अक्षर आकार:

वैष्णवीदेवीस्तुतिः

Vaishnavidevistutih

वैष्णवीदेवीस्तुतिः

वन्देऽहं युवतीं नित्यां कृष्णवर्णां चतुर्भुजाम् । रविमण्डलमध्यस्थां गायत्रीं सुखदां नृणाम् ॥ १॥ शङ्ख-चक्र-गदा-पद्मधारिणीं दुःखदारिणीम् । वैष्णवीं गरुडारूढां भक्तानां भयहारिणीम् ॥ २॥ अनन्यशरणां ज्ञात्वा प्रपद्ये शरणं तव । त्वदेकशरणं मातः त्राहि मां शरणागताम् ॥ ३॥ श्लोकमेतत् त्रयं नित्यं मध्याह्ने तु विशेषतः । सायं-प्रातः पठेन्नित्यं सर्वकामप्रदा भवेत् ॥ ४॥ इति श्रीगार्ग्यमुनि''द्विजेन्द्र''कविकृता वैष्णवीदेवीस्तुतिः समाप्ता ।