अक्षर आकार:

वृन्दावनपूजा अथवा तुलसीविष्णुपूजा

Vrindavanapuja TulasIviShNupUjA

वृन्दावनपूजा अथवा तुलसीविष्णुपूजा

कार्तिके शुक्लद्वादश्यां वृन्दावने महाविष्णुं तुलसीं च पूजयेत् । तुलसीसमीपे महाविष्णुप्रतिमां निधाय, विघ्नेशं सम्पूज्य, शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ श्रीपरमेश्वरप्रीत्यर्थं शुभे ... तिथौ तुलसी महाविष्णु प्रसादसिद्ध्यर्थं तुलसी महाविष्णुपूजां करिष्ये । इति सङ्कल्प्य विघ्नेशमुद्वास्य कलशपूजां कृत्वा, तुलसीं विष्णुं च ध्यायेत् । ध्यायामि तुलसीं देवीं श्यामां कमललोचनाम् । प्रसन्वदनाम्भोजां वरदामभयप्रदाम् ॥ तुलसीं ध्यायामि ध्यायामि विष्णुं वरदं तुलसीप्रियवल्लभम् । पीताम्बरं पद्मनेत्रं वासुदेवं वरप्रदम् ॥ महाविष्णुं ध्यायामि ॥ वासुदेव प्रिये देवि सर्वदेवस्वरूपिणि । आगच्छ पूजाभवने सदा सन्निहिता भव ॥ आगच्छागच्छ देवेश तेजोराशे जगत्पते । क्रियमाणां मया पूजां वासुदेव गृद्दाण भोः ॥ -तुलसीविष्णू - आवाहयामि नानारत्नसमायुक्तं कार्तस्वरविभूषितम् । आसनं कृपया विष्णो तुलसि प्रतिगृह्यताम् । तुलसी विष्णुभ्यां नमः - आसनं समर्पयामि । गङ्गादिसर्वतीर्थेभ्यो वासुदेव मया हृतम् । तोयमेतत्सुखस्पर्शं पाद्यार्थं प्रतिगृह्यताम् ॥ नानानदीसमानीतं सुवर्णकलशस्थितम् । पाद्यं गृहाण तुलसि पापं मे विनिवारय ॥(पाद्यं) नमस्ते देवदेवेश नमस्ते कमलापते । नमस्ते सर्वविनुत गृहाणार्घ्यं नमोऽस्तु ते ॥ अर्घ्यं गृहाण देवि त्वं अच्युतप्रियवल्लभे । अक्षतादिसमायुक्तं अक्षय्यफलदायिनि ॥ (अर्घ्यं) कर्पूरवासितं तोयं गङ्गादिभ्यः समाहृतम् । आचम्यतां जगन्नाथ मया दत्तं च भक्तितः ॥ गृहाणाचमनार्थाय विष्णुवक्षः स्थलालये । स्वच्छं तोयमिदं देवि सर्वपापविनाशिनि ॥ (आचमनीयम्) दध्याज्यमधुसंयुक्तं मधुपर्कं मयाऽऽहृतम् । गृहाण विष्णो वरद लक्ष्मीकान्त नमोऽस्तु ते ॥ मधुपर्कं गृहाणेमं मधुसूदनवल्लभे । मधुदध्याज्य संयुक्तं महापापविनाशिनि । (मधुपर्कं) मध्वाज्यशर्करायुक्तं दधिक्षीरसमन्वितम् । पञ्चामृतं गृहाणेदं भक्तानामिष्टदायक ॥ पञ्चामृतं गृहाणेदं पञ्चपातकनाशिनि । दधिक्षीरसमायुक्तं दामोदरकुटुम्बिनि ॥ (पञ्चामृतम् ) गङ्गा कृष्णा च यमुना नर्मदा च सरस्वती । तुङ्गा गोदावरी वेणी क्षिप्रा सिन्धुर्घटप्रभा ॥ तापी पयोष्णी सरयूस्ताभ्यः स्नानार्थमाहृतम् । तोयमेतत्सुखस्पर्शं स्नानीयं गृह्यतां हरे ॥ गङ्गागोदावरीकृष्णातुङ्गादिभ्यः समाहृतम् । सलिलं देवि तुलसि स्नानार्थं प्रतिगृह्यताम् ॥ (स्नानं ) सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । वाससी प्रतिगृह्णातु लक्ष्मीजानिरधोक्षजः ॥ पीताम्बरमिदं दिव्यं पातकव्रजनाशिनि । पीताम्बरप्रिये देवि परिधत्स्व परात्परे ॥ (वस्त्रम्) भूषणानि वरार्हाणि गृह्णीतं तुलसीश्वर । किरीटहारकेयूरकटकानि हरेऽमृते ॥ (आभरणानि) चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम् । गन्धं स्वीकुरुतं देवौ रमेशहरिवल्लभे ॥ (गन्धान् ) मल्लिकाकुन्दमन्दारञ्जाजीवकुल चम्पकैः । शतपत्रैश्च कल्हारैःअर्चये तुलसीहरी । (पुष्पाणि) अङ्गपूजा- वृन्दायै अच्युताय नमः - पादौ पूजयामि । तुलस्यै अनन्ताय नमः - गुल्फौ पूजयामि । जनार्दनप्रियायै तुलसीकान्ताय नमः - जङ्घे पूजयामि । जन्मनाशिन्यै गङ्गाधरपदाय नमः - जानुनी पूजयामि । उत्तमायै उत्तमाय नमः - ऊरू पूजयामि । कमलाक्ष्यै कमलाक्षाय नमः - कटिं पूजयामि । नारायण्यै नारायणाय नमः - नाभिं पूजयामि । उन्नतायै उन्नताय नमः - उदरं पूजयामि । वरदायै वरदाय नमः - वक्षः पूजयामि । स्तव्यायै स्तव्याय नमः - स्तनौ कौस्तुभं पूजयामि । चतुर्भुजायै चतुर्भुजाय नमः - भुजान् पूजयामि । कम्बुकण्ठ्यै वनमालिने नमः - कण्ठं पूजयामि । कल्मषघ्न्यै कल्मषघ्नाय नमः - कर्णौ पूजयामि । मुनिप्रियायै मुनिप्रियाय नमः - नेत्रे पूजयामि । शुभप्रदायै शुभप्रदाय नमः -शिरः पूजयामि । सर्वार्थदायिन्यै सवार्थदायिने नमः - सर्वाण्यङ्गानि पूजयामि । (तुलसी विष्णु नामावल्या पुष्पार्चना) धूपं गृहाण वरदे दशाङ्गेन सुवासितम् । तुलस्यमृतसम्भूते धूतपापे नमोऽस्तु ते ॥ दशाङ्गो गुग्गुलूपेतः सुगन्धः सुमनोहरः । श्रीवत्साङ्क हृषीकेश धूपोऽयं प्रतिगृह्यताम् ॥ (धूपं) वर्तित्रय युतं दीप्तं गोघृतेन समन्वितम् । दीपं देवि गृहाणेमं दैत्यारिहृदयस्थिते ॥ साज्यं त्रिवर्तिसंयुक्तं दीप्तं देव जनार्दन । गृहाण मङ्गलं दीपं त्रैलोक्यतिमिरं हर ॥ (दीपम्) नानाभक्ष्यैश्च भोज्यैश्च फलैः क्षीरघृतादिभिः । नैवेद्यं गृह्यतां युक्तं नारायणमनः प्रिये ॥ भोज्यं चतुर्विधं चोष्यभक्ष्यसूपफलैर्युतम् । दधिमध्वाज्यसंयुक्तं गृह्यतामम्बुजेक्षण । (महानैवेद्यं) कर्पूरचूर्णताम्बूलवल्लीपूगफलैर्युतम् । जगतः पितरावेतत्ताम्बूलं प्रतिगृह्यताम् । (ताम्बूलं ) नीराजनं गृहाणेदं कर्पूरैः कलितं मया । तुलस्यमृतसम्भूते गृहाण हरिवल्लभे ॥ चन्द्रादित्यौ च नक्षत्रं विद्युदग्निस्त्वमेव च । त्वमेव सर्वज्योतींषि कुर्यां नीराजनं हरे ॥ (नीराजनं) प्रकृष्टपापनाशाय प्रकृष्टफलसिद्धये । युवां प्रदक्षिणी कुर्वे तुलसीशौ प्रसीदतम् ॥ (प्रदक्षिणं) नमोऽस्तु पीयूष समुद्भवायै नमोऽस्तु पद्माक्षमनः प्रियायै । नमोऽस्तु जन्माप्यय भीतिहन्त्र्यै नमस्तुलस्यै जगतां जनन्यै ॥ शङ्खचक्रगदापाणे द्वारकानिलयाच्युत । गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागत(ता)म् ॥ (नमस्कारान्) पुष्पाञ्जलिं गृहाणेदं पङ्कजाक्षस्य वल्लभे । नमस्ते देवि तुलसि नताभीष्टफलप्रदे । मन्दारनीलोत्पलकुन्दजाती पुनागमल्लीकरवीरपद्मैः । पुष्पाञ्जलिं ते जगदेकबन्धो हरे त्वदङ्ग्रौ विनिवेशयामि । (मन्त्रपुष्पाञ्जलिं) आयुरारोग्यमतुलमैश्वर्यं पुत्रसम्पदः । देहि मे सकलान्कामान् तुलस्यमृतसम्भवे ॥ नमो नमः सुखवरपूजिताङ्ग्रये नमो नमो निरुपममङ्गलात्मने । नमो नमो विपुलपदैकसिद्ध्ये नमो नमः परमदयानिधे हरे ॥ (प्रार्थनां ) नमस्ते देवि तुलसि नमस्ते मोक्षदायिनि । इदमर्घ्यं प्रदास्यामि सुप्रीता वरदा भव ॥ लक्ष्मीपते नमस्तुभ्यं तुलसीदामभूषण । इदमर्घ्यं प्रदास्यामि गृहाण गरुडध्वज ॥ श्री तुलस्यै महाविष्णवे च नमः - इद मर्घ्यमिद मर्घ्यमिदमर्घ्यम् ॥ इति त्रिः ॥ नमस्ते देवि तुलसि माधवेन समन्विता । प्रयच्छ सकलान्कामान् द्वादश्यां पूजिता मया ॥ कायेन वाचा मनसेन्द्रियैर्वा बुध्यात्मना वा प्रकृतेः स्वभावात् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयामि ॥ ॐ तत्सत्