अक्षर आकार:

श्रीवल्लीसहस्रनामावली

Shri Valli Sahasranamavali

श्रीवल्लीसहस्रनामावली

ॐ वल्ल्यै नमः । ॐ वल्लीश्वर्यै नमः । ॐ वल्लीभवायै नमः । ॐ वल्लीनिभाकृत्यै नमः । ॐ वैकुण्ठाक्षिसमुद्भूतायै नमः । ॐ विष्णुसंवर्धितायै नमः । ॐ वरायै नमः । ॐ वारिजाक्षायै नमः । ॐ वारिजास्यायै नमः । ॐ वामायै नमः ॥ १०॥ ॐ वामेतराश्रितायै नमः । ॐ वन्यायै नमः । ॐ वनभवायै नमः । ॐ वन्द्यायै नमः । ॐ वनजायै नमः । ॐ वनजासनायै नमः । ॐ वनवासप्रियायै नमः । ॐ वादविमुखायै नमः । ॐ वीरवन्दितायै नमः । ॐ वामाङ्गायै नमः ॥ २०॥ ॐ वामनयनायै नमः । ॐ वलयादिविभूषणायै नमः । ॐ वनराजसुतायै नमः । ॐ वीरायै नमः । ॐ वीणावादविदूषिण्यै नमः । ॐ वीणाधरायै नमः । ॐ वैणिकर्षिश्रुतस्कन्दकथायै नमः । ॐ वध्वै नमः । ॐ शिवङ्कर्यै नमः । ॐ शिवमुनितनयायै नमः ॥ ३०॥ ॐ हरिणोद्भवायै नमः । ॐ हरीन्द्रविनुतायै नमः । ॐ हानिहीनायै नमः । ॐ हरिणलोचनायै नमः । ॐ हरिणाङ्कमुख्यै नमः । ॐ हारधरायै नमः । ॐ हरजकामिन्यै नमः । ॐ हरस्नुषायै नमः । ॐ हराधिक्यवादिन्यै नमः । ॐ हानिवर्जितायै नमः ॥ ४०॥ ॐ इष्टदायै नमः । ॐ इभसम्भीतायै नमः । ॐ इभवक्त्रान्तकप्रियायै नमः । ॐ इन्द्रेश्वर्यै नमः । ॐ इन्द्रनुतायै नमः । ॐ इन्दिरातनयार्चितायै नमः । ॐ इन्द्रादिमोहिन्यै नमः । ॐ इष्टायै नमः । ॐ इभेन्द्रमुखदेवरायै नमः । ॐ सर्वार्थदात्र्यै नमः ॥ ५०॥ ॐ सर्वेश्यै नमः । ॐ सर्वलोकाभिवन्दितायै नमः । ॐ सद्गुणायै नमः । ॐ सकलायै नमः । ॐ साध्व्यै नमः । ॐ स्वाधीनपत्यै नमः । ॐ अव्ययायै नमः । ॐ स्वयंवृतपत्यै नमः । ॐ स्वस्थायै नमः । ॐ सुखदायै नमः ॥ ६०॥ ॐ सुखदायिन्यै नमः । ॐ सुब्रह्मण्यसख्यै नमः । ॐ सुभ्रुवे नमः । ॐ सुब्रह्मण्यमनस्विन्यै नमः । ॐ सुब्रह्मण्यां कनिलयायै नमः । ॐ सुब्रह्मण्यविहारिण्यै नमः । ॐ सुरोद्गीतायै नमः । ॐ सुरानन्दायै नमः । ॐ सुधासारायै नमः । ॐ सुधाप्रियायै नमः ॥ ७०॥ ॐ सौधस्थायै नमः । ॐ सौम्यवदनायै नमः । ॐ स्वामिन्यै नमः । ॐ स्वामिकामिन्यै नमः । ॐ स्वाम्यद्रिनिलयायै नमः । ॐ सामपरायणायै नमः । ॐ स्वाम्यहीनायै नमः । ॐ सामपरायणायै नमः । ॐ सामवेदप्रियायै नमः । ॐ सारायै नमः । ॐ सारस्थायै नमः ॥ ८०॥ ॐ सारवादिन्यै नमः । ॐ सरलायै नमः । ॐ सङ्घविमुखायै नमः । ॐ सङ्गीतालापनोत्सुकायै नमः । ॐ साररूपायै नमः । ॐ सत्यै नमः । ॐ सौम्यायै नमः । ॐ सोमजायै नमः । ॐ सुमनोहरायै नमः । ॐ सुष्ठुप्रयुक्तायै नमः ॥ ९०॥ ॐ सुष्ठूक्त्यै नमः । ॐ सुष्ठुवेषायै नमः । ॐ सुरारिहायै नमः । ॐ सौदामिनीनिभायै नमः । ॐ सौरपुरन्द्र्युद्गीतवैभवायै नमः । ॐ सम्पत्कर्यै नमः । ॐ सदातुष्टायै नमः । ॐ साधुकृत्यायै नमः । ॐ सनातनायै नमः । ॐ प्रियङ्गुपालिन्यै नमः ॥ १००॥ ॐ प्रीतायै नमः । ॐ प्रियङ्गुमुदितान्तरायै नमः । ॐ प्रियाङ्गुदीपसम्प्रीतायै नमः । ॐ प्रियङ्गुकलिकाधरायै नमः । ॐ प्रियङ्गुवनमध्यस्थायै नमः । ॐ प्रियङ्गुगुडभक्षिण्यै नमः । ॐ प्रियङ्गुवनसन्दृष्टगुहायै नमः । ॐ प्रच्छन्नगामिन्यै नमः । ॐ प्रेयस्यै नमः । ॐ प्रेयआश्लिष्टायै नमः ॥ ११०॥ ॐ प्रेयसीज्ञातसत्कृतये नमः । ॐ प्रेयस्युक्तगृहोदन्तायै नमः । ॐ प्रेयस्या वनगामिन्यै नमः । ॐ प्रेयोविमोहिन्यै नमः । ॐ प्रेयःकृतपुष्पेषुविग्रहायै नमः । ॐ पीताम्बरप्रियसुतायै नमः । ॐ पीताम्बरधरायै नमः । ॐ प्रियायै नमः । ॐ पुष्पिण्यै नमः । ॐ पुष्पसुषमायै नमः ॥ १२०॥ ॐ पुष्पितायै नमः । ॐ पुष्पगन्धिन्यै नमः । ॐ पुलिन्दिन्यै नमः । ॐ पुलिन्देष्टायै नमः । ॐ पुलिन्दाधिपवर्धितायै नमः । ॐ पुलिन्दविद्याकुशलायै नमः । ॐ पुलिन्दजनसंवृतायै नमः । ॐ पुलिन्दजातायै नमः । ॐ वनितायै नमः । ॐ पुलिन्दकुलदेवतायै नमः ॥ १३०॥ ॐ पुरुहूतनुतायै नमः । ॐ पुण्यायै नमः । ॐ पुण्यलभ्यायै नमः । ॐ अपुरातनायै नमः । ॐ पूज्यायै नमः । ॐ पूर्णकलायै नमः । ॐ अपूर्वायै नमः । ॐ पौर्णिमीयजनप्रियायै नमः । ॐ बालायै नमः । ॐ बाललतायै नमः ॥ १४०॥ ॐ बाहुयुगलायै नमः । ॐ बाहुपङ्कजायै नमः । ॐ बलायै नमः । ॐ बलवत्यै नमः । ॐ बिल्वप्रियायै नमः । ॐ बिल्वदलार्चितायै नमः । ॐ बाहुलेयप्रियायै नमः । ॐ बिम्बफलोष्ठायै नमः । ॐ बिरुदोन्नतायै नमः । ॐ बिलोत्तारितवीरेन्द्रायै नमः ॥ १५०॥ ॐ बलाढ्यायै नमः । ॐ बालदोषहायै नमः । ॐ लवलीकुञ्जसम्भूतायै नमः । ॐ लवलीगिरिसंस्थितायै नमः । ॐ लावण्यविग्रहायै नमः । ॐ लीलायै नमः । ॐ सुन्दर्यै नमः । ॐ ललितायै नमः । ॐ लतायै नमः । ॐ लतोद्भवायै नमः ॥ १६०॥ ॐ लतानन्दायै नमः । ॐ लताकारायै नमः । ॐ लतातनवे नमः । ॐ लताक्रीडायै नमः । ॐ लतोत्साहायै नमः । ॐ लताडोलाविहारिण्यै नमः । ॐ लालितायै नमः । ॐ लालितगुहायै नमः । ॐ ललनायै नमः । ॐ ललनाप्रियायै नमः ॥ १७०॥ ॐ लुब्धपुत्र्यै नमः । ॐ लुब्धवंश्यायै नमः । ॐ लुब्धवेषायै नमः । ॐ लतानिभायै नमः । ॐ लाकिन्यै नमः । ॐ लोकसम्पूज्यायै नमः । ॐ लोकत्रयविनोदिन्यै नमः । ॐ लोभहीनायै नमः । ॐ लाभकर्त्र्यै नमः । ॐ लाक्षारक्तपदाम्बुजायै नमः ॥ १८०॥ ॐ लम्बवामेतरकरायै नमः । ॐ लब्धाम्भोजकरेतरायै नमः । ॐ मृग्यै । ॐ मृगसुतायै । ॐ मृग्यायै नमः । ॐ मृगयासक्तमानसायै नमः । ॐ मृगाक्ष्यै नमः । ॐ मार्गितगुहायै नमः । ॐ मार्गक्रीडितवल्लभायै नमः । ॐ सरलद्रुकृतावासायै नमः ॥ १९०॥ ॐ सरलायितषण्मुखायै नमः । ॐ सरोविहाररसिकायै नमः । ॐ सरस्तीरेभभीमरायै नमः । ॐ सरसीरुहसङ्काशायै नमः । ॐ समानायै नमः । ॐ समनागतायै नमः । ॐ शबर्यै नमः । ॐ शबराराध्यायै नमः । ॐ शबरेन्द्रियविवर्धितायै नमः । ॐ शम्बरारातिसहजायै नमः ॥ २००॥ ॐ शाम्बर्यै नमः । ॐ शाम्बरीमयायै नमः । ॐ शक्त्यै नमः । ॐ शक्तिकर्यै नमः । ॐ शक्तितनयेष्टायै नमः । ॐ शरासनायै नमः । ॐ शरोद्भवप्रियायै नमः । ॐ शिञ्जन्मणिभूषायै नमः । ॐ शिवस्नुषायै नमः । ॐ सनिर्बन्धसखीपृष्टरहः केलिनताननायै नमः ॥ २१०॥ ॐ दन्तक्षतोहितस्कन्दलीलायै नमः । ॐ स्मरानुजायै नमः । ॐ स्मराराध्यायै नमः । ॐ स्मरारातिस्नुषायै नमः । ॐ स्मरसतीडितायै नमः । ॐ सुदत्यै नमः । ॐ सुमत्यै नमः । ॐ स्वर्णायै नमः । ॐ स्वर्णाभायै नमः । ॐ स्वर्णदीप्रियायै नमः ॥ २२०॥ ॐ विनायकानुजसख्यै नमः । ॐ अनायकपितामहायै नमः । ॐ प्रियमातामहाद्रीशायै नमः । ॐ पितॄस्वस्रेयकामिन्यै नमः । ॐ प्रियमातुलमैनकायै नमः । ॐ सपत्नीजननीधरायै नमः । ॐ सपत्नीन्द्रसुतायै नमः । ॐ देवराजसोदरसम्भवायै नमः । ॐ विवधानेकभृद्भक्त सङ्घसंस्तुतवैभवायै नमः । ॐ विश्वेश्वर्यै नमः । ॐ विश्ववन्द्यायै नमः । ॐ विरिञ्चिमुखसन्नुतायै नमः । ॐ वातप्रमीभवायै नमः । ॐ वायुविनुतायै नमः । ॐ वायुसारथ्यै नमः । ॐ वाजिवाहायै नमः । ॐ वज्रभूषायै नमः । ॐ वज्राद्यायुधमण्डितायै नमः । ॐ विनतायै नमः । ॐ विनतापूज्यायै नमः ॥ २४०॥ ॐ विनतानन्दनेडितायै नमः । ॐ वीरासनगतायै नमः । ॐ वीतिहोत्राभायै नमः । ॐ वीरसेवितायै नमः । ॐ विशेषशोभायै नमः । ॐ वैश्येष्टायै नमः । ॐ वैवस्वतभयङ्कर्यै नमः । ॐ कामेश्यै नमः । ॐ कामिन्यै नमः । ॐ काम्यायै नमः ॥ २५०॥ ॐ कमलायै नमः । ॐ कमलाप्रियायै नमः । ॐ कमलाक्षाक्षिसम्भूतायै नमः । ॐ कुमुदायै नमः । ॐ कुमुदोद्भवायै नमः । ॐ कुरङ्गनेत्रायै नमः । ॐ कुमुदवल्ल्यै नमः । ॐ कुङ्कुमशोभितायै नमः । ॐ गुञ्जाहारधरायै नमः । ॐ गुञ्जामणिभूषायै नमः ॥ २६०॥ ॐ कुमारगायै नमः । ॐ कुमारपत्न्यै नमः । ॐ कौमारीरूपिण्यै नमः । ॐ कुक्कुटध्वजायै नमः । ॐ कुक्कुटारावमुदितायै नमः । ॐ कुक्कुटध्वजमेदुरायै नमः । ॐ कुक्कुटाजिप्रियायै नमः । ॐ केलिकरायै नमः । ॐ कैलासवासिन्यै नमः । ॐ कैलासवसितनयकलत्रायै नमः । ॐ केशवात्मजायै नमः । ॐ किराततनयायै नमः । ॐ कीर्तिदायिन्यै नमः । ॐ कीरवादिन्यै नमः । ॐ किरातक्यै नमः । ॐ किरातेड्यायै नमः । ॐ किराताधिपवन्दितायै नमः । ॐ कीलकीलितभक्तेड्यायै नमः । ॐ कलिहीनायै नमः । ॐ कलीश्वर्यै नमः ॥ २८०॥ ॐ कार्तस्वरसमच्छायायै नमः । ॐ कार्तवीर्यसुपूजितायै नमः । ॐ काकपक्षधरायै नमः । ॐ केकिवाहायै नमः । ॐ केकिविहारिण्यै नमः । ॐ कृकवाकुपताकाढ्यायै नमः । ॐ कृकवाकुधरायै नमः । ॐ कृशायै नमः । ॐ कृशाङ्ग्यै नमः । ॐ कृष्णसहजपूजितायै नमः ॥ २९०॥ ॐ कृष्णवन्दितायै नमः । ॐ कल्याणाद्रिकृतावासायै नमः । ॐ कल्याणायातषण्मुखायै नमः । ॐ कल्याण्यै नमः । ॐ कन्यकायै नमः । ॐ कन्यायै नमः । ॐ कमनीयायै नमः । ॐ कलावत्यै नमः । ॐ कारुण्यविग्रहायै नमः । ॐ कान्तायै नमः ॥ ३००॥ ॐ क्रान्तक्रीडारतोत्सवायै नमः । ॐ कावेरीतीरगायै नमः । ॐ कार्तस्वराभायै नमः । ॐ कामितार्थदायै नमः । ॐ विवधासहमानास्यायै नमः । ॐ विवधोत्साहिताननायै नमः । ॐ वीरावेशकर्यै नमः । ॐ वीर्यायै नमः । ॐ वीर्यदायै नमः । ॐ वीर्यवर्धिन्यै नमः । ॐ वीरभद्रायै नमः । ॐ वीरनवशतसाहस्रसेवितायै नमः । ॐ विशाखकामिन्यै नमः । ॐ विद्याधरायै नमः । ॐ विद्याधरार्चितायै नमः । ॐ शूर्पकारातिसहजायै नमः । ॐ शूर्पकर्णानुजाङ्गनायै नमः । ॐ शूर्पहोत्र्यै नमः । ॐ शूर्पणखासहोदरकुलान्तकायै नमः । ॐ शुण्डालभीतायै नमः ॥ ३२०॥ ॐ शुण्डालमस्तकाभस्तनद्वयायै नमः । ॐ शुण्डासमोरुयुगलायै नमः । ॐ शुद्धायै नमः । ॐ शुभ्रायै नमः । ॐ शुचिस्मितायै नमः । ॐ श्रुतायै नमः । ॐ श्रुतप्रियालापायै । ॐ श्रुतिगीतायै नमः । ॐ शिखिप्रियायै नमः । ॐ शिखिध्वजायै नमः ॥ ३३०॥ ॐ शिखिगतायै नमः । ॐ शिखिनृत्तप्रियायै नमः । ॐ शिवायै नमः । ॐ शिवलिङ्गार्चनपरायै नमः । ॐ शिवलास्येक्षणोत्सुकायै नमः । ॐ शिवाकारान्तरायै नमः । ॐ शिष्टायै नमः । ॐ शिव(वा)देशानुचारिण्यै नमः । ॐ शिवस्थानगतायै नमः । ॐ शिष्यशिवकामायै नमः ॥ ३४०॥ ॐ शिवाद्वयायै नमः । ॐ शिवतापससम्भूतायै नमः । ॐ शिवतत्त्वावबोधिकायै नमः । ॐ श‍ृङ्गाररससर्वस्वायै नमः । ॐ श‍ृङ्गाररसवारिधये नमः । ॐ श‍ृङ्गारयोनिसहजायै नमः । ॐ श‍ृङ्गबेरपुराश्रितायै नमः । ॐ श्रिताभीष्टप्रदायै नमः । ॐ श्रीड्यायै नमः । ॐ श्रीजायै नमः । ॐ श्रीमन्त्रवादिन्यै नमः । ॐ श्रीविद्यायै नमः । ॐ श्रीपरायै नमः । ॐ श्रीशायै नमः । ॐ श्रीमय्यै नमः । ॐ श्रीगिरिस्थितायै नमः । ॐ शोणाधरायै नमः । ॐ शोभनाङ्ग्यै नमः । ॐ शोभनायै नमः । ॐ शोभनप्रदायै नमः ॥ ३६०॥ ॐ शेषहीनायै नमः । ॐ शेषपूज्यायै नमः । ॐ शेषतल्पसमुद्भवायै नमः । ॐ शूरसेनायै नमः । ॐ शूरपद्मकुलधूमपताकिकायै नमः । ॐ शून्यापायायै नमः । ॐ शून्यकट्यै नमः । ॐ शून्यसिंहासनस्थितायै नमः । ॐ शून्यलिङ्गायै नमः । ॐ शून्यशून्यायै नमः । ॐ शौरिजायै नमः । ॐ शौर्यवर्धिन्यै नमः । ॐ शरानेकस्यूतकायभक्तसङ्घाश्रितालयायै नमः । ॐ शश्वद्वैवधिकस्तुत्यायै नमः । ॐ शरण्यायै नमः । ॐ शरणप्रदायै नमः । ॐ अरिगण्डादिभयकृद्यन्त्रोद्वाहिजनार्चितायै नमः । ॐ कालकण्ठस्नुषयै नमः । ॐ कालकेशायै नमः । ॐ कालभयङ्कर्यै नमः ॥ ३८०॥ ॐ अजावाहायै नमः । ॐ अजामित्रायै नमः । ॐ अजासुरहरायै नमः । ॐ अजायै नमः । ॐ अजामुखीसुतारातिपूजितायै नमः । ॐ अजरायै नमः । ॐ अमरायै नमः । ॐ आजानपावनायै नमः । ॐ अद्वैतायै नमः । ॐ आसमुद्रक्षितीश्वर्यै नमः । ॐ आसेतुहिमाशैलार्च्यायै नमः । ॐ आकुञ्चितशिरोरुहायै नमः । ॐ आहाररसिकायै नमः । ॐ आद्यायै नमः । ॐ आश्चर्यनिलयायै नमः । ॐ आधारायै नमः । ॐ आधेयायै नमः । ॐ आधेयवर्जितायै नमः । ॐ आनुपूर्वीक्लृप्तरथायै नमः । ॐ आशापालसुपूजितायै नमः ॥ ४००॥ ॐ उमास्नुषायै नमः । ॐ उमासूनुप्रियायै नमः । ॐ उत्सवमोदितायै नमः । ॐ ऊर्ध्वगायै नमः । ॐ ऋद्धिदायै नमः । ॐ ऋद्धायै नमः । ॐ ओषधीशातिशायिन्यै नमः । ॐ औपम्यहीनायै नमः । ॐ औत्सुक्यकर्यै नमः । ॐ औदार्यशालिन्यै नमः ॥ ४१०॥ ॐ श्रीचक्रावालातपत्रायै नमः । ॐ श्रीवत्साङ्कितभूषणायै नमः । ॐ श्रीकान्तभागिनेयेष्टायै नमः । ॐ श्रीमुखाब्दाधिदेवतायै नमः । ॐ अस्यै नमः । ॐ नार्यै नमः । ॐ वरनुतायै नमः । ॐ पीनोन्नतकुचद्वयायै नमः । ॐ श्यामायै नमः । ॐ यौवनमध्यस्थायै नमः ॥ ४२०॥ ॐ कस्यै नमः । ॐ जातायै नमः । ॐ तस्यै नमः । ॐ गृहादृतायै नमः । ॐ एतस्यै नमः । ॐ सम्मोहिन्यै नमः । ॐ देव्यै नमः । ॐ प्रियलक्ष्यायै नमः । ॐ वराश्रितायै नमः । ॐ कामायै नमः ॥ ४३०॥ ॐ अनुभुक्तायै नमः । ॐ मृगयासक्तायै नमः । ॐ आवेद्यायै नमः । ॐ गुहाश्रितायै नमः । ॐ पुलिन्दवनितानीतायै नमः । ॐ रहःकान्तानुसारिण्यै नमः । ॐ निशायै नमः । ॐ आक्रीडितायै नमः । ॐ आबोध्यायै नमः । ॐ निर्निद्रायै नमः ॥ ४४०॥ ॐ पुरुषायितायै नमः । ॐ स्वयंवृतायै नमः । ॐ सुदृशे नमः । ॐ सूक्ष्मायै नमः । ॐ सुब्रह्मण्यमनोहरायै नमः । ॐ परिपूर्णाचलारूढायै नमः । ॐ शबरानुमतायै नमः । ॐ अनघायै नमः । ॐ चन्द्रकान्तायै नमः । ॐ चन्द्रमुख्यै नमः ॥ ४५०॥ ॐ चन्दनागरुचर्चितायै नमः । ॐ चाटुप्रियोक्तिमुदितायै नमः । ॐ श्रेयोदात्र्यै नमः । ॐ विचिन्ततायै नमः । ॐ मूर्धास्फाटिपुराधीशायै नमः । ॐ मूर्धारूढपदाम्बुजायै नमः । ॐ मुक्तिदायै नमः । ॐ मुदितायै नमः । ॐ मुग्धायै नमः । ॐ मुहुर्ध्येयायै नमः ॥ ४६०॥ ॐ मनोन्मन्यै नमः । ॐ चित्रितात्मप्रियाकारायै नमः । ॐ चिदम्बरविहारिण्यै नमः । ॐ चतुर्वेदस्वरारावायै नमः । ॐ चिन्तनीयायै नमः । ॐ चिरन्तन्यै नमः । ॐ कार्तिकेयप्रियायै नमः । ॐ कामशजायै नमः । ॐ कामिनीवृतायै नमः । ॐ काञ्चनाद्रिस्थितायै नमः ॥ ४७०॥ ॐ कान्तिमत्यै नमः । ॐ साधुविचिन्तितायै नमः । ॐ नारायणसमुद्भूतायै नमः । ॐ नागरत्नविभूषणायै नमः । ॐ नारदोक्तप्रियोदन्तायै नमः । ॐ नम्यायै नमः । ॐ कल्याणदायिन्यै नमः । ॐ नारदाभीष्टजनन्यै नमः । ॐ नाकलोकनिवासिन्यै नमः । ॐ नित्यानन्दायै नमः ॥ ४८०॥ ॐ निरतिशयायै नमः । ॐ नामसाहस्रपूजितायै नमः । ॐ पितामहेष्टदायै नमः । ॐ पीतायै नमः । ॐ पीताम्बरसमुद्भवायै नमः । ॐ पीताम्बरोज्ज्वलायै नमः । ॐ पीननितम्बायै नमः । ॐ प्रार्थितायै नमः । ॐ परायै नमः । ॐ गण्यायै नमः ॥ ४९०॥ ॐ गणेश्वर्यै नमः । ॐ गम्यायै नमः । ॐ गहनस्थायै नमः । ॐ गजप्रियायै नमः । ॐ गजारूढायै नमः । ॐ गजगत्यै नमः । ॐ गजाननविनोदिन्यै नमः । ॐ अगजाननपद्मार्कायै नमः । ॐ गजाननसुधाकरायै नमः । ॐ गन्धर्ववन्द्यायै नमः ॥ ५००॥ ॐ गन्धर्वतन्त्रायै नमः । ॐ गन्धविनोदिन्यै नमः । ॐ गान्धर्वोद्वहितायै नमः । ॐ गीतायै नमः । ॐ गायत्यै नमः । ॐ गानतत्परायै नमः । ॐ गत्यै नमः । ॐ गहनस्मभूतायै नमः । ॐ गाढाश्लिष्टशिवात्मजायै नमः । ॐ गूढायै नमः ॥ ५१०॥ ॐ गूढचरायै नमः । ॐ गुह्यायै नमः । ॐ गुह्यकेष्टायै नमः । ॐ गुहाश्रितायै नमः । ॐ गुरुप्रियायै नमः । ॐ गुरुस्तुत्यायै नमः । ॐ गुण्यायै नमः । ॐ गुणिगणाश्रितायै नमः । ॐ गुणगण्यायै नमः । ॐ गूढरत्यै नमः ॥ ५२०॥ ॐ गिरे नमः । ॐ गीर्नुतवैभवायै नमः । ॐ गीर्वाण्यै नमः । ॐ गीतमहिमायै नमः । ॐ गीर्वाणेश्वरसन्नुतायै नमः । ॐ गीर्वाणाद्रिकृतावासायै नमः । ॐ गजवल्ल्यै नमः । ॐ गजाश्रितायै नमः । ॐ गाङ्गेयवनितायै नमः । ॐ गङ्गासूनुकान्तायै नमः ॥ ५३०॥ ॐ गिरीश्वर्यै नमः । ॐ दैवसेनसपत्न्यै नमः । ॐ यस्यै नमः । ॐ देवेन्द्रानुजसम्भवायै नमः । ॐ देवरेभभयाविष्टायै नमः । ॐ सरस्तीरलुठद्गत्यै नमः । ॐ वृद्धवेषगुहाश्लिष्टायै नमः । ॐ भीतायै नमः । ॐ सर्वाङ्गसुन्दर्यै नमः । ॐ निशासमानकबर्यै नमः ॥ ५४०॥ ॐ निशाकरसमाननायै नमः । ॐ निर्निद्रिताक्षिकमलायै नमः । ॐ निष्ठ्यूतारुणभाधरायै नमः । ॐ शिवाचार्यसत्यै नमः । ॐ शीतायै नमः । ॐ शीतलायै नमः । ॐ शीतलेक्षणायै नमः । ॐ किमेतदिति साशङ्कभटायै नमः । ॐ धम्मिल्लमार्गितायै नमः । ॐ धम्मिल्लसुन्दर्यै नमः ॥ ५५०॥ ॐ धर्त्र्यै नमः । ॐ धात्र्यै नमः । ॐ धातृविमोचिन्यै नमः । ॐ धनदायै नमः । ॐ धनदप्रीतायै नमः । ॐ धनेश्यै नमः । ॐ धनदेश्वर्यै नमः । ॐ धन्यायै नमः । ॐ ध्यानपरायै नमः । ॐ धारायै नमः ॥ ५६०॥ ॐ धराधारायै नमः । ॐ धराधरायै नमः । ॐ धरायै नमः । ॐ धराधरोद्भूतायै नमः । ॐ धीरायै नमः । ॐ धीरसमर्चितायै नमः । ॐ किङ्करोषीतिसम्पृष्टगुहायै नमः । ॐ साकूतभाषिण्यै नमः । ॐ रहो भवतु तद्भूयात् शमित्युक्तप्रियायै नमः । ॐ स्मितायै (अस्मितायै) नमः ॥ ५७०॥ ॐ कुमारज्ञातकाठिन्यकुचायै नमः । ॐ अर्धोरुलसत्कट्यै नमः । ॐ कञ्चुक्यै नमः । ॐ कञ्चुकाच्छन्नायै नमः । ॐ काञ्चीपट्टपरिष्कृतायै नमः । ॐ व्यत्यस्तकच्छायै नमः । ॐ विन्यस्तदक्षिणांसांशुकायै नमः । ॐ अतुलायै नमः । ॐ बन्धोत्सुकितकान्तान्तायै नमः । ॐ पुरुषायितकौतुकायै नमः ॥ ५८०॥ ॐ पूतायै नमः । ॐ पूतवत्यै नमः । ॐ पृष्टायै नमः । ॐ पूतनारिसमर्चितायै नमः । ॐ कण्टकोपानहोन्नृत्यद्भक्तायै नमः । ॐ दण्डाट्टहासिन्यै नमः । ॐ आकाशनिलयायै नमः । ॐ आकाशायै नमः । ॐ आकाशायितमध्यमायै नमः । ॐ आलोललोलायै नमः ॥ ५९०॥ ॐ आलोलायै नमः । ॐ आलोलोत्सारिताण्डजायै नमः । ॐ रम्भोरुयुगलायै नमः । ॐ रम्भापूजितायै नमः । ॐ रतिरञ्जन्यै नमः । ॐ आरम्भवादविमुखायै नमः । ॐ चेलाक्षेपप्रियासहायै नमः । ॐ अन्यासङ्गप्रियोद्विग्नायै नमः । ॐ अभिरामायै नमः । ॐ अनुत्तमायै नमः ॥ ६००॥ ॐ सत्वरायै नमः । ॐ त्वरितायै नमः । ॐ तुर्यायै नमः । ॐ तारिण्यै नमः । ॐ तुरगासनायै नमः । ॐ हंसारूढायै नमः । ॐ व्याघ्रगतायै नमः । ॐ सिंहारूढायै नमः । ॐ अरुणाधरायै नमः । ॐ कृत्तिकाव्रतसम्प्रीतायै नमः । ॐ कार्तिकेयविमोहिन्यै नमः । ॐ करण्डमकुटायै नमः । ॐ कामदोग्ध्र्यै नमः । ॐ कल्पद्रुसंस्थितायै नमः । ॐ वार्ताव्यङ्गविनोदेष्टायै नमः । ॐ वञ्चितायै नमः । ॐ वञ्चनप्रियायै नमः । ॐ स्वाभादीप्तगुहायै नमः । ॐ स्वाभाबिम्बितेष्टायै नमः । ॐ स्वयङ्गृहायै नमः ॥ ६२०॥ ॐ मूर्धाभिषिक्तवनितायै नमः । ॐ मरालगत्यै नमः । ॐ ईश्वर्यै नमः । ॐ मानिन्यै नमः । ॐ मानितायै नमः । ॐ मानहीनायै नमः । ॐ मातामहेडितायै नमः । ॐ मिताक्षर्यै नमः । ॐ मिताहारायै नमः । ॐ मितवादायै नमः ॥ ६३०॥ ॐ अमितप्रभायै नमः । ॐ मीनाक्ष्यै नमः । ॐ मुग्धहसनायै नमः । ॐ मुग्धायै नमः । ॐ मूर्तिमत्यै नमः । ॐ मत्यै नमः । ॐ मात्रे नमः । ॐ मातृसखानन्दायै नमः । ॐ मारविद्यायै नमः । ॐ अमृताक्षरायै नमः ॥ ६४०॥ ॐ अपञ्चीकृतभूतेश्यै नमः । ॐ पञ्चीकृतवसुन्धरायै नमः । ॐ विफलीकृतकल्पद्रुवे नमः । ॐ अफलीकृतदानवायै नमः । ॐ अनादिषट्कविपुलायै नमः । ॐ आदिषट्काङ्गमालिन्यै नमः । ॐ नवकक्ष्यायितभटायै नमः । ॐ नववीरसमर्चितायै नमः । ॐ रासक्रीडाप्रियायै नमः । ॐ राधाविनुतायै नमः ॥ ६५०॥ ॐ राधेयवन्दितायै नमः । ॐ राजचक्रधरायै नमः । ॐ राज्ञ्यै नमः । ॐ राजीवाक्षसुतायै नमः । ॐ रमायै नमः । ॐ रामायै नमः । ॐ रामादृतायै नमः । ॐ रम्यायै नमः । ॐ रामानन्दायै नमः । ॐ मनोरमायै नमः ॥ ६६०॥ ॐ रहस्यज्ञायै नमः । ॐ रहोध्येयायै नमः । ॐ रङ्गस्थायै नमः । ॐ रेणुकाप्रियायै नमः । ॐ रेणुकेयनुतायै नमः । ॐ रेवाविहारायै नमः । ॐ रोगनाशिन्यै नमः । ॐ विटङ्कायै नमः । ॐ विगताटङ्कायै नमः । ॐ विटपायितषण्मुखायै नमः । ॐ वीटीप्रियायै नमः । ॐ वीरुड्ध्वजायै नमः । ॐ वीरुट्प्रीतमृगावृतायै नमः । ॐ वीशारूढायै नमः । ॐ वीशरत्नप्रभायै नमः । ॐ अविदितवैभवायै नमः । ॐ चित्रायै नमः । ॐ चित्ररथायै नमः । ॐ चित्रसेनायै नमः । ॐ चित्रितविग्रहायै नमः ॥ ६८०॥ ॐ चित्रसेननुतायै नमः । ॐ चित्रवसनायै नमः । ॐ चित्रितायै नमः । ॐ चित्यै नमः । ॐ चित्रगुप्तार्चितायै नमः । ॐ चाटुवसनायै नमः । ॐ चारुभूषणायै नमः । ॐ चमत्कृत्यै नमः । ॐ चमत्कारभ्रमितेष्टायै नमः । ॐ चलत्कचायै नमः ॥ ६९०॥ ॐ छायापतङ्गबिम्बास्यायै नमः । ॐ छविनिर्जितभास्करायै नमः । ॐ छत्रध्वजादिबिरुदायै नमः । ॐ छात्रहीनायै नमः । ॐ छवीश्वर्यै नमः । ॐ जनन्यै नमः । ॐ जनकानन्दायै नमः । ॐ जाह्नवीतनयप्रियायै नमः । ॐ जाह्नवीतीरगायै नमः । ॐ जानपदस्थायै नमः ॥ ७००॥ ॐ अजनिमारणायै नमः । ॐ जम्भभेदिसुतानन्दायै नमः । ॐ जम्भारिविनुतायै नमः । ॐ जयायै नमः । ॐ जयावहायै नमः । ॐ जयकर्यै नमः । ॐ जयशीलायै नमः । ॐ जयप्रदायै नमः । ॐ जिनहन्त्र्यै नमः । ॐ जैनहन्त्र्यै नमः ॥ ७१०॥ ॐ जैमिनीयप्रकीर्तितायै नमः । ॐ ज्वरघ्न्यै नमः । ॐ ज्वलितायै नमः । ॐ ज्वालामालायै नमः । ॐ जाज्वल्यभूषणायै नमः । ॐ ज्वालामुख्यै नमः । ॐ ज्वलत्केशायै नमः । ॐ ज्वलद्वल्लीसमुद्भवायै नमः । ॐ ज्वलत्कुण्डान्तावतरद्भक्तायै नमः । ॐ ज्वलनभाजनायै नमः ॥ ७२०॥ ॐ ज्वलनोद्धूपितामोदायै नमः । ॐ ज्वलदीप्तधरावृतायै नमः । ॐ जाज्वल्यमानायै नमः । ॐ जयिन्यै नमः । ॐ जितामित्रायै नमः । ॐ जितप्रियायै नमः । ॐ चिन्तामणीश्वर्यै नमः । ॐ छिन्नमस्तायै नमः । ॐ छेदितदानवायै नमः । ॐ खड्गधारोन्नटद्दासायै नमः ॥ ७३०॥ ॐ खड्गरावणपूजितायै नमः । ॐ खड्गसिद्धिप्रदायै नमः । ॐ खेटहस्तायै नमः । ॐ खेटविहारिण्यै नमः । ॐ खट्वाङ्गधरजप्रीतायै नमः । ॐ खादिरासनसंस्थितायै नमः । ॐ खादिन्यै नमः । ॐ खादितारात्यै नमः । ॐ खनीश्यै नमः । ॐ खनिदायिन्यै नमः ॥ ७४०॥ ॐ अङ्कोलितान्तरगुहायै नमः । ॐ अङ्कुरद्दन्तपङ्क्तिकायै नमः । ॐ न्यङ्कूदरसमुद्भूतायै नमः । ॐ अभङ्गुरापाङ्गवीक्षणायै नमः । ॐ पितृस्वामिसख्यै नमः । ॐ पतिवरारूढायै नमः । ॐ पतिव्रतायै नमः । ॐ प्रकाशितायै नमः । ॐ पराद्रिस्थायै नमः । ॐ जयन्तीपुरपालिन्यै नमः ॥ ७५०॥ ॐ फलाद्रिस्थायै नमः । ॐ फलप्रीतायै नमः । ॐ पाण्ड्यभूपालवन्दितायै नमः । ॐ अफलायै नमः । ॐ सफलायै नमः । ॐ फालदृक्कुमारतपःफलायै नमः । ॐ कुमारकोष्ठगायै नमः । ॐ कुन्तशक्ति चिह्नधरावृतायै नमः । ॐ स्मरबाणायितालोकायै नमः । ॐ स्मरविद्योहिताकृतये नमः ॥ ७६०॥ ॐ कालमेघायितकचायै नमः । ॐ कामसौभाग्यवारिधये नमः । ॐ कान्तालकान्तायै नमः । ॐ कामेड्यायै नमः । ॐ करकोन्नतनप्रियायै नमः । ॐ पौनःपुन्यप्रियालापायै नमः । ॐ पम्पावाद्यप्रियाधिकायै नमः । ॐ रमणीयायै नमः । ॐ स्मरणीयायै नमः । ॐ भजनीयायै नमः ॥ ७७०॥ ॐ परात्परायै नमः । ॐ नीलवाजिगतायै नमः । ॐ नीलखड्गायै नमः । ॐ नीलांशुकायै नमः । ॐ अनिलायै नमः । ॐ रात्र्यै नमः । ॐ निद्रायै नमः । ॐ भगवत्यै नमः । ॐ निद्राकर्त्र्यै नमः । ॐ विभावर्यै नमः ॥ ७८०॥ ॐ शुकायमानकायोक्त्यै नमः । ॐ किंशुकाभाधराम्बरायै नमः । ॐ शुकमानितचिद्रूपायै नमः । ॐ अंशुकान्तप्रसाधिन्यै नमः । ॐ गूढोक्तायै नमः । ॐ गूढगदितायै नमः । ॐ गुहसङ्केतितायै नमः । ॐ अगगायै नमः । ॐ धैर्यायै नमः । ॐ धैर्यवत्यै नमः ॥ ७९०॥ ॐ धात्रीप्रेषितायै नमः । ॐ अवाप्तकामनायै नमः । ॐ सन्दृष्टायै नमः । ॐ कुक्कुटारावध्वस्तधम्मिल्लजीविन्यै नमः । ॐ भद्रायै नमः । ॐ भद्रप्रदायै नमः । ॐ भक्तवत्सलायै नमः । ॐ भद्रदायिन्यै नमः । ॐ भानुकोटिप्रतीकाशायै नमः । ॐ चन्द्रकोटिसुशीतलायै नमः ॥ ८००॥ ॐ ज्वलनान्तःस्थिताय नमः । ॐ भक्तविनुतायै नमः । ॐ भास्करेडितायै नमः । ॐ अभङ्गुरायै नमः । ॐ भारहीनायै नमः । ॐ भारत्यै नमः । ॐ भारतीडितायै नमः । ॐ भरतेड्यायै नमः । ॐ भारतेश्यै नमः । ॐ भुवनेश्यै नमः ॥ ८१०॥ ॐ भयापहायै नमः । ॐ भैरव्यै नमः । ॐ भैरवीसेव्यायै नमः । ॐ भोक्त्र्यै नमः । ॐ भोगीन्द्रसेवितायै नमः । ॐ भोगेडितायै नमः । ॐ भोगकर्यै नमः । ॐ भेरुण्डायै नमः । ॐ भगमालिन्यै नमः । ॐ भगाराध्यायै नमः ॥ ८२०॥ ॐ भागवतप्रगीतायै नमः । ॐ अभेदवादिन्यै नमः । ॐ अन्यायै नमः । ॐ अनन्यायै नमः । ॐ निजानन्यायै नमः । ॐ स्वानन्यायै नमः । ॐ अनन्यकामिन्यै नमः । ॐ यज्ञेश्वर्यै नमः । ॐ यागशीलायै नमः । ॐ यज्ञोद्गीतगुहानुगायै नमः ॥ ८३०॥ ॐ सुब्रह्मण्यगानरतायै नमः । ॐ सुब्रह्मण्यसुखास्पदायै नमः । ॐ कुम्भजेड्यायै नमः । ॐ कुतुकितायै नमः । ॐ कौसुम्भाम्बरमण्डितायै नमः । ॐ संस्कृतायै नमः । ॐ संस्कृतारावायै नमः । ॐ सर्वावयवसुन्दर्यै नमः । ॐ भूतेश्यै नमः । ॐ भूतिदायै नमः ॥ ८४०॥ ॐ भूत्यै नमः । ॐ भूतावेशनिवारिण्यै नमः । ॐ भूषणायितभूताण्डायै नमः । ॐ भूचक्रायै नमः । ॐ भूधराश्रितायै नमः । ॐ भूलोकदेवतायै नमः । ॐ भूम्ने नमः । ॐ भूमिदायै नमः । ॐ भूमिकन्याकायै नमः । ॐ भूसुरेड्यायै नमः ॥ ८५०॥ ॐ भूसुरारिविमुखायै नमः । ॐ भानुबिम्बगायै नमः । ॐ पुरातनायै नमः । ॐ अभूतपूर्वायै नमः । ॐ अविजातीयायै नमः । ॐ अधुनातनायै नमः । ॐ अपरायै नमः । ॐ स्वगताभेदायै नमः । ॐ सजातीयविभेदिन्यै नमः । ॐ अनन्तरागै नमः ॥ ८६०॥ ॐ अरविन्दाभायै नमः । ॐ हृद्यायै नमः । ॐ हृदयसंस्थितायै नमः । ॐ ह्रीमत्यै नमः । ॐ हृदयासक्तायै नमः । ॐ हृष्टायै नमः । ॐ हृन्मोहभास्करायै नमः । ॐ हारिण्यै नमः । ॐ हरिण्यै नमः । ॐ हारायै नमः ॥ ८७०॥ ॐ हारायितविलासिन्यै नमः । ॐ हरारावप्रमुदितायै नमः । ॐ हीरदायै नमः । ॐ हीरभूषणायै नमः । ॐ हीरभृद्विनुतायै नमः । ॐ हेमायै नमः । ॐ हेमाचलनिवासिन्यै नमः । ॐ होमप्रियायै नमः । ॐ हौत्रपरायै नमः । ॐ हुङ्कारायै नमः ॥ ८८०॥ ॐ हुम्फडुज्ज्वलायै नमः । ॐ हुताशनेडितायै नमः । ॐ हेलामुदितायै नमः । ॐ हेमभूषणायै नमः । ॐ ज्ञानेश्वर्यै नमः । ॐ ज्ञाततत्त्वायै नमः । ॐ ज्ञेयायै नमः । ॐ ज्ञेयविवर्जितायै नमः । ॐ ज्ञानायै नमः । ॐ ज्ञानाकृत्यै नमः । ॐ ज्ञानिविनुतायै नमः । ॐ ज्ञातिवर्जितायै नमः । ॐ ज्ञाताखिलायै नमः । ॐ ज्ञानदात्र्यै नमः । ॐ ज्ञाताज्ञातविवर्जितायै नमः । ॐ ज्ञेयानन्यायै नमः । ॐ ज्ञेयगुहायै नमः । ॐ विज्ञेयायै नमः । ॐ अज्ञेयवर्जितायै नमः । ॐ आज्ञाकर्यै नमः ॥ ९००॥ ॐ पराज्ञातायै नमः । ॐ प्राज्ञायै नमः । ॐ प्रज्ञावशोषितायै नमः । ॐ स्वाज्ञाधीनामरायै नमः । ॐ अनुज्ञाकाङ्क्षोन्नृत्यत्सुराङ्गनायै नमः । ॐ सगजायै नमः । ॐ अगजानन्दायै नमः । ॐ सगुहायै नमः । ॐ अगुहान्तरायै नमः । ॐ साधारायै नमः ॥ ९१०॥ ॐ निराधारायै नमः । ॐ भूधरस्थायै नमः । ॐ अतिभूधरायै नमः । ॐ सगुणायै नमः । ॐ अगुणाकारायै नमः । ॐ निर्गुणायै नमः । ॐ गुणाधिकायै नमः । ॐ अशेषायै नमः । ॐ अविशेषेड्यायै नमः । ॐ शुभदायै नमः ॥ ९२०॥ ॐ अशुभपहायै नमः । ॐ अतर्क्यायै नमः । ॐ व्या (अव्या)कृतायै नमः । ॐ न्यायकोविदायै नमः । ॐ तत्त्वबोधिन्यै नमः । ॐ साङ्ख्योक्तायै नमः । ॐ कपिलानन्दायै नमः । ॐ वैशेषिकविनिश्चितायै नमः । ॐ पुराणप्रथितायै नमः । ॐ अपारकरुणायै नमः । ॐ वाक्प्रदायिन्यै नमः । ॐ सङ्ख्याविहीनायै नमः । ॐ असङ्ख्येयायै नमः । ॐ सुस्मृतायै नमः । ॐ विस्मृतापहायै नमः । ॐ वीरबाहुनुतायै नमः । ॐ वीरकेसरीडितवैभवायै नमः । ॐ वीरमाहेन्द्रविनुतायै नमः । ॐ वीरमाहेश्वरार्चितायै नमः । ॐ वीरराक्षससम्पूज्यायै नमः ॥ ९४०॥ ॐ वीरमार्तण्डवन्दितायै नमः । ॐ वीरान्तकस्तुतायै नमः । ॐ वीरपुरन्दरसमर्चितायै नमः । ॐ वीरधीरार्चितपदायै नमः । ॐ नववीरसमाश्रितायै नमः । ॐ भैरवाष्टकसंसेव्यायै नमः । ॐ ब्रह्माद्यष्टकसेवितायै नमः । ॐ इन्द्राद्यष्टकसम्पूज्यायै नमः । ॐ वज्राद्यायुधशोभितायै नमः । ॐ अङ्गावरणसंयुक्तायै नमः ॥ ९५०॥ ॐ अनङ्गामृतवर्षिण्यै नमः । ॐ तमोहन्त्र्यै नमः । ॐ तपोलभ्यायै नमः । ॐ तमालरुचिरायै नमः । ॐ अबलायै नमः । ॐ सानन्दायै नमः । ॐ सहजानन्दायै नमः । ॐ गुहानन्दविवर्धिन्यै नमः । ॐ परानन्दायै नमः । ॐ शिवानन्दायै नमः ॥ ९६०॥ ॐ सच्चिदानन्दरूपिण्यै नमः । ॐ पुत्रदायै नमः । ॐ वसुदायै नमः । ॐ सौख्यदात्र्यै नमः । ॐ सर्वार्थदायिन्यै नमः । ॐ योगारूढायै नमः । ॐ योगिवन्द्यायै नमः । ॐ योगदायै नमः । ॐ गुहयोगिन्यै नमः । ॐ प्रमदायै नमः । ॐ प्रमदाकारायै नमः । ॐ प्रमादात्र्यै नमः । ॐ प्रमामय्यै नमः । ॐ भ्रमापाहायै नमः । ॐ भ्रामयित्र्यै नमः । ॐ प्रधानायै नमः । ॐ प्रबलायै नमः । ॐ प्रमायै नमः । ॐ प्रशान्तायै नमः । ॐ प्रमितानन्दायै नमः ॥ ९८०॥ ॐ परमानन्दनिर्भरायै नमः । ॐ पारावारायै नमः । ॐ परोत्कर्षायै नमः । ॐ पार्वतीतनयप्रियायै नमः । ॐ प्रसाधितायै नमः । ॐ प्रसन्नास्यायै नमः । ॐ प्राणायामपरार्चितायै नमः । ॐ पूजितायै नमः । ॐ साधुविनुतायै नमः । ॐ सुरसास्वादितायै नमः ॥ ९९०॥ ॐ सुधायै नमः । ॐ स्वामिन्यै नमः । ॐ स्वामिवनितायै नमः । ॐ समनीस्थायै नमः । ॐ समानितायै नमः । ॐ सर्वसम्मोहिन्यै नमः । ॐ विश्वजनन्यै नमः । ॐ शक्तिरूपिण्यै नमः । ॐ कुमारदक्षिणोत्सङ्गवासिन्यै नमः । ॐ भोगमोक्षदायै नमः ॥ १०००॥ From Bhagavati Stutimanjari (Mahaperiyaval Trust)