथा वधूः ॥ ९॥ शिवङ्करी शिवमुनितनया हरिणोद्भवा । हरीन्द्रविनुता हानिहीना हरिणलोचना ॥ १०॥ हरिणाङ्कमुखी हारधरा हरजकामिनी । हरस्नुषा हराधिक्यवादिनी हानिवर्जिता ॥ ११॥ इष्टदा चेभसम्भीता चेभवक्त्रान्तकप्रिया । इन्द्रेश्वरी चेन्द्रनुता चेन्दिरातनयार्चिता ॥ १२॥ इन्द्रादिमोहिनी चेष्टा चेभेन्द्रमुखदेवरा । सर्वार्थदात्री सर्वेशी सर्वलोकाभिवन्दिता ॥ १३॥ सद्गुणा सकला साध्वी स्वाधीनपतिरव्यया । स्वयंवृतपतिः स्वस्था सुखदा सुखदायिनी ॥ १४॥ सुब्रह्मण्यसखी सुभ्रूः सुब्रह्मण्यमनस्विनी । सुब्रह्मण्याङ्कनिलया सुब्रह्मण्यविहारिणी ॥ १५॥ सुरीद्गीता सुरानन्दा सुधासारा सुधाप्रिया । सौधस्था सौम्यवदना स्वामिनी स्वामिकामिनी ॥ १६॥ स्वाम्यद्रिनिलया स्वाम्यहीना सामपरायणा । सामवेदप्रिया सारा सारस्था सारवादिनी ॥ १७॥ सरला सङ्घविमुखा सङ्गीतालापनोत्सुका । साररूपा सती सौम्या सोमजा सुमनोहरा ॥ १८॥ सुष्ठुप्रयुक्ता सुष्ठूक्तिः सुष्ठुवेषा सुरारिहा । सौदामिनीनिभा सुरपुरन्ध्र्युद्गीतवैभवा ॥ १९॥ सम्पत्करी सदातुष्टा साधुकृत्या सनातना । प्रियङ्गुपालिनी प्रीता प्रियङ्गु मुदितान्तरा ॥ २०॥ प्रियङ्गुदीपसम्प्रीता प्रियङ्गुकलिकाधरा । प्रियङ्गुवनमध्यस्था प्रियङ्गुगुडभक्षिणी ॥ २१॥ प्रियङ्गुवनसन्दृष्टगुहा प्रच्छन्नगामिनी । प्रेयसी प्रेय आश्लिष्टा प्रयसीज्ञातसत्कृतिः ॥ २२॥ प्रेयस्युक्तगुहोदन्ता प्रेयस्या वनगामिनी । प्रेयोविमोहिनी प्रेयःकृतपुष्पेषुविग्रहा ॥ २३॥ पीताम्बर प्रियसुता पीताम्बरधरा प्रिया । पुष्पिणी पुष्पसुषमा पुष्पिता पुष्पगन्धिनी ॥ २४॥ पुलिन्दिनी पुलिन्देष्टा पुलिन्दाधिपवर्धिता । पुलिन्दविद्याकुशला पुलिन्दजनसंवृता ॥ २५॥ पुलिन्दजाता वनिता पुलिन्दकुलदेवता । पुरुहूतनुता पुण्या पुण्यलभ्याऽपुरातना ॥ २६॥ पूज्या पूर्णकलाऽपूर्वा पौर्णमीयजनप्रिया । बाला बाललता बाहुयुगला बाहुपङ्कजा ॥ २७॥ बला बलवती बिल्वप्रिया बिल्वदलार्चिता । बाहुलेयप्रिया बिम्ब फलोष्ठा बिरुदोन्नता ॥ २८॥ बिलोत्तारित वीरेन्द्रा बलाढ्या बालदोषहा । लवलीकुञ्जसम्भूता लवलीगिरिसंस्थिता ॥ २९॥ लावण्यविग्रहा लीला सुन्दरी ललिता लता । लतोद्भवा लतानन्दा लताकारा लतातनुः ॥ ३०॥ लताक्रीडा लतोत्साहा लताडोलाविहारिणी । लालिता लालितगुहा ललना ललनाप्रिया ॥ ३१॥ लुब्धपुत्री लुब्धवंश्या लुब्धवेषा लतानिभा । लाकिनी लोकसम्पूज्या लोकत्रयविनोदिनी ॥ ३२॥ लोभहीना लाभकर्त्री लाक्षारक्तपदाम्बुजा । लम्बवामेतरकरा लब्धाम्भोजकरेतरा ॥ ३३ । मृगी मृगसुता मृग्या मृगयासक्तमानसा । मृगाक्षी मार्गितगुहा मार्गक्रीडितवल्लभा ॥ ३४॥ सरलद्रुकृतावासा सरलायितषण्मुखा । सरोविहाररसिका सरस्तीरेभभीमरा ॥ ३५॥ सरसीरुहसङ्काशा समाना समनागता ॥ शबरी शबरीराध्या शबरेन्द्रविवर्धिता ॥ ३६॥ शम्बारारातिसहजा शाम्बरी शाम्बरीमया । शक्तिः शक्तिकरी शक्तितनयेष्टा शरासना ॥ ३७॥ शरोद्भवप्रिया शिञ्जन्मणिभूषा शिवस्नुषा । सनिर्बन्धसखीपृष्टरहः केलिनतानना ॥ ३८ । दन्तक्षतोहितस्कन्दलीला चैव स्मरानुजा । स्मराराध्या स्मरारातिस्नुषा स्मरसतीडिता ॥ ३९॥ सुदती सुमतिः स्वर्णा स्वर्णाभा स्वर्णदीप्रिया । विनायकानुजसखी चानायकपितामहा ॥ ४०॥ प्रियमातामहाद्रीशा पितृस्वस्रेयकामिनी । प्रियमातुलमैनाका सपत्नीजननीधरा ॥ ४१॥ सपत्नीन्द्रसुता देवराजसोदरसम्भवा । विवधानेकभृद्भक्त सङ्घसंस्तुतवैभवा ॥ ४२॥ विश्वेश्वरी विश्ववन्द्या विरिञ्चिमुखसन्नुता । वातप्रमीभवा वायुविनुता वायुसारथिः ॥ ४३॥ वाजिवाहा वज्रभूषा वज्राद्यायुधमण्डिता । विनता विनतापूज्या विनतानन्दनेडिता ॥ ४४॥ वीरासनगता वीतिहोत्राभा वीरसेविता । विशेषशोभा वैश्येष्टा वैवस्वतभयङ्करी ॥ ४५॥ कामेशी कामिनी काम्या कमला कमलाप्रिया । कमलाक्षाक्षिसम्भूता कुमौदा कुमुदोद्भवा ॥ ४६॥ कुरङ्गनेत्रा कुमुदवल्ली कुङ्कुमशोभिता । गुञ्जाहारधरा गुञ्जामणिभूषा कुमारगा ॥ ४७॥ कुमारपत्नी कौमारीरूपिणी कुक्कुटध्वजा । कुक्कुटारावमुदिता कुक्कुटध्वजमेदुरा ॥ ४८॥ कुक्कुटाजिप्रिया केलिकरा कैलासवासिनी । कैलासवासितनयकलत्रं केशवात्मजा ॥ ४९॥ किराततनया कीर्तिदायिनी कीरवादिनी । किरातकी किरातेड्या किराताधिपवन्दिता ॥ ५०॥ कीलकीलितभक्तेड्या कलिहीना कलीश्वरी । कार्तस्वरसमच्छाया कार्तवीर्यसुपूजिता ॥ ५१॥ काकपक्षधरा केकिवाहा केकिविहारिणी । कृकवाकुपताकाढ्या कृकवाकुधरा कृशा ॥ ५२॥ कृशाङ्गी कृष्णसहजपूजिता कृष्ण वन्दिता । कल्याणाद्रिकृतावासा कल्याणायातषण्मुखा ॥ ५३॥ कल्याणी कन्यका कन्या कमनीया कलावती । कारुण्यविग्रहा कान्ता कान्तक्रीडारतोत्सवा ॥ ५४॥ कावेरीतीरगा कार्तस्वराभा कामितार्थदा । विवधासहमानास्या विवधोत्साहितानना ॥ ५५॥ वीरावेशकरी वीर्या वीर्यदा वीर्यवर्धिनी ॥ वीरभद्रा वीरनवशतसाहस्रसेविता ॥ ५६॥ विशाखकामिनी विद्याधरा विद्याधरार्चिता । शूर्पकारातिसहजा शूर्पकर्णानुजाङ्गना ॥ ५७॥ शूर्पहोत्री शूर्पणखासहोदरकुलान्तका । शुण्डालभीता शुण्डालमस्तकाभस्तनद्वया ॥ ५८॥ शुण्डासमोरुयुगला शुद्धा शुभ्रा शुचिस्मिता । श्रुता श्रुतप्रियालापा श्रुतिगीता शिखिप्रिया ॥ ५९॥ शिखिध्वजा शिखिगता शिखिनृत्तप्रिया शिवा । शिवलिङ्गार्चनपरा शिवलास्येक्षणोत्सुका ॥ ६०॥ शिवाकारान्तरा शिष्टा शिवादेशानुचारिणी । शिवस्थानगता शिष्यशिवकामा शिवाद्वया ॥ ६१॥ शिवतापससम्भूता शिवतत्त्वावबोधिका । श‍ृङ्गाररससर्वस्वा श‍ृङ्गाररसवारिधिः ॥ ६२॥ श‍ृङ्गारयोनिसहजा श‍ृङ्गबेरपुराश्रिता । श्रिताभीष्टप्रदा श्रीड्या श्रीजा श्रीमन्त्रवादिनी ॥ ६३॥ श्रीविद्या श्रीपरा श्रीशा श्रीमयी श्रीगिरिस्थिता । शोणाधरा शोभनाङ्गी शोभना शोभनप्रदा ॥ ६४॥ शेषहीना शेषपूज्या शेषतल्पसमुद्भवा । शूरसेना शूरपद्मकुलधूमपताकिका ॥ ६५॥ शून्यापाया शून्यकटिः शून्यसिंहासनस्थिता । शून्यलिङ्गा शून्य शून्या शौरिजा शौर्यवर्धिनी ॥ ६६॥ शरानेकस्यूतकायभक्तसङ्घाश्रितालया । शश्वद्वैवधिकस्तुत्या शरण्या शरणप्रदा ॥ ६७॥ अरिगण्डादिभयकृद्यन्त्रोद्वाहिजनार्चिता । कालकण्ठस्नुषा कालकेशा कालभयङ्करी ॥ ६८॥ अजावाहा चाजामित्रा चाजासुरहरा ह्यजा । अजामुखीसुतारातिपूजिता चाजराऽमरा ॥ ६९॥ आजानपावनाऽद्वैता आसमुद्रक्षितीश्वरी । आसेतुहिमशैलार्च्या आकुञ्चित शिरोरुहा ॥ ७०॥ आहाररसिका चाद्या आश्चर्यनिलया तथा । आधारा च तथाऽऽधेया तथाचाधेयवर्जिता ॥ ७१॥ आनुपूर्वीक्लृप्तरथा चाशापालसुपूजिता । उमास्नुषा उमासूनुप्रिया चोत्सवमोदिता ॥ ७२॥ ऊर्ध्वगा ऋद्धिदा ऋद्धा औषधीशातिशायिनी । औपम्यहीना चौत्सुक्यकरी चौदार्यशालिनी ॥ ७३॥ श्रीचक्रवालातपत्रा श्रीवत्साङ्कितभूषणा । श्रीकान्तभागिनेयेष्टा श्रीमुखाब्दाधिदेवता ॥ ७४॥ इयं नारी वरनुता पीनोन्नतकुचद्वया । श्यामा यौवनमध्यस्था का जाता सा गृहादृता ॥ ७५॥ एषा सम्मोहिनी देवी प्रियलक्ष्या वराश्रिता । कामाऽनुभुक्ता मृगयासक्ताऽऽवेद्या गुहाश्रिता ॥ ७६॥ पुलिन्दवनितानीता रहः कान्तानुसारिणी । निशा चाक्रीडिताऽऽबोध्या निर्निद्रा पुरुषायिता ॥ ७७॥ स्वयंवृता सुदृक् सूक्ष्मा सुब्रह्मण्यमनोहरा । परिपूर्णाचलारूढा शबरानुमताऽनघा ॥ ७८॥ चन्द्रकान्ता चन्द्रमुखी चन्दनागरुचर्चिता । चाटुप्रियोक्तिमुदिता श्रेयोदात्री विचिन्तिता ॥ ७९॥ मूर्धास्फाटिपुराधीशा मूर्धारूढपदाम्बुजा । मुक्तिदा मुदिता मुग्धा मुहुर्ध्येया मनोन्मनी ॥ ८०॥ चित्रितात्मप्रियाकारा चिदम्बरविहारिणी । चतुर्वेदस्वरारावा चिन्तनीया चिरन्तनी ॥ ८१॥ कार्तिकेयप्रिया कामसहजा कामिनीवृता । काञ्चनाद्रिस्थिता कान्तिमती साधुविचिन्तिता ॥ ८२॥ नारायणसमुद्भूता नागरत्नविभूषणा । नारदोक्तप्रियोदन्ता नम्या कल्याणदायिनी ॥ ८३॥ नारदाभीष्टजननी नाकलोकनिवासिनी । नित्यानन्दा निरतिशया नामसाहस्रपूजिता ॥ ८४॥ पितामहेष्टदा पीता पीताम्बरसमुद्भवा । पीताम्बरोज्ज्वला पीननितम्बा प्रार्थिता परा ॥ ८५॥ गण्या गणेश्वरी गम्या गहनस्था गजप्रिया । गजारूढा गजगतिः गजाननविनोदिनी ॥ ८६॥ अगजाननपद्मार्का गजाननसुधाकरा । गन्धर्ववन्द्या गन्धर्वतन्त्रा गन्धविनोदिनी ॥ ८७॥ गान्धर्वोद्वाहिता गीता गायत्री गानतत्परा । गतिर्गहनसम्भूता गाढाश्लिष्टशिवात्मजा ॥ ८८॥ गूढा गूढचरा गुह्या गुह्यकेष्टा गुहाश्रिता । गुरुप्रिया गुरुस्तुत्य गुण्या गुणिगणाश्रिता ॥ ८९॥ गुणगण्या गूढरतिः गीर्गीर्विनुतवैभवा । गीर्वाणी गीतमहिमा गीर्वाणेश्वरसन्नुता ॥ ९०॥ गीर्वाणाद्रिकृतावासा गजवल्ली गजाश्रिता । गाङ्गेयवनिता गङ्गासूनुकान्ता गिरीश्वरी ॥ ९१॥ देवसेनासपत्नी या देवेन्द्रानुजसम्भवा । देवरेभभयाविष्टा सरस्तीरलुठद्गतिः ॥ ९२॥ वृद्धवेषगुहाक्लिष्टा भीता सर्वाङ्गसुन्दरी । निशासमानकबरी निशाकरसमानना ॥ ९३॥ निर्निद्रिताक्षिकमला निष्ठ्यूतारुणभाधरा । शिवाचार्यसती शीता शीतला शीतलेक्षणा ॥ ९४॥ किमेतदिति साशङ्कभटा धम्मिल्लमार्गिता । धम्मिल्लसुन्दरी धर्त्री धात्री धातृविमोचिनी ॥ ९५॥ धनदा धनदप्रीता धनेशी धनदेश्वरी । धन्या ध्यानपरा धारा धराधारा धराधरा ॥ ९६॥ धरा धराधरोद्भूता धीरा धीरसमर्चिता । किं करोषीति सम्पृष्टगुहा साकूतभाषिणी ॥ ९७॥ रहो भवतु तद्भूयात् शमित्युक्तप्रिया स्मिता । कुमारज्ञात काठिन्यकुचाऽर्धोरुलसत्कटी ॥ ९८॥ कञ्चुकी कञ्चुकाच्छन्ना काञ्चीपट्टपरिष्कृता । व्यत्यस्तकच्छा विन्यस्तदक्षिणांसांशुकाऽतुला ॥ ९९॥ बन्धोत्सुकितकान्तान्ता पुरुषायितकौतुका । पूता पूतवती पृष्टा पूतनारिसमर्चिता ॥ १००॥ कण्टकोपानहोन्नृत्यद्भक्ता दण्डाट्टहासिनी । आकाशनिलया चाकाशा आकाशायितमध्यमा ॥ १०१॥ आलोललोलाऽऽलोला चालोलोत्सारिताण्डजा । रम्भोरुयुगला रम्भापूजिता रतिरञ्जनी ॥ १०२॥ आरम्भवादविमुखा चेलाक्षेपप्रियासहा । अन्यासङ्गप्रियोद्विग्ना अभिरामा ह्यनुत्तमा ॥ १०३॥ सत्वरा त्वरिता तुर्या तारिणी तुरगासना । हंसारूढा व्याघ्रगता सिंहारूढाऽऽरुणाधरा ॥ १०४॥ कृत्तिकाव्रतसम्प्रीता कार्तिकेयविमोहिनी । करण्डमकुटा कामदोग्ध्री कल्पद्रुसंस्थिता ॥ १०५॥ वार्ताव्यङ्ग्यविनोदेष्टा वञ्चिता वञ्चनप्रिया । स्वाभादीप्तगुहा स्वाभाबिम्बितेष्टा स्वयङ्ग्रहा ॥ १०६॥ मूर्धाभिषिक्तवनिता मरालगतिरीश्वरी । मानिनी मानिता मानहीना मातामहेडिता ॥ १०७॥ मिताक्षरी मिताहारा मितवादाऽमितप्रभा । मीनाक्षी मुग्धहसना मुग्धा मूर्तिमती मतिः ॥ १०८॥ माता मातृसखानन्दा मारविद्याऽमृताक्षरा । अपञ्चीकृतभूतेशी पञ्चीकृत वसुन्धरा ॥ १०९॥ विफलीकृतकल्पद्रुरफलीकृतदानवा । अनादिषट्कविपुला चादिषट्काङ्गमालिनी ॥ ११० । नवकक्षायितभटा नववीरसमर्चिता । रासक्रीडाप्रिया राधाविनुता राधेयवन्दिता ॥ १११॥ राजचक्रधरा राज्ञी राजीवाक्षसुता रमा । रामा रामादृता रम्या रामानन्दा मनोरमा ॥ ११२॥ रहस्यज्ञा रहोध्येया रङ्गस्था रेणुकाप्रिया । रैणुकेयनुता रेवाविहारा रोगनाशिनी ॥ ११३॥ विटङ्का विगताटङ्का विटपायितषण्मुखा । वीटिप्रिया वीरुड्ध्वजा वीरुट्प्रीतमृगावृता ॥ ११४॥ वीशारूढा वीशरत्नप्रभाऽविदितवैभवा । चित्रा चित्ररथा चित्रसेना चित्रितविग्रहा ॥ ११५॥ चित्रसेननुता चित्रवसना चित्रिता चितिः । चित्रगुप्तार्चिता चाटुवचना चारुभूषणा ॥ ११६॥ चमत्कृतिश्चमत्कारभ्रमितेष्टा चलत्कचा । छायापतङ्गबिम्बास्या छविनिर्जितभास्करा ॥ ११७॥ छत्रध्वजादिबिरुदा छात्रहीना छवीश्वरी । जननी जनकानन्दा जाह्नवीतनयप्रिया ॥ ११८॥ जाह्नवीतीरगा जानपदस्थाऽजनिमारणा । जम्भभेदिसुतानन्दा जम्भारिविनुता जया ॥ ११९ । जयावहा जयकरी जयशीला जयप्रदा । जिनहन्त्री जैनहन्त्री जैमिनीयप्रकीर्तिता ॥ १२०॥ ज्वरघ्नी ज्वलिता ज्वालामाला जाज्वल्यभूषणा । ज्वालामुखी ज्वलत्केशा ज्वलद्वल्लीसमुद्भवा ॥ १२१॥ ज्वलत्कुण्डान्तावतरद्भक्ता ज्वलनभाजना । ज्वलनोद्धूपितामोदा ज्वलद्दीप्तधरावृता ॥ १२२॥ जाज्वल्यमाना जयिनी जितामित्रा जितप्रिया । चिन्तामणीश्वरी छिन्नमस्ता छेदितदानवा ॥ १२३॥ खड्गधारोन्नटद्दासा खड्गरावणपूजिता । खड्गसिद्धिप्रदा खेटहस्ता खेटविहारिणी ॥ १२४॥ खट्वाङ्गधरजप्रीता खादिरासन संस्थिता । खादिनी खादितारातिः खनीशी खनिदायिनी ॥ १२५॥ अङ्कोलितान्तरगुहा अङ्कुरदन्तपङ्क्तिका । न्यङ्कूदरसमुद्भूताऽभङ्गुरापाङ्गवीक्षणा ॥ १२६॥ पितृस्वामिसखी पतिवरारूढा पतिव्रता । प्रकाशिता पराद्रिस्था जयन्तीपुरपालिनी ॥ १२७॥ फलाद्रिस्था फलप्रीता पाण्ड्यभूपालवन्दिता । अफला सफला फालदृक्कुमारतपःफला ॥ १२८॥ कुमारकोष्ठगा कुन्तशक्तिचिह्नधरावृता । स्मरबाणायितालोका स्मरविद्योहिताकृतिः ॥ १२९॥ कालमेघायितकचा कामसौभाग्य वारिधिः । कान्तालकान्ता कामेड्या करकोन्नर्तन प्रिया ॥ १३०॥ पौनः पुन्यप्रियालाया पम्पावाद्यप्रियाधिका । रमणीया स्मरणीया भजनीया परात्परा ॥ १३१॥ नीलवाजिगता नीलखड्गा नीलांशुकाऽनिला । रात्रिर्निद्रा भगवती निद्राकर्त्री विभावरी ॥ १३२॥ शुकायमानकायोक्तिः किंशुकाभाधराम्बरा । शुकमानितचिद्रूपा संशुकान्तप्रसाधिनी ॥ १३३॥ गूढोक्ता गूढगदिता गुहसङ्केतिताऽगगा । धैर्या धैर्यवती धात्रीप्रेषिताऽवाप्तकामना ॥ १३४॥ सन्दृष्टा कुक्कुटारावध्वस्तधम्मिल्लजीविनी । भद्रा भद्रप्रदा भक्तवत्सला भद्रदायिनी ॥ १३५॥ भानुकोटिप्रतीकाशा चन्द्रकोटिसुशीतला । ज्वलनान्तःस्थिता भक्तविनुता भास्करेडिता ॥ १३६॥ अभङ्गुरा भारहीना भारती भारतीडिता । भरतेड्या भारतेशी भुवनेशी भयापहा ॥ १३७॥ भैरवी भैरवीसेव्या भोक्त्री भोगीन्द्रसेविता । भोगेडिता भोगकरी भेरुण्डा भगमालिनी ॥ १३८॥ भगाराध्या भागवतप्रगीताऽभेदवादिनी । अन्याऽनन्या निजानन्या स्वानन्याऽनन्यकामिनी ॥ १३९॥ यज्ञेश्वरी यागशीला यज्ञोद्गीतगुहानुगा । सुब्रह्मण्यगानरता सुब्रह्मण्यसुखास्पदा ॥ १४०॥ कुम्भजेड्या कुतुकिता कौसुम्भाम्बरमण्डिता । संस्कृता संस्कृतारावा सर्वावयवसुन्दरी ॥ १४१॥ भूतेशी भूतिदा भूतिः भूतावेशनिवारिणी । भूषणायितभूताण्डा भूचक्रा भूधराश्रिता ॥ १४२॥ भूलोकदेवता भूमा भूमिदा भूमिकन्यका । भूसुरेड्या भूसुरारिविमुखा भानुबिम्बगा ॥ १४३॥ पुरातनाऽभूतपूर्वाऽविजातीयाऽधुनातना । अपरा स्वगताभेदा सजातीयविभेदिनी ॥ १४४॥ अनन्तराऽरविन्दाभा हृद्या हृदयसंस्थिता । ह्रीमती हृदयासक्ता हृष्टा हृन्मोहभास्करा ॥ १४५॥ हारिणी हरिणी हारा हारायितविलासिनी । हरारावप्रमुदिता हीरदा हीरभूषणा ॥ १४६॥ हीरभृद्विनुता हेमा हेमाचलनिवासिनी । होमप्रिया हौत्रपरा हुङ्कारा हुम्फडुज्ज्वला ॥ १४७॥ हुताशनेडिता हेलामुदिता हेमभूषणा । ज्ञानेश्वरी ज्ञाततत्त्वा ज्ञेया ज्ञेयविवर्जिता ॥ १४८॥ ज्ञानं ज्ञानाकृतिर्ज्ञानिविनुता ज्ञातिवर्जिता । ज्ञाताखिला ज्ञानदात्री ज्ञाताज्ञातविवर्जिता ॥ १४९॥ ज्ञेयानन्या ज्ञेयगुहा विज्ञेयाऽज्ञेयवर्जिता । आज्ञाकरी पराज्ञाता प्राज्ञा प्रज्ञावशेषिता ॥ १५०॥ स्वाज्ञाधीनामराऽनुज्ञाकाङ्क्षोन्नृत्यत्सुराङ्गना । सगजा अगजानन्दा सगुहा अगुहान्तरा ॥ १५१॥ साधारा च निराधारा भूधरस्थाऽतिभूधरा । सगुणा चागुणाकारा निर्गुणा च गुणाधिका ॥ १५२॥ अशेषा चाविशेषेड्या शुभदा चाशुभापहा । अतर्क्या व्याकृता न्यायकोविदा तत्त्वबोधिनी ॥ १५३॥ साङ्ख्योक्ता कपिलानन्दा वैशेषिकविनिश्चिता । पुराणप्रथिताऽपारकरुणा वाक्प्रदायिनी ॥ १५४॥ सङ्ख्याविहीनाऽसङ्ख्येया सुस्मृता विस्मृतापहा । वीरबाहुनुता वीरकेसरीडितवैभवा ॥ १५५॥ वीरमाहेन्द्रविनुता वीरमाहेश्वरार्चिता । वीरराक्षससम्पूज्या वीरमार्तण्डवन्दिता ॥ १५६॥ वीरान्तकस्तुता वीरपुरन्दरसमर्चिता । वीरधीरार्चितपदा नववीरसमाश्रिता ॥ १५७॥ भैरवाष्टकसंसेव्या ब्रह्माद्यष्टकसेविता । इन्द्राद्यष्टकसम्पूज्या वज्राद्यायुधशोभिता ॥ १५८॥ अङ्गावरणसंयुक्ता चानङ्गामृतवर्षिणी । तमोहन्त्री तपोलभ्या तमालरुचिराऽबला ॥ १५९॥ सानन्दा सहजानन्दा गुहानन्दविवर्धिनी । परानन्दा शिवानन्दा सच्चिदानन्दरूपिणी ॥ १६०॥ पुत्रदा वसुदा सौख्यदात्री सर्वार्थदायिनी । योगारूढा योगिवन्द्या योगदा गुहयोगिनी ॥ १६१॥ प्रमदा प्रमदाकारा प्रमादात्री प्रमामयी । भ्रमापहा भ्रामयित्री प्रधाना प्रबला प्रमा ॥ १६२॥ प्रशान्ता प्रमितानन्दा परमानन्दनिर्भरा । पारावारा परोत्कर्षा पार्वतीतनयप्रिया ॥ १६३॥ प्रसाधिता प्रसन्नास्या प्राणायामपरार्चिता । पूजिता साधुविनुता सुरसास्वादिता सुधा ॥ १६४॥ स्वामिनी स्वामिवनिता समनीस्था समानिता । सर्वसम्मोहिनी विश्वजननी शक्तिरूपिणी ॥ १६५॥ कुमारदक्षिणोत्सङ्गवासिनी भोगमोक्षदा ॥ ॐ । एवं नामसहस्रं ते प्रोक्तं नारद शोभनम् ॥ १६६॥ सुब्रह्मण्यस्य कान्ताया वल्लीदेव्याः प्रियङ्करम् । नित्यं सङ्कीर्तयेदेतत्सर्वान्कामानवाप्नुयात् ॥ १६७॥ शुक्रवारे भौमवारे षष्ठ्यां वा कृत्तिकास्यपि । सङ्क्रमादिषु कालेषु ग्रहणे चन्द्रसूर्ययोः ॥ १६८॥ पठेदिदं विशेषेण सर्वसिद्धिमवाप्नुयात् । एभिर्नामभिरम्बां यः कुङ्कुमादिभिरर्चयेत् ॥ १६९॥ यद्यद्वाञ्छति तत्सर्वमचिराज्जायते ध्रुवम् । सुब्रह्मण्योऽपि सततं प्रीतः सर्वार्थदो भवेत् ॥ १७०॥ पुत्रपौत्रादिदं सर्वसम्पत्प्रद मघापहम् । विद्याप्रदं विशेषेण सर्वरोगनिवर्तकम् ॥ १७१॥ दुष्टारिष्टप्रशमनं ग्रहशान्तिकरं वरम् । जपादस्य प्रभावेण सर्वाः सिद्ध्यन्ति सिद्धयः । गोपनीयं पठ त्वं च सर्वमाप्नुहि नारद ॥ १७२॥ ॥ स्कान्दे शङ्करसंहितातः ॥ From Bhagavati Stutimanjari (Mahaperiyaval Trust)