अक्षर आकार:

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् (३)

shrI vAsavIkanyakAparameshvarIsahasranAmastotram (3)

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् (३)

ॐ शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेद्सर्वविघ्नोपशान्तये ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुस्साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥ आयुर्देहि धनं देहि विद्यां देहि महेश्वरी । समस्तमखिलां देहि देहि मे कन्यकापरमेश्वरी ॥ वन्दे मातरं अम्बिकां भगवतीं वारीरमा सेवितां कल्याणीं कमनीय कल्पलतिकां कैलासनाथप्रियाम् । वेदान्त प्रतिपाद्यमानविभवां विद्वन् मनोरञ्जनीं श्रीचक्राङ्कित पद्मपीठनिलयां श्रीराजराजेश्वरी ॥ ॐ वासव्यै च विद्महे कुसुमपुत्र्यै च धीमहि तन्नो कन्यका प्रचोदयात् ॥ ध्यानम् - सर्वसौभाग्यजननी नमोऽस्तुते । वैश्यवंशिकुलोद्भवि नमोऽस्तुते । तुलाश्रितकुलेदेवि नमोऽस्तुते । श्रीमत्कन्याशिरोमणि नमोऽस्तुते । पनुकोण्डापुरवासिनि नमोऽस्तुते । नित्यमहोत्सवविलासिनि नमोऽस्तुते । साम्राज्यसुखदायिनि नमोऽस्तुते । सर्वभक्तप्रपालिनि नमोऽस्तुते ॥ अथ श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम् । ॐ श्रीकन्यकाम्बा च श्रीकन्यकापरमेश्वरी । कन्यका वासवी देवी माता वासवकन्यका ॥ १॥ मणिद्विभात्रिनेत्री मङ्गला मङ्गलायिनी । गौतमितीरभूमिस्था महागिरिनिवासिनी ॥ २॥ सर्वमन्त्रात्मिका चैव सर्वयन्त्रातिनायिका । सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३॥ सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुसमर्चिता । नव्या दिव्या च सेव्या च भव्या सव्या स्तव्यया ॥ ४॥ चित्रकण्ठमदच्छेत्री चित्रलीलामहीशुभा । वेदातीता वराश्रीता विशालाक्षी शुभप्रदा ॥ ५॥ शम्भुश्रेष्ठी सुधाभूता विश्वविश्वाम्भरावनी । कन्या विश्वमयी पुण्या अगण्यारूपसुन्दरी ॥ ६॥ सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलानघा । सत्या सत्यस्वरूपा च सत्यासत्यस्वरूपिणी ॥ ७॥ चराचरमयी चैव योगनिद्रा सयोगिनी । नित्यधर्मा निष्कला च नित्यधर्मपरायणा ॥ ८॥ कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा । कुसुमाम्बाकुमारी च विरूपाक्षसहोदरी ॥ ९॥ कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी । सर्मदा सर्मवर्माङ्गी निर्मला निस्तुलप्रभा ॥ १०॥ इन्दीवरसमानाची(क्षी?) इन्दीम्प्रथमालका । कृपलिन्ता कृपावर्तिनिर्मणिनूपुरमण्डिता ॥ ११॥ त्रिमूर्तिपदवीदात्री त्रिजगत्रक्षणकादरा । सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२॥ मणिकाञ्चनमञ्जीरा अरुणाङ्घ्रिसरोरुहा । शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३॥ विष्णुवर्धनसम्मोहकारिणी पापवारिणी । सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४॥ आत्मगौरवसौजन्यबोधिनी मानदायिनी । मानुषरक्षाकरी भुक्तिमुक्तिदात्री शिवप्रदा ॥ १५॥ निस्समा निराधिका चैव योगमाया ह्यनुत्तमा । महामाया महाशक्तिर्हरिवर्गापहारिणी ॥ १६॥ भानुकोटिसहस्राभा मल्लिचम्पकगन्धिका । रत्नकाञ्चनकोटीरचन्द्रकण्ठयुदालका ॥ १७॥ चन्द्रबिम्बसमास्याङ्गा मृगनापि विशेषका । रागस्वरूपा पाषाद्या अग्निपूज्या चतुर्भुजा ॥ १८॥ नासचाम्पेयपुष्पा च नासामौक्तिकसूज्ज्वला । गुरुविन्दकपोला च इन्दुरोचिस्मिताञ्चिता ॥ १९॥ वीणा निश्वनसल्लाभा अग्निसुत्तां शुकाञ्चिता । गूढकुल्पा जगन्माया मणिसिंहासनस्थिता ॥ २०॥ अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता । चित्शक्तिचेतनाकारा मनोवाचामगोचरा ॥ २१॥ चतुर्दशविद्यारूपा चतुर्दशकलामयी । महाचतुष्षष्टिकोटियोगिनी गणसेविता ॥ २२॥ चिन्मयी परमानन्दा विज्ञानगणरूपिणी । ध्यानरूपा ध्येयाकारा धर्माधर्मविदायिनी ॥ २३॥ चारुरूपा चारुहासा चारुचन्द्रकलाधरा । चराचरजगन्नेत्री चक्रराजनिकेतना ॥ २४॥ ब्रह्मादिकसृष्टिकर्त्री गोप्त्री तेजस्वरूपिणी । भानुमण्डलमध्यस्था भगवती सदाशिवा ॥ २५॥ आब्रह्मकोटिजननी पुरुषार्थप्रदाम्बिका । आदिमध्यान्तरहिता हरिर्ब्रह्मेश्वरार्चिता ॥ २६॥ नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी । राजराजार्चिता रम्या रञ्चनी मुनिरञ्चिनी ॥ २७॥ कल्याणी लोकवरदा करुणारसमञ्जुला । वरदा वामनयना महाराज्ञी निरीश्वरी ॥ २८॥ रक्षाकरी राक्षसघ्नी तुष्टराजामदापहा । विधात्री वेदजननी रागचन्द्रसमानना ॥ २९॥ तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तन्त्रिका । शास्त्ररूपा शास्त्रधारा सर्वशास्त्रस्वरूपिणी ॥ ३०॥ रागभाषा मनश्चाभा पञ्चभूतमयी तथा । पञ्चतन्मात्रसायका क्रोधाकारा कुशाञ्चिता ॥ ३१॥ निजकान्तिपराचाण्डमण्डला अखण्डलार्चिता । कदम्बमयताटङ्का पद्मचाम्पेयकन्दिला ॥ ३२॥ सर्वविद्याङ्कुराशङ्क्यदन्तपङ्क्तीत्वयाञ्चिता । सरसल्लाभमाधुर्यजितवाणीविपञ्चिका ॥ ३३॥ क्रैवेयमणिचिन्ताककूर्मपृष्ठपदत्वया । नखकान्तिपरिच्छिन्ना समत्रावाततमोगुणा ॥ ३४॥ मणिकिङ्किणिका दिव्यतृष्णा दामभूषिता । रम्भास्तम्भमनोज्ञाती मनोज्ञारुत्याञ्चिता ॥ ३५॥ पदशोभा जिताम्भोजा महागिरिपुरीश्वरी । देवरत्नगृहान्तस्था सर्वब्रह्मासमस्थिता ॥ ३६॥ महापद्मवनस्थाना कदम्बवनवासिनी । निजांषभागसरोल्लसी लक्ष्मी गौरी सरस्वती ॥ ३७॥ मञ्जुकुञ्जनमणिमञ्जिरा अलङ्कृतपदाम्बुजा । हंसिका मन्दगमना महासौदर्यवारधी ॥ ३८॥ अनवद्यारुणकन्या च अकन्या गुणतूरगा । सम्पद्दात्रा विश्वनेयौकदेवव्रातासुसेविता ॥ ३९॥ गेयचक्ररथारूढा मन्त्रिन्यम्बा समर्चिता । कामदा अनवत्याङ्गी देवर्षिस्तुतवैभवा ॥ ४०॥ विघ्न्यन्त्रसमूभेत्री करोत्यनैकमादवा । सङ्कल्पमात्रनिर्धूता विष्णुवर्धनवैभवा ॥ ४१॥ मूर्तित्रया सदासेव्या समयस्था निरामया । मूलाधारभवाब्रह्मग्रन्थिसम्भेदिनी परा ॥ ४२॥ मणिपूरान्तरावासा विष्णुग्रन्थिविभेदिनी । अज्ञाचक्रागतामाया रुद्रग्रन्थिविमोक्षदा ॥ ४३॥ सहस्रारसमारूढा सुधासारप्रवर्षिणी । दशत्रेकासमाभासा षट्चक्रोपरिवासिनी ॥ ४४॥ भक्तिवस्या भक्तिगम्या भक्तरक्षणकादरा । भक्तिप्रिया भद्रमूर्ती भक्तसन्तोषदायिनी ॥ ४५॥ सर्वदाकुण्डलिन्यम्बा सारदेव्या च शर्मदा । साध्वी श्रीकरीयुतारा च श्रीकरी शम्भुमोदिता ॥ ४६॥ शरच्चन्द्रमुखी शिष्टा निराकारा निराकुला । निर्लेपा निस्तुला चैव निरवद्या निरन्तरा ॥ ४७॥ निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरी । नीरागा रागमदना निर्मदा मदनाशिनी ॥ ४८॥ निर्ममा समया चान्य अनन्या जगदीश्वरी । नीरोगा निरूपाधिश्च निरानन्दा निराष्रया ॥ ४९॥ नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा । निर्व्याधी च व्याधिमदना निष्क्रीया निरुपप्लवा ॥ ५०॥ निरहङ्कारा च निश्चिन्ता निर्मोहा मोहनाशिनी । निर्पादा ममताहन्त्री निष्पापा पापानाशिनी ॥ ५१॥ अभेदा च साक्षिरूपा निर्भेदा भेदनाशिनी । निर्नाशा नाशमथनी निष्पापापापहारिणी ॥ ५२॥ नीलवेणी निरालम्बा निरपाया भवापहा । निःसन्देहा संशयज्ञी निर्लोपा लोपहारिणी ॥ ५३॥ शुकप्रदा दुष्टदूरा निर्विकल्पा निरद्यया । सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता ॥ ५४॥ सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वत्वस्वरूपिणी ॥ ५५॥ महामाया महाशक्तिः महासत्वा महाबला । महावीर्या महाबुद्धिर्महेश्वर्यमहागतिः ॥ ५६॥ मनोन्मणिमहादेवी महापातकनाशिनी । महापूज्या महासिद्धिः महायोगीश्वरेश्वरी ॥ ५७॥ महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महायोगसमर्चिता ॥ ५८॥ प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा । सुचिस्वाहा च धन्या च स्वधा सुधा हिरण्मयी ॥ ५९॥ मान्या श्रद्धा विभूतिश्च ब्रह्मविष्णुशिवात्मिका । दीप्ता कान्ता च कामाक्षी नित्यपुष्टा विभावरी ॥ ६०॥ अनुग्रहप्रदा रामा अनका लोकवल्लभा । अमृता च शोकमूर्तिर्लोकदुःखविनाशिनी ॥ ६१॥ करुणाधर्मनिलया पद्मिनी पद्मकन्दिनी । ह्लादजननी पुष्टा पद्ममालाधराद्भुता ॥ ६२॥ पद्माक्षी पद्ममुखी च लोकमातेन्दुशीतला । सुप्रसन्ना पुण्यकन्ता प्रसादापि मुखिप्रभा ॥ ६३॥ अर्धचन्द्रसूडाला च चारा वैश्यसहोदरी । वैश्यसौख्यप्रदातुष्टिः शिवा दारिद्र्यनाशिनी ॥ ६४॥ शिवादात्री च विमला स्वामिनी प्रीतिपुष्कला । आर्याव्यामासती सौम्या श्रीदा मङ्गलदायिनी ॥ ६५॥ भक्तकेहपरानन्दा सिद्धिरूपा वसुप्रदा । भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी ॥ ६६॥ त्रिकालज्ञोऽरुसम्पन्ना सर्वकालस्वरूपिणी । दारिद्र्यध्वंसिनी कान्ती सर्वोऽभद्रनिवारिणी ॥ ६७॥ अन्नदा अन्नदात्री च अच्युतानन्दकारिणी । अनन्ताच्युता व्युप्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ६८॥ शारदाम्भोज प्रत्यक्षी शरच्चन्द्ररुचिस्थिता । जया जयापकाशा अवकाशस्वरूपिणी ॥ ६९॥ आकाशमयपद्मस्था अनाद्या सत्यो निजा । अपलां चण्डिका अगाधा आत्मज्ञा च आत्मगोचरा ॥ ७०॥ आद्यानद्यादिदेवी च आदित्याचयभास्वरा । कर्तस्वरमनोज्ञाङ्गी कालकण्ठनिभास्वरा ॥ ७१॥ आत्मनो आत्मदयिता आधाराचात्मरूपिणी । आनीशाकाष्यभैशानी ईश्वरैश्वर्यदायिनी ॥ ७२॥ इन्द्रसूरिन्दुमाता च इन्द्रिया इन्दुमण्डिता । इन्दुबिम्बसमाश्रिया इन्द्रियाणां वशङ्करी ॥ ७३॥ एका चैक वीरा च एकाकारैकवैभवा । एकत्रयसुपूज्या च एकनूरेकदायिनी ॥ ७४॥ वर्णात्मा वर्णनिलया षोडषस्वररूपिणी । कन्या कृत्वा महारात्रीर्मोहरात्री सुलोचना ॥ ७५॥ कमनीया कलाधारा कामधू वर्णमालिनी । काश्मीरत्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७६॥ माणिक्यभास्वलङ्कारा कणगा कणगप्रदा । कम्बूग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७७॥ कालस्था च निमेषा च कालदात्री कलावती । कालज्ञा कालमाता च कालवेत्री कलावनी ॥ ७८॥ कालदा कालहा कीर्तिः कीर्तिस्था कीर्तिवर्धिनी । कीर्तिज्ञा कीर्तितगुणा केशवानन्दकारिणी ॥ ७९॥ कुमारी कुमुदाभा च कर्मदा कर्मभञ्जनी । कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा ॥ ८०॥ कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी । कञ्जस्था कञ्जवदना कूटस्थोरुगिरीश्वरी ॥ ८१॥ कुण्डचुस्था च कौवेरी कलिकल्मषनाशिनी । काष्यपी कामरूपा च कञ्जकञ्जल्कचर्चिता ॥ ८२॥ कञ्हनध्वन्त्व नेत्री च खेसरी कट्कयुक्करी । सिद्धज्ञा सिद्धितपदा चिन्तस्था चिन्तस्वरूपिणी ॥ ८३॥ चञ्चकाभमनोयाङ्गी चारुचम्पकमालिनी । चण्डी च चण्डरूपा च चैतन्यकणगेहिनी ॥ ८४॥ चिदानन्दा चिदाहातारा चिदाकारा चिदालया । चपलाम्बाङ्गलतिका चन्द्रकोटिशुभाकरा ॥ ८५॥ चिन्तामणिगुणाधारा चिन्तामणिविभूषिता । भक्तचिन्तामणिलता चिन्तामणिसुमन्तिरा ॥ ८६॥ चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना । चक्रदा चक्रधारी च चारुचामरविजिता ॥ ८७॥ भक्तानां छत्ररूपा च छत्रच्छायाकृतालया । जगजीवा जगद्दात्री जगदानन्दकारिणी ॥ ८८॥ जननी च यज्ञरता जयन्ती जपयज्ञपरायणा । यज्ञदा यज्ञफलदा यज्ञस्थापकृतालया ॥ ८९॥ यज्ञभोत्री यज्ञरूपा यज्ञविघ्नविनाशिनी । कर्मयोगा कर्मरुपा कर्मविघ्नविनाशिनी ॥ ९०॥ कर्मदा कर्मफलदा कर्मस्थानकृतालया । कालुश्या भेदसारिद्रा सर्वकर्मसमञ्चिता ॥ ९१॥ जयस्था जयदा जैत्री जीविता जयकारिणी । यशोदायकसाम्राज्यनी यशोदानन्दकारिणी ॥ ९२॥ ज्वलिनी ज्वालिनी ज्वाला ज्वलत्भावगसन्निभा । ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया ॥ ९३॥ जन्मदा जन्महा जन्मा जन्मपूर्जन्मरञ्जिनी । जम्बूनाथसमानङ्गी जम्बूनाथविभूषणा ॥ ९४॥ ज्ञातिता जातिता जाती ज्ञानदा ज्ञाऱ्नगोचरा । ज्ञानहा ज्ञानरूपा च ज्ञानविज्ञानशालिनी ॥ ९५॥ जपापुष्पसमानोष्ट्या जपाकुसुमशोभिता । जिनजैत्री जिनातारा जिन्माता जिनेश्वरी ॥ ९६॥ तीर्थङ्करी निराधारा अमलाम्बरधारिणी । शम्भुकोटिदुराधर्शा विष्णुवर्धनमर्दिनी ॥ ९७॥ समुद्रकोटिगम्भीरा वायुकोटिमहाबला । सूर्यकोटिप्रतीकासा यमकोटिपराक्रमा ॥ ९८॥ कामधुक्कोटिफलदा चक्रकोटिसुराज्युता । रतिकोटिसुलावण्या पद्मकोटिनिभानना ॥ ९९॥ पृथ्वीकोटिजनाधारा अग्निकोटिभयङ्करी । ईशनादी सत्शक्तिर्धनदौघधनप्रदा ॥ १००॥ अणिमामहिमाप्राप्तिर्गरिमालकिमा तथा । प्रकाम्यातावशकरी ईशिका सिद्धिदा तथा ॥ १०१॥ महिमादिगुणैर्युक्ता अणिमात्यष्टसिद्धिदा । यवनङ्कन् जनादीना अजरा च जरापहा ॥ १०२॥ धारिणी धारकाकारा त्रिगुणा तुलसीनदा । त्रिविद्या च त्रयी त्रिग्मी तुरिया त्रिगुणेश्वरी ॥ १०३॥ त्रिविधात्री दशाराध्या त्रिमूर्तिर्जननीत्वरा । त्रिवर्णा च त्रैलोक्या च त्रित्वा च त्रैलोक्यधारिणी ॥ १०४॥ त्रिमूर्तिश्च त्रिजननी त्रिपूस्तारा तपस्विनी । तरुणी च तपोनिष्टा तप्तकाञ्चनसन्न्निभा ॥ १०५॥ तरुणा त्रिवेशानी तपसी तररूपिणी । तरुणार्कप्रतिकाश तापघ्नी च तमोपहा ॥ १०६॥ तार्तिका तर्कविद्या च त्रैलोक्यव्यापिनीश्वरी । त्रिपुष्करा त्रिकालाज्ञा तापत्रयविनाशिनी ॥ १०७॥ गुणाढ्या च गुणातीता तपस्सिद्धिप्रदायिनी । कारिका तीर्थरूपा च तीर्थ तीर्थकरी तथा ॥ १०८॥ दारिद्र्यदुःखनाशिनी अदीना दीनवत्सला । दीननाथप्रिया दीर्घा दयापूर्णा दयात्मिका ॥ १०९॥ देवदानवसम्पूज्या देवानां मोदकारिणी । देवसू दक्षिणा दक्षा देवी दुर्गतिनाशिनी ॥ ११०॥ आनन्दोधती मध्यस्था अघोरा अट्टहासिनी । घोराग्निताकदमनी दुःखदुःस्वप्ननिवारिणी ॥ १११॥ श्रीमती श्रीमयी श्रेषा श्रीकरी श्रीविभावनी । श्रीदा श्रीशा श्रीनिवासा श्रीयुता श्रीमतिकती ॥ ११२॥ धनदा दामिनी दान्ता धर्मदा धनशालिनी । दाडिमीबीजरदना धनकारा धनञ्जया ॥ ११३॥ धरिणी धारिणी धैर्या धरा दात्री च धैर्यता । दया दोक्त्री धर्मिणी च दमनी च दुरासदा ॥ ११४॥ नानारत्नविचित्राङ्गी नानाभरणमण्डिता । नीरजास्या निरादङ्का नवलावण्यसुन्दरी ॥ ११५॥ प्रमिता प्राज्ञा च पूर्वा पावनपावनी । सर्वप्रिया सर्ववरदा पावना पापनाशिनी ॥ ११६॥ वासव्यंशपाका च परञ्ज्योतिस्वरूपिणी । परेशी पारगापारा परासिद्धिर्परागतिः ॥ ११७॥ पिता माता च पशुता पशुभागविनाशिनी । पद्मगन्धा च पद्माक्षी पद्मकेशरमन्दिरा ॥ ११८॥ परब्रह्मस्वरूपा च परब्रह्मनिवासिनी । परमानन्दमुदिता पूर्णपीठनिवासिनी ॥ ११९॥ परमेशी च पृथ्वी च परचक्रविनाशिनी । परापरा पराविद्या परमानन्ददायिनी ॥ १२०॥ वाग्रूपा वाङ्मयी वाक्दा वाज्ञेत्री वाक्विशारदाः । धीरूपा धीमयी धीरा धीधात्री धीविशारदा ॥ १२१॥ वृन्दारका वृन्दवन्द्या वैश्यवृन्दसहोदरी । परमश्री व्रातविनुता पिनाकी परिकीर्तिता ॥ १२२॥ फणिभूषा फाला पूज्या प्राणरूपा प्रियंवदा । भवाराद्या भवेशी च भवा चैव भवेश्वरी ॥ १२३॥ भवमाता भवागम्या भवखण्डकनाशिनी । भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२४॥ भगवती भूतदात्री भूतेशी भूतरूपिणी । भूतस्था भूतमाता च भूतज्ञी भवमोचिनी ॥ १२५॥ भक्तशोकतमोहर्त्री भवपाशविनाशिनी । भवभारविनाशिनी भूगोपचारकुशला भिसादात्री च भूचरी ॥ १२६॥ भीतिहा च भक्तिरम्या भक्तानामिष्टदायिनी । भक्तानुकम्पिनी भीमा भक्तानामार्त्तिनाशिनी ॥ १२७॥ भास्वरा भास्वती भीतिः भास्वदुत्तानशालिनी । भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १२८॥ महाजिह्वा महादंष्ट्रा मणिपुरनिवासिनी । माञसा मानदाभीमान्या मनश्चक्षूरगोचरा ॥ १२९॥ महाकुण्डलिनी मधुरा महाविघ्नविनाशिनी । महामोहान्धकाराज्ञी महामोक्षप्रदायिनी ॥ १३०॥ महाशक्तिर्महावीर्या महासुरविमर्दिनी । शक्तिर्मेधा च मतिदा महावैभववर्धिनी ॥ १३१॥ महापातकसंहर्त्री मुक्तिकाम्यार्थसिद्धिदा । महाव्रता महामूर्ती महाभयविनाशिनी ॥ १३२॥ महानीया माननीया मत्तमातङ्गकामिनी । मुक्तहारलतोपेता महाचोरभयापहा ॥ १३३॥ महाघोरा मन्त्रमाता मकराकृतिकुण्टला । मालिनी मानिनी माध्वी महासुष्मा महाप्रभा ॥ १३४॥ महाचिन्त्य महारूपा महामन्त्र महोसती । मणिमण्डपमध्यस्था मणिमालाविराजिता ॥ १३५॥ मनोरमा रमामाता राज्ञी राजीवलोचना । विद्यानी विष्णुरूपा च विशालनयनोत्पला ॥ १३६॥ वीरेश्वरी च वरदा वीरसू वीरनन्दिनी । विश्वभू वीरविद्या च विष्णुमायाविमोहिनी ॥ १३७॥ विश्वेश्वरी विशालाक्षी विख्याता विलचत्कशा । ब्रह्मेशी च ब्रह्मविद्या ब्रह्माणी ब्रह्मरूपिणी ॥ १३८॥ विश्वा च विश्ववन्द्या च विश्वशक्तिर्विचक्षणा । वीरा च बिन्दुस्था चैव विश्वभागविमोचिनी ॥ १३९॥ शिशुसुप्रिया वैद्यविद्या शीलाशीलप्रदायिनी । क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४०॥ कुसुमश्रेष्ठी सत्पुत्री कुसुमाम्बा कुमारिका । भालनगर सम्पूज्या विरूपाक्षसहोदरी ॥ १४१॥ सर्वसिद्धेश्वरआराध्या सर्वेश्वरफलप्रदा । सर्वदुष्टप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४२॥ विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी । विचित्रिणी विष्णुपूज्या विश्वमायाविलासिनी ॥ १४३॥ वैश्यधात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी । वैश्यभोजनसन्तुष्टा विष्णुरूपविनोदिनी ॥ १४४॥ सङ्कल्परूपिणी सन्ध्या सत्यज्ञानप्रबोधिनी । विहाररहिता वेद्या विजया विशालाक्षिणी ॥ १४५॥ तत्त्वज्ञा च तत्कारा च तत्त्वार्थस्वरूपिणी । तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १४६॥ विन्ध्यवासिन्यर्चिता च नगरेश्वरमानिता । कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १४७॥ वन्दिता वररूपा च वरा च वरवर्धिनी । वारिताकारसुकशा वैश्यलोकवशङ्करी ॥ १४८॥ सत्कीर्तीगुणसम्पन्ना तद्यवाचा तपोबला । तरुणादित्यसङ्काशा तपोलोकनिवासिनी ॥ १४९॥ तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी । तत्त्वा तन्त्रविदानज्ञा तन्त्रस्था तन्त्रसाक्षिणी ॥ १५०॥ सर्वसम्पत्तिजननी सत्पदा सकलेष्टदा । अनुमाना सामदेवी समर्हा सकलस्तुता ॥ १५१॥ सनकादिमुनिध्येया सर्वशास्त्रार्थगोचरा । सदाशिवासमुत्तीर्णा सहस्रदलपद्मगा ॥ १५२॥ सर्ववेदान्तनिलया समया सर्वतोमुखी । सात्त्विका सम्भ्रमा चैव सर्वचैतन्यरूपिणी ॥ १५३॥ सर्वोपातविनिर्मुक्ता सच्चिदानन्दरूपिणी । सर्वविश्वाम्भरा वन्द्या सर्वज्ञानविशारदा ॥ १५४॥ विद्या विद्याकरिविद्या विद्याविद्यप्रबोधिनी । विमला विभवा वेद्या विश्वस्था विविधोज्ज्वलाः ॥ १५५॥ वीरहद्याप्रशमनी विनम्रजनपालिनी । वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका ॥ १५६॥ विश्वाम्बरासमाराध्या विक्रमा विश्वमङ्गला । विनायकी विनोदस्था विश्वविभ्रमकारिणी ॥ १५७॥ विवाहरहिताऽऽवेला वीरगोष्ठिविवर्धिनी । तुम्बुरातिस्तुतिप्रीता महागिरिपुरीश्वरी ॥ १५८॥ दुष्टा च दुष्टी जननी दुष्टलोकविनाशिनी । तुलाधारा तुलमध्या तुलस्था तुल्यदूरगा ॥ १५९॥ धुरीयत्वा सुगम्भीरा तुरियारावस्वरूपिणी । तुरियविद्या नृत्यतुष्टा तुरियविद्यार्थवादिनी ॥ १६०॥ तुरियशास्त्रतत्त्वज्ञा तुरियवादविनोदिनी । तुरियनादान्तनिलया तुरियानन्दस्वरूपिणी ॥ १६१॥ तुरियभक्तजननी तुरियमार्गप्रदर्शिनी । वरेण्यवरिष्ठा चैव वेदशास्त्रप्रदर्शिनी ॥ १६२॥ विकल्पसमनी वाणी वाञ्छितार्थफलप्रदा । वन्दिनी वादिनी वश्या वयोवस्थातिविवर्जिता ॥ १६३॥ वसिष्ठवामदेवादिवन्द्या वन्द्यस्वरूपिणी । वसुप्रदा वासुदेवी वषट्कारी वसुन्धरा ॥ १६४॥ वासवार्चितपादश्रीर्वासवारिविनाशिनी । वशिनी वाक्यहस्ता च वाहीस्वरर्यर्चितप्रभा ॥ १६५॥ रविमण्डलमध्यस्था रमणी रविलोचना । रम्भातिशायिलावण्या रङ्गमण्डलमध्यगा ॥ १६६॥ वर्णिता वैश्यजननी वर्ण्यापर्वेन्दुमध्यगा । राविणी राकिणी रञ्ज्या राजराजेश्वरार्चिता ॥ १६७॥ राजस्वती राजनीतीर्वैश्यनीतीर्वरप्रदा । अपाङ्गा भङ्गभङ्गा च भङ्गदूरात्वभङ्गुरा ॥ १६८॥ राघवार्चितपादश्री रत्नद्वीपनिवासिनी । रत्नप्रकारमध्यस्था रत्नमण्डपमध्यगा ॥ १६९॥ रत्नाभिषेकसन्तुष्टा रत्नाङ्गी रत्नदायिनी । नीवारसुखवद्धन्वी पीतापा स्वत्वनूपमा ॥ १७०॥ नीलतो यतमध्यस्थात् विद्युल्लेखेवभास्वरा । कवयिन्त्री निर्जरी च विश्वार्चीर्विश्वतोमुखी ॥ १७१॥ सर्वानन्दमयी नव्या सर्वरक्षास्वरूपिणी । सर्वसिद्धेश्वरैर्वन्द्या सर्वमङ्गलमङ्गला ॥ १७२॥ नित्योत्सवा नित्यपूज्या नित्यानन्दस्वरूपिणी । निर्गुणास्था निष्चिन्ता च नित्यमङ्गलरूपिणी ॥ १७३॥ निरोहा निमिषो नारी निखिलागमवेदिनी । निस्संशया निर्लोपा च नित्यकर्मफलप्रदा ॥ १७४॥ सर्वमङ्गलमाङ्गल्या भक्तसर्वार्थसाधका । वैश्यापच्चमुहर्त्री च वैश्यसम्पत्प्रदायिनी ॥ १७५॥ महाशैलपुरी गेहा सर्ववैश्यशुभप्रदा । त्वयत्तशतगोत्रार्या वैश्यसौख्यप्रद्यायिनी ॥ १७६॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तुते ॥ इति श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रं सम्पूर्णं ।