अक्षर आकार:

श्रीवासवीकन्यकापरमेश्वरीस्तोत्रम्

Shri Vasavi Kanyaka Parameshvari Stotram

श्रीवासवीकन्यकापरमेश्वरीस्तोत्रम्

कैलासाचलसन्निभे गिरिपुरे सौवर्णश‍ृङ्गे महत् बोधायन्मणिमण्डपे सुरुतरुप्रान्ते च सिंहासने । असीनां सकलैस्समर्चितपदां भक्तार्तिविध्वंसिनीं वन्दे वासवीकन्यकां स्मितमुखीं सर्वार्थदामम्बिकाम् ॥ १॥ नमस्ते वासवीदेवि नमस्ते विश्वपावनि । व्रतसम्बन्धकौमारि भक्तत्रात्रे नमो नमः ॥ २॥ नमस्ते भयसंहारि नमस्ते भवनाशिनि । भाग्यदे सुखदे देवि वासवी ते नमो नमः ॥ ३॥ नमस्तेऽद्भुतसन्धाने नमस्ते भद्ररूपिणि । नमस्ते पद्मपत्राक्षि सुन्दराङ्गि नमो नमः ॥ ४॥ नमस्ते विबुधानन्दे नमस्ते भक्तरञ्जनि । नमस्ते योगसंयुक्ते वाणिकन्ये नमो नमः ॥ ५॥ नमस्ते बुधसंसेव्ये नमस्ते मङ्गलप्रदे । नमस्ते शीतलापाङ्गि शङ्करि ते नमो नमः ॥ ६॥ नमस्ते च जगन्मातः नमस्ते कामदायिनि । नमस्ते भक्तनिलये वरदे ते नमो नमः ॥ ७॥ नमस्ते सिद्धसंसेव्ये नमस्ते चारुहासिनि । नमस्तेऽद्भुतकल्याणि शर्वाणि ते नमो नमः ॥ ८॥ नमस्ते भक्तसंरक्षादीक्षासम्बद्धकङ्कणे । नमस्ते सर्वकाम्यार्थे वर्धे ते च नमो नमः ॥ ९॥ देवीं प्रणम्य सद्भक्त्या सर्वकामार्थसम्पदान् । लभते नात्र सन्देहो देहान्ते मुक्तिमान् भवेत् ॥ १०॥ श्रीमाता कन्यकापरमेश्वरी देव्यै नमः । इति श्रीवासवीकन्यकापरमेश्वरीस्तोत्रं सम्पूर्णम् ।