अक्षर आकार:

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्

Shri Vasavi Kanyaka Parameshwari Ashtottara Shatanamastotram

श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ न्यासः - अस्य श्रीवासवीकन्यकापरमेश्वरी अष्टोत्तरशतनामस्तोत्रमालामन्त्रस्य समाधि ऋषिः । श्रीकन्यकापरमेश्वरी देवता। अनुष्टुप्छन्दः। वं बीजम् । स्वाहा शक्तिः। सौभाग्यमिति कीलकम्। मम सकलसिद्धिप्राप्तये जपे विनियोगः ॥ ध्यानम् - वन्दे कुसुमाम्बासत्पुत्रीं वन्दे कुसुमश्रेष्ठतनयाम् । वन्दे विरूपाक्षसहोदरीं वन्दे कन्यकापरमेश्वरीम् ॥ वन्दे भास्कराचार्यविद्यार्थिनीं वन्दे नगरेश्वरस्य प्रियाम् । वन्दे विष्णुवर्धनमर्दिनीं वन्दे पेनुकोण्डापुरवासिनीम् ॥ वन्दे आर्यवैश्यकुलदेवीं वासवीं भक्तानामभीष्टफलदायिनीम् । वन्दे अन्नपूर्णास्वरूपिणीं वासवीं भक्तानां मनालयनिवासिनीम् ॥ ॐ सौभाग्यजननी माता माङ्गल्या मानवर्धिनी । महाकीर्तिप्रसारिणी महाभाग्यप्रदायिनी ॥ १॥ वासवाम्बा च कामाक्षी विष्णुवर्धनमर्दिनी । वैश्यवम्शोद्भवा चैव कन्यकाचित्स्वरूपिणी ॥ २॥ कुलकीर्तिप्रवर्द्धिनी कुमारी कुलवर्धिनी । कन्यका काम्यदा करुणा कन्यकापरमेश्वरी ॥ ३॥ विचित्ररूपा बाला च विशेषफलदायिनी । सत्यकीर्तिः सत्यवती सर्वावयवशोभिनी ॥ ४॥ दृढचित्तमहामूर्तिः ज्ञानाग्निकुण्डनिवासिनी । त्रिवर्णनिलया चैव वैश्यवंशाब्धिचन्द्रिका ॥ ५॥ पेनुकोण्डापुरीवासा साम्राज्यसुखदायिनी । विश्वख्याता विमानस्था विरूपाक्षसहोदरी ॥ ६॥ वैवाहमण्डपस्था च महोत्सवविलासिनी । बालनगरसुप्रीता महाविभवशालिनी ॥ ०७॥ सौगन्धकुसुमप्रीता सदा सौगन्धलेपिनी । सत्यप्रमाणनिलया पद्मपाणी क्षमावती ॥ ८॥ ब्रह्मप्रतिष्ठा सुप्रीता व्यासोक्तविधिवर्धिनी । सर्वप्राणहितेरता कान्ता कमलगन्धिनी ॥ ०९॥ मल्लिकाकुसुमप्रीता कामितार्थप्रदायिनी । चित्ररूपा चित्रवेषा मुनिकारुण्यतोषिणी ॥ १०॥ चित्रकीर्तिप्रसारिणी नमिता जनपोषिणी । विचित्रमहिमा माता नारायणी निरञ्जना ॥ ११॥ गीतकानन्दकारिणी पुष्पमालाविभूषिणी । स्वर्णप्रभा पुण्यकीर्ति?स्वार्तिकालाद?कारिणी ॥ १२॥ स्वर्णकान्तिः कला कन्या सृष्टिस्थितिलयकारणा । कल्मषारण्यवह्नी च पावनी पुण्यचारिणी ॥ १३॥ वाणिज्यविद्याधर्मज्ञा भवबन्धविनाशिनी । सदा सद्धर्मभूषणी बिन्दुनादकलात्मिका ॥ १४॥ धर्मप्रदा धर्मचित्ता कला षोडशसम्युता । नायकी नगरस्था च कल्याणी लाभकारिणी ॥ १५॥ ?मृडाधारा? गुह्या चैव नानारत्नविभूषणा । कोमलाङ्गी च देविका सुगुणा शुभदायिनी ॥ १६॥ सुमुखी जाह्नवी चैव देवदुर्गा दाक्षायणी । त्रैलोक्यजननी कन्या पञ्चभूतात्मिका परा ॥ १७॥ सुभाषिणी सुवासिनी ब्रह्मविद्याप्रदायिनी । सर्वमन्त्रफलप्रदा वैश्यजनप्रपूजिता ॥ १८॥ करवीरनिवासिनी हृदयग्रन्थिभेदिनी । सद्भक्तिशालिनी माता श्रीमत्कन्याशिरोमणी ॥ १९॥ सर्वसम्मोहकारिणी ब्रह्मविष्णुशिवात्मिका । वेदशास्त्रप्रमाणा च विशालाक्षी शुभप्रदा ॥ २०॥ सौन्दर्यपीठनिलया सर्वोपद्रवनाशिनी । सौमङ्गल्यादिदेवता श्रीमन्त्रपुरवासिनी ॥ २१॥ वासवीकन्यका माता नगरेश्वरमानिता । वैश्यकुलनन्दिनी वासवी सर्वमङ्गला ॥ २२॥ फलश्रुतिः - इदं स्तोत्रं वासव्याः नाम्नामष्टोत्तरं शतम् । यः पठेत्प्रयतो नित्यं भक्तिभावेन चेतसा ॥ १॥ न शत्रुभयं तस्य सर्वत्र विजयी भवेत् । सर्वान् कामानवाप्नोति वासवाम्बा प्रसादतः ॥ २॥ ॥ इति श्रीवासवीकन्यकापरमेश्वर्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ समर्पणम् - यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरि ॥ २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरि ॥ ३॥