अक्षर आकार:

वैकृतिकं रहस्यम्

vaikRitikaM rahasyam

वैकृतिकं रहस्यम्

श्रीगणेशाय नमः ॥ ऋषिरुवाच । त्रिगुणा तामसी देवी सात्त्विकी या त्वयोदिता । सा शर्वा चण्डिका दुर्गा भद्रा भगवतीर्यते ॥ १॥ योगनिद्रा हरेरुक्ता महाकाली तमोगुणा । मधुकैटभनाशार्थं यां तुष्टावाम्बुजासनः ॥ २॥ दशवक्त्रा दशभुजा दशपादाञ्जनप्रभा । विशालया राजमाना त्रिंशल्लोचनमालया ॥ ३॥ स्फुरद्दशनदंष्ट्रा सा भीमरूपापि भूमिप । रूपसौभाग्यकान्तीनां सा प्रतिष्ठां महाश्रियाम् ॥ ४॥ खड्गबाणगदाशूलशङ्खचक्रभुशुडिभृत् । परिघं कार्मुकं शीर्षं निश्चोतद्रुधिरं दधौ ॥ ५॥ एषा सा वैष्णवी माया महाकाली दुरत्यया । आराधिता वशीकुर्यात्पूजाकर्तुश्चराचरम् ॥ ६॥ सर्वदेवशरीरेभ्यो याऽऽविर्भूताऽमितप्रभा । त्रिगुणा सा महालक्ष्मीः साक्षान्महिषमर्दिनी ॥ ७॥ श्वेतानना नीलभुजा सुश्वेतस्तनमण्डला । रक्तमध्या रक्तपादा रक्तजङ्घोरुरुन्मदा ॥ ८॥ सुचित्रजघना चित्रमाल्याम्बरविभूषणा । चित्रानुलेपना कान्तिरूपसौभाग्यशालिनी ॥ ९॥ अष्टादशभुजा पूज्या सा सहस्रभुजा सती । आयुधान्यत्र वक्ष्यन्ते दक्षिणाधःकरक्रमात् ॥ १०॥ अक्षमाला च कमलं बाणोऽसिः कुलिशं गदा । चक्रं त्रिशूलं परशुः शङ्खो घण्टा च पाशकः ॥ ११॥ शक्तिर्दण्डश्चर्म चापं पानपात्रं कमण्डलुः । अलङ्कृतभुजामेभिरायुधैः कमलासनाम् ॥ १२॥ सर्वदेवमयीमीशां महालक्ष्मीमिमां नृप । पूजयेत्सर्वलोकानां स देवानां प्रभुर्भवेत् ॥ १३॥ गौरीदेहात्समुद्भूता या सत्त्वैकगुणाश्रया । साक्षात्सरस्वती प्रोक्ता शुम्भासुरनिबर्हिणी ॥ १४॥ दधौ चाष्टभुजा बाणान्मुसलं शूलचक्रभृत् । शङ्खं घण्टां लाङ्गलं च कार्मुकं वसुधाधिप ॥ १५॥ एषा सम्पूजिता भक्त्या सर्वज्ञत्वं प्रयच्छति । निशुम्भमथिनी देवी शुम्भासुरनिबर्हिणी ॥ १६॥ इत्युक्तानि स्वरूपाणि मूर्तीनां तव पार्थिव । उपासनं जगन्मातुः पृथगासां निशामय ॥ १७॥ महालक्ष्मीर्यदा पूज्या महाकाली सरस्वती । दक्षिणोत्तरयोः पूज्ये पृष्ठतो मिथुनत्रयम् ॥ १८॥ विरञ्चिः स्वरया मध्ये रुद्रो गौर्या च दक्षिणे । वामे लक्ष्म्या हृषीकेशः पुरतो देवतात्रयम् ॥ १९॥ अष्टादशभुजा मध्ये वामे चास्या दशानना । दक्षिणेऽष्टभुजा लक्ष्मीर्महतीति समर्चयेत् ॥ २०॥ अष्टादशभुजा चैषा यदा पूज्या नराधिप । दशानना चाष्टभुजा दक्षिणोत्तरयोस्तदा ॥ २१॥ कालमृत्यू च सम्पूज्यौ सर्वारिष्टप्रशान्तये । यदा चाष्टभुजा पूज्या शुम्भासुरनिबर्हिणी ॥ २२॥ नवास्याः शक्तयः पूज्यास्तदा रुद्रविनायकौ । नमो देव्या इति स्तोत्रैर्महालक्ष्मीं समर्चयेत् ॥ २३॥ अवतारत्रयार्चायां स्तोत्रमन्त्रास्तदाश्रयाः । अष्टादशभुजा चैषा पूज्या महिषमर्दिनी ॥ २४॥ महालक्ष्मीर्महाकाली सैव प्रोक्ता सरस्वती । ईश्वरी पुण्यपापानां सर्वलोकमहेश्वरी ॥ २५॥ महिषान्तकरी येन पूजिता स जगत्प्रभुः । पूजयेज्जगतां धात्रीं चण्डिकां भक्तवत्सलाम् ॥ २६॥ अर्घादिभिरलङ्कारैर्गन्धपुष्पैस्तथोत्तमैः । धूपैर्दीपैश्च नैवेद्यैर्नानाभक्ष्यसमन्वितैः ॥ २७॥ रुधिराक्तेन बलिना मांसेन सुरया नृप । प्रणामाचमनीयेन चन्दनेन सुगन्धिना ॥ २८॥ सकर्पूरैश्च ताम्बूलैर्भक्तिभावसमन्वितैः । वामभागेऽग्रतो देव्याश्छिन्नशीर्षं महासुरम् ॥ २९॥ पूजयेन्महिषं येन प्राप्तं सायुज्यमीशया । दक्षिणे पुरतः सिंहं समग्रं धर्ममीश्वरम् ॥ ३०॥ वाहनं पूजयेद्देव्या धृतं येन चराचरम् । ततः कृताञ्जलिर्भूत्वा स्तुवीत चरितैरिमैः ॥ ३१॥ एकेन वा मध्यमेन नैकेनेतरयोरिह । चरितार्धं तु न जपेज्जपञ्छिद्रमवाप्नुयात् ॥ ३२॥ स्तोत्रमन्त्रैः स्तुवीतेमां यदि वा जगदम्बिकाम् । प्रदक्षिणानमस्कारान्कृत्वा मूर्घ्नि कृताञ्जलिः ॥ ३३॥ क्षमापयेज्जगद्धात्रीं मुहुर्मुहुरतद्रितः । प्रतिश्लोकं च जुहुयात्पायसं तिलसर्पिषा ॥ ३४॥ जुहुयात्स्तोत्रमन्त्रैर्वा चण्डिकायै शुभं हविः । नमोनमःपदैर्देवीं पूजयेत्सुसमाहितः ॥ ३५॥ प्रयतः प्राञ्जलिः प्रह्वः प्राणानारोप्य चात्मनि । सुचिरं भावयेद्देवीं चण्डिकां तन्मयो भवेत् ॥ ३६॥ एवं यः पूजयेद्भक्त्या प्रत्यहं परमेश्वरीम् । भुक्त्वा भोगान् यथाकामं देवीसायुज्यमाप्नुयात् ॥ ३७॥ यो न पूजयते नित्यं चण्डिकां भक्तवत्सलाम् । भस्मीकृत्यास्य पुण्यानि निर्दहेत्परमेश्वरी ॥ ३८॥ तस्मात्पूजय भूपाल सर्वलोकमहेश्वरीम् । यथोक्तेन विधानेन चण्डिकां सुखमाप्स्यसि ॥ ३९॥ इति श्रीमार्कण्डेयपुराणे सूर्यसावर्णिके मन्वन्तरे देवीमाहात्म्ये वैकृतिकं रहस्यं सम्पूर्णम् ॥ अध्याय १५ See also prAdhAnikarahasyam and mUrtirahasyam