अक्षर आकार:

वृन्दादेव्यष्टकम्

Vrindadevyashtakam

वृन्दादेव्यष्टकम्

विश्वनाथचक्रवर्ती ठकुरकृतम् । गाङ्गेयचाम्पेयतडिद्विनिन्दिरोचिःप्रवाहस्नपितात्मवृन्दे । बन्धूकबन्धुद्युतिदिव्यवासोवृन्दे नुमस्ते चरणारविन्दम् ॥ १॥ बिम्बाधरोदित्वरमन्दहास्यनासाग्रमुक्ताद्युतिदीपितास्ये । विचित्ररत्नाभरणश्रियाढ्ये वृन्दे नुमस्ते चरणारविन्दम् ॥ २॥ समस्तवैकुण्ठशिरोमणौ श्रीकृष्णस्य वृन्दावनधन्यधामिन् । दत्ताधिकारे वृषभानुपुत्र्या वृन्दे नुमस्ते चरणारविन्दम् ॥ ३॥ त्वदाज्ञया पल्लवपुष्पभृङ्गमृगादिभिर्माधवकेलिकुञ्जाः । मध्वादिभिर्भान्ति विभूष्यमाणाः वृन्दे नुमस्ते चरणारविन्दम् ॥ ४॥ त्वदीयदौत्येन निकुञ्जयूनोः अत्युत्कयोः केलिविलाससिद्धिः । त्वत्सौभगं केन निरुच्यतां तद्वृन्दे नुमस्ते चरणारविन्दम् ॥ ५॥ रासाभिलाषो वसतिश्च वृन्दावने त्वदीशाङ्घ्रिसरोजसेवा । लभ्या च पुंसां कृपया तवैव वृन्दे नुमस्ते चरणारविन्दम् ॥ ६॥ त्वं कीर्त्यसे सात्वततन्त्रविद्भिः लीलाभिधाना किल कृष्णशक्तिः । तवैव मूर्तिस्तुलसी नृलोके वृन्दे नुमस्ते चरणारविन्दम् ॥ ७॥ भक्त्या विहीना अपराधलेशैः क्षिप्ताश्च कामादितरङ्गमध्ये । कृपामयि त्वां शरणं प्रपन्नाः वृन्दे नुमस्ते चरणारविन्दम् ॥ ८॥ वृन्दाष्टकं यः श‍ृणुयात्पठेच्च वृन्दावनाधीशपदाब्जभृङ्गः । स प्राप्य वृन्दावननित्यवासं तत्प्रेमसेवां लभते कृतार्थः ॥ ९॥ इति विश्वनाथचक्रवर्ती ठकुरकृतं वृन्दादेव्यष्टकं सम्पूर्णम् ।