अक्षर आकार:

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम्

Shri Vasavi Kanyaka Parameshwari Sahasranama Stotram

श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रम्

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ न्यासः । अस्य श्रीवासवीकन्यकापरमेश्वरीसहस्रनामस्तोत्रमहामन्त्रस्य, समाधि ऋषिः, श्रीवासवीकन्यकापरमेश्वरी देवता, अनुष्टुप्छन्दः, वं बीजम्, स्वाहा शक्तिः, सौभाग्यमिति कीलकम्, श्रीवासवीकन्यकापरमेश्वरी प्रसादसिद्धयर्थे जपे विनियोगः ॥ ध्यानम् । वन्दे सर्वसुमङ्गलरूपिणीं वन्दे सौभाग्यदायिनीम् । वन्दे करुणामयसुन्दरीं वन्दे कन्यकापरमेश्वरीम् ॥ वन्दे भक्तरक्षणकारिणीं वासवीं वन्दे श्रीमन्त्रपुरवासिनीम् । वन्दे नित्यानन्दस्वरूपिणीं वन्दे पेनुकोण्डापुरवासिनीम् ॥ अथ सहस्रनामस्तोत्रम् । ॐ श्रीकन्यका कन्यकाम्बा कन्यकापरमेश्वरी । कन्यकावासवीदेवी माता वासवकन्यका ॥ १॥ मणिद्वीपादिनेत्रा च मङ्गला मङ्गलप्रदा । गौतमीतीरभूमिस्था महागिरिनिवासिनी ॥ २॥ सर्वमन्त्रात्मिका चैव सर्वयन्त्रादिनायिका । सर्वतन्त्रमयी भद्रा सर्वमन्त्रार्थरूपिणी ॥ ३॥ सर्वज्ञा सर्वगा सर्वा ब्रह्मविष्णुशिवार्चिता । नव्या दिव्या च सेव्या च भव्या सव्या सतव्यया ॥ ४॥ चित्रघण्टमदच्छेद्री चित्रलीलामयी शुभा । वेदातीता वराश्रीदा विशालाक्षी शुभप्रदा ॥ ५॥ शुभश्रेष्ठिसुता ईषा विश्वा विश्वम्भरावनी । कन्या विश्वमयी पुण्याऽगण्या च रूपसुन्दरी ॥ ६॥ सगुणा निर्गुणा चैव निर्द्वन्द्वा निर्मलाऽनघा । सत्या सत्यस्वरूपा च सत्या सत्यस्वरूपिणी ॥ ७॥ चराचरमयी चैव योगनिद्रा सुयोगिनी । नित्यधर्मा निष्कलङ्का नित्यधर्मपरायणा ॥ ८॥ कुसुमश्रेष्ठिपुत्री च कुसुमालयभूषणा । कुसुमाम्बा कुमारी च विरूपाक्षसहोदरी ॥ ९॥ कर्ममयी कर्महन्त्री कर्मबन्धविमोचनी । शर्मदा बलदा निष्ठा निर्मला निस्तुलप्रभा ॥ १०॥ इन्दीवरसमानाक्षी इन्द्रियाणां वशङ्करी । कृपासिन्दुः कृपावार्ता मणिनूपुरमण्डिता ॥ ११॥ त्रिमूर्तिपदवीधात्री जगद्रक्षणकारिणी । सर्वभद्रस्वरूपा च सर्वभद्रप्रदायिनी ॥ १२॥ मणिकाञ्चनमञ्जीरा ह्यरुणाङ्ग्रिसरोरुहा । शून्यमध्या सर्वमान्या धन्याऽनन्या समाद्भुता ॥ १३॥ विष्णुवर्दनसम्मोहकारिणी पापहारिणी । सर्वसम्पत्करी सर्वरोगशोकनिवारिणी ॥ १४॥ आत्मगौरवसौजन्यबोधिनी मानदायिनी । मानरक्षाकरीमाता भुक्तिमुक्तिप्रदायिनी ॥ १५॥ शिवप्रदा निस्समा च निरतिका ह्यनुत्तमा । योगमाया महामाया महाशक्तिस्वरूपिणी ॥ १६॥ अरिवर्गापहारिणी भानुकोटिसमप्रभा । मल्लीचम्पकगन्धाढ्या रत्नकाञ्चनभूषिता ॥ १७॥ चन्द्रचूडा शिवमयी चन्द्रबिम्बसमानना । रागरूपकपाशाढ्या मृगनाभिविशेषका ॥ १८॥ अग्निपूज्या चतुर्भुजा नासाचाम्पेयपुष्पका । नासामौक्तिकसुज्वाला कुरुविन्दकपोलका ॥ १९॥ इन्दुरोचिस्मिता वीणा वीणास्वरनिवासिनी । अग्निशुद्धा सुकाञ्चिता गूढगुल्फा जगन्मयी ॥ २०॥ मणिसिम्हासनस्थिता करुणामयसुन्दरी । अप्रमेया स्वप्रकाशा शिष्टेष्टा शिष्टपूजिता ॥ २१॥ चिच्छक्तिः चेतनाकारा मनोवाचामगोचरा । चतुर्दशविद्यारूपा चतुर्दशकलामयी ॥ २२॥ महाचतुष्षष्टिकोटियोगिनीगणसेविता । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ २३॥ ध्यानरूपा ध्येयरूपा धर्माधर्मविवर्जिता । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ २४॥ चराचरजगन्नेत्रा चक्रराजनिकेतना । ब्रह्मादिसृष्टिकर्ती च गोप्त्री तेजस्वरूपिणी ॥ २५॥ भानुमण्डलमध्यस्था भगवतीसदाशिवा । ब्रह्माण्डकोटिजननी पुरुषार्थप्रदाम्बिका ॥ २६॥ आदिमध्यान्तरहिता हरिब्रह्मेश्वरार्चिता । नारायणी नादरूपा सम्पूर्णा भुवनेश्वरी ॥ २७॥ राजराजार्चिता रम्या रञ्जनी मुनिरञ्जनी । कल्याणी लोकवरदा करुणारसमञ्जुला ॥ २८॥ वरदा वामनयना महाराज्ञी निरीश्वरी । रक्षाकरी राक्षसघ्नी दुष्टराजमदापहा ॥ २९॥ विधात्री वेदजननी राका चन्द्रसमानना । तन्त्ररूपा तन्त्रिणी च तन्त्रवेद्या तपस्विनी ॥ ३०॥ शास्त्ररूपा शास्त्राधारा सर्वशास्त्रस्वरूपिणी । रागपाशा मनश्श्याभा पञ्चभूतमयी तथा ॥ ३१॥ पञ्चतन्मात्रसायका क्रोधाकाराङ्कुशाञ्चिता । निजकान्तिपराजण्डा मण्डला भानुमण्डला ॥ ३२॥ कदम्बमयताटङ्का चाम्पेयकुसुमप्रिया । सर्वविद्याङ्कुराकारा दन्तपङ्क्तिद्वयाञ्चिता ॥ ३३॥ सरसालापमाधुरी जितवाणी विपञ्चिका । ग्रैवेयमणिभूषिता कूर्मपृष्ठपदद्वया ॥ ३४॥ नखकान्तिपरिच्छिन्ना कामिनी कामरूपिणी । मणिकिङ्किणिका दिव्यरचना दामभूषिता ॥ ३५॥ रम्भा स्तम्भमनोज्ञा च मार्दवोरुद्वयान्विता । पदशोभाजिताम्बोजा महागिरिपुरीश्वरी ॥ ३६॥ देवरत्नगृहान्तस्था सर्वज्ञा ज्ञानमोचना । महापद्मासनस्था च कदम्बवनवासिनी ॥ ३७॥ निजांशभोगसरोल्लसितलक्ष्मीगौरीसरस्वती । मञ्जुकुञ्जन्मणिमञ्जीराऽलङ्कृतपदाम्भुजा ॥ ३८॥ हंसिका मन्दगमना महासौन्दर्यवारदी । अनवद्याऽरुणा गण्याऽगण्या दुर्गुणदूरका ॥ ३९॥ सम्पत्दात्री सौख्यदात्री करुणामयसुन्दरी । अश्विनिदेवसन्तुष्टा सर्वदेवसुसेविता ॥ ४०॥ गेयचक्ररथारूढा मन्त्रिण्यम्बासमर्चिता । कामदाऽनवद्याङ्गी देवर्षिस्तुतवैभवा ॥ ४१॥ विघ्नयन्त्रसमोभेदा करोत्यन्नैकमाधवा । सङ्कल्पमात्रनिर्धूता विष्णुवर्दनमर्दिनी ॥ ४२॥ मूर्तित्रयसदासेवा समयस्था निरामया । मूलाधारा भवाऽपारा ब्रह्मग्रन्थिविभेदिनी ॥ ४३॥ मणिपूरान्तरा वासा विष्णु ग्रन्थिविभेदिनी । आज्ञाचक्रगदामाया रुद्रग्रन्थिविभेदिनी ॥ ४४॥ सहस्रारसमारूढा सुधासाराभिवर्षिणी । तटिन्रेखा समापासा षट्चक्रोपरिवासिनी ॥ ४५॥ भक्तिवश्या भक्तिगम्या भक्तरक्षणकारिणी । भक्तिप्रिया भद्रमूर्तिः भक्तसन्तोषदायिनी ॥ ४६॥ सर्वदा कुण्डलिनी अम्बा शारदा शर्मदा शुभा । साध्वी श्रीकर्युदारा च धीकरी शम्भुमानिता ॥ ४७॥ शम्भु मानसिकामाता शरच्चन्द्रमुखी तथा । शिष्टा शिवा निराकारा निर्गुणाम्बा निराकुला ॥ ४८॥ निर्लेपा निस्तुलाकन्या निरवद्या निरन्तरा । निष्कारणा निष्कलङ्का नित्यबुद्धा निरीश्वरा ॥ ४९॥ नीरागा रागमथनी निर्मदा मदनाशिनी । निर्ममा सममाया च अनन्या जगदीश्वरी ॥ ५०॥ निरोगा निराबाधा च निजानन्दा निराश्रया । नित्यमुक्ता निगममा नित्यशुद्धा निरुत्तमा ॥ ५१॥ निर्व्याधा व्याधिमथना निष्क्रिया निरुपप्लवा । निश्चिन्ता निरहङ्कारा निर्मोहा मोहनाशिनी ॥ ५२॥ निर्बाधा ममताहन्त्री निष्पापा पापनाशिनी । अभेदा साक्षिरूपा च निर्भेदा भेदनाशिनी ॥ ५३॥ निर्नाशा नाशमथनी पुष्कला लोभहारिणी । नीलवेणी निरालम्बा निरपाया भयापहा ॥ ५४॥ निस्सन्देहा संशयज्ञी निर्भवा च निरञ्जिता । सुखप्रदा दुष्टदूरा निर्विकल्पा निरत्यया ॥ ५५॥ सर्वज्ञाना दुःखहन्त्री समानाधिकवर्जिता । सर्वशक्तिमयी सर्वमङ्गला सत्गतिप्रदा ॥ ५६॥ सर्वेश्वरी सर्वमयी सर्वतत्त्वस्वरूपिणी । महामाया महाशक्तिः महासत्वा महाबला ॥ ५७॥ महावीर्या महाबुद्धिः महैश्वर्या महागतिः । मनोन्मणी महादेवी महापातकनाशिनी ॥ ५८॥ महापूज्या महासिद्धिः महायोगीश्वरेश्वरी । महातन्त्रा महामन्त्रा महायन्त्रा महासना ॥ ५९॥ महायागक्रमाराध्या महायोगसमर्चिता । प्रकृतिर्विकृतिर्विद्या सर्वभूतहितप्रदा ॥ ६०॥ शुचिस्वाहा हिरण्मयी धन्या सुता स्वधा तथा । मान्या श्रद्धा विभूदिता ब्रह्मविष्णुशिवात्मिका ॥ ६१॥ दीप्ता कान्ता च कामाक्षी भाविताऽनुग्रहप्रदा । शिवप्रिया रमाऽनघा अमृताऽऽनन्दरूपिणी ॥ ६२॥ लोकदुःखविनाशिनी करुणा धर्मवर्धिनी । पद्मिनी पद्मगन्धिनी सुप्रसन्ना सुनन्दिनी ॥ ६३॥ पद्माक्षी पुण्यगन्धा च प्रसादाभिमुखीप्रभा । आह्लादजननी पुष्टा लोकमातेन्दुशीतला ॥ ६४॥ पद्ममालाधराऽत्भुता अर्धचन्द्रविभूषिणी । आर्यवैश्यसहोदरी वैश्यसौख्यप्रदायिनी ॥ ६५॥ तुष्टिः पुष्टिश्शिवारूढा दारिद्रयविनाशिनी । शिवधात्री च विमलास्वामिनी प्रीतिपुष्कला ॥ ६६॥ आर्या श्यामा सती सौम्या श्रीदा मङ्गलदायिनी । भक्तकोटिपरानन्दा सिद्धिरूपा वसुप्रदा ॥ ६७॥ भास्करी ज्ञाननिलया ललिताङ्गी यशस्विनी । ऊर्जिता च त्रिकालज्ञा सर्वकालस्वरूपिणी ॥ ६८॥ दारिद्रयनाशिनी चैव सर्वोपद्रवहारिणी । अन्नदा चान्नदात्री च अच्युदानन्दकारिणी ॥ ६९॥ अनन्ता अच्युता व्यक्ता व्यक्ताव्यक्तस्वरूपिणी । शारदम्बोजभद्राक्षी अजया भक्तवत्सला ॥ ७०॥ आशा चाश्रिता रम्या च अवकाशस्वरूपिणी । आकाशमयपद्मस्था अनाद्या च द्वयोनिजा ॥ ७१॥ अबला चागजा चैव आत्मजा चात्मगोचरा । अनाद्या चादिदेवी च आदित्यदयभास्वरा ॥ ७२॥ कार्तेश्वरमनोज्ञा च कालकण्ठनिभस्वरा । आधारा चात्मदयिता अनीशा चात्मरूपिणी ॥ ७३॥ ईशिका ईशा ईशानी ईश्वरैश्वर्यदायिनी । इन्दुसुता इन्दुमाता इन्द्रिया इन्दुमन्दिरा ॥ ७४॥ इन्दुबिम्बसमानास्या इन्द्रियाणां वशङ्करी । एका चैव एकवीरा एकाकारैकवैभवा ॥ ७५॥ लोकत्रयसुसम्पूज्या लोकत्रयप्रसूतिता । लोकमाता जगन्माता कन्यका परमेश्वरी ॥ ७६॥ वर्णात्मा वर्णनिलया षोडषाक्षररूपिणी । काली कृत्या महारात्री मोहरात्री सुलोचना ॥ ७७॥ कमनीया कलाधारा कामिनी वर्णमालिनी । काश्मीरद्रवलिप्ताङ्गी काम्या च कमलार्चिता ॥ ७८॥ माणिक्यभासालङ्कारा कनका कनकप्रदा । कम्बुग्रीवा कृपायुक्ता किशोरी च ललाटिनी ॥ ७९॥ कालस्था च निमेषा च कालदात्री कलावती । कालज्ञा कालमाता च कन्यका क्लेशनाशिनी ॥ ८०॥ कालनेत्रा कलावाणी कालदा कालविग्रहा । कीर्तिवर्धिनी कीर्तिज्ञा कीर्तिस्था कीर्तिदायिनी ॥ ८१॥ सुकीर्तिता गुणातीता केशवानन्दकारिणी । कुमारी कुमुदाबा च कर्मदा कर्मभञ्जनी ॥ ८२॥ कौमुदी कुमुदानन्दा कालाङ्गी कालभूषणा । कपर्दिनी कोमलाङ्गी कृपासिन्धुः कृपामयी ॥ ८३॥ कञ्चस्था कञ्चवदना कूटस्था कुलरूपिणी । लोकेश्वरी जगद्धात्री कुशला कुलसम्भवा ॥ ८४॥ चितज्ञा चिन्तितपदा चिन्तस्था चित्स्वरूपिणी । चम्पकापमनोज्ञा च चारु चम्पकमालिनी ॥ ८५॥ चण्डस्वरूपिणी चण्डी चैतन्यघनकेहिनी । चितानन्दा चिताधारा चिताकारा चितालया ॥ ८६॥ चबलापाङ्गलतिका चन्द्रकोटिसुभास्वरा । चिन्तामणिगुणाधारा चिन्तामणिविभूषिता ॥ ८७॥ भक्तचिन्तामणिलता चिन्तामणिसुमन्दिरा । चारुचन्दनलिप्ताङ्गी चतुरा चतुरानना ॥ ८८॥ छत्रदा छत्रदारी च चारुचामरवीजिता । भक्तानां छत्ररूपा च छत्रछाया कृतालया ॥ ८९॥ जगज्जीवा जगद्धात्री जगदानन्दकारिणी । यज्ञरता च जननी जपयज्ञपरायणा ॥ ९०॥ यज्ञदा यज्ञफलदा यज्ञस्थानकृतालया । यज्ञभोक्त्री यज्ञरूपा यज्ञविघ्नविनाशिनी ॥ ९१॥ कर्मयोगा कर्मरूपा कर्मविघ्नविनाशिनी । कर्मदा कर्मफलदा कर्मस्थानकृतालया ॥ ९२॥ अकालुष्यसुचारित्रा सर्वकर्मसमञ्चिता । जयस्था जयदा जैत्री जीविता जयकारिणी ॥ ९३॥ यशोदा यशसाम्राज्या यशोदानन्दकारिणी । ज्वलिनी ज्वालिनी ज्वाला ज्वलद्पावकसन्निभा ॥ ९४॥ ज्वालामुखी जनानन्दा जम्बूद्वीपकृतालया । जन्मदा च जन्महता जन्मनी जन्मरञ्जनी ॥ ९५॥ जननी जन्मभूः चैव वेदशास्त्रप्रदर्शिनी । जगदम्बा जनित्री च जीवकारुण्यकारिणी ॥ ९६॥ ज्ञातिदा जातिदा जातिज्ञानदा ज्ञानगोचरा । ज्ञानमयी ज्ञानरूपा ईश्वरी ज्ञानविग्रहा ॥ ९७॥ ज्ञानविज्ञानशालिनी जपापुष्पसमष्टिता । जिनजैत्री जिनाधारा जपाकुसुमशोभिता ॥ ९८॥ तीर्थङ्करी निराधारा जिनमाता जिनेश्वरी । अमलाम्बरधारिणी च विष्णुवर्दनमर्दिनी ॥ ९९॥ शम्भुकोटिदुराधर्षा समुद्रकोटिगम्भीरा । सूर्यकोटिप्रतीकाशा वायुकोटिमहाबला ॥ १००॥ यमकोटिपराक्रमा कामकोटिफलप्रदा । रतिकोटिसुलावण्या चक्रकोटिसुराज्यदा ॥ १०१॥ पृथ्विकोटिक्षमाधारा पद्मकोटिनिभानना । अग्निकोटिभयङ्करी श्रीकन्यकापरमेश्वरी ॥ १०२॥ ईशानादिकचिच्छक्तिः धनाधारा धनप्रदा । अणिमा महिमा प्राप्तिः करिमा लधिमा तथा ॥ १०३॥ प्राकाम्या वशित्वा चैव ईशित्वा सिद्धिदायिनी । महिमादिगुणैर्युक्ता अणिमाद्यष्टसिद्धिदा ॥ १०४॥ यवनाङ्गी जनादीना अजरा च जरावहा । तारिणी त्रिगुणा तारा तारिका तुलसीनता ॥ १०५॥ त्रयीविद्या त्रयीमूर्तिः त्रयज्ञा तुरीया तथा । त्रिगुणेश्वरी त्रिविदा विश्वमाता त्रपावती ॥ १०६॥ तत्त्वज्ञा त्रिदशाराद्या त्रिमूर्तिजननी तथा । त्वरा त्रिवर्णा त्रैलोक्या त्रिदिवा लोकपावनी ॥ १०७॥ त्रिमूर्ती त्रिजननी चैव त्रिभूः तारा तपस्विनी । तरुणी तापसाराध्या तपोनिष्टा तमोपहा ॥ १०८॥ तरुणा त्रिदिवेशाना तप्तकाञ्चनसन्निभा । तापसी तारारूपिणी तरुणार्कप्रदायिनी ॥ १०९॥ तापज्ञी तर्किका तर्कविद्याऽविद्यास्वरूपिणी । त्रिपुष्करा त्रिकालज्ञा त्रैलोक्यव्यापिनीश्वरी ॥ ११०॥ तापत्रयविनाशिनी तपस्सिद्धिप्रदायिनी । गुणाराध्या गुणातीता कुलीना कुलनन्दिनी ॥ १११॥ तीर्थरूपा तीर्थकरी शोकदुःखविनाशिनी । अदीना दीनवत्सला दीनानाथप्रियङ्करी ॥ ११२॥ दयात्मिका दयापूर्णा देवदानवपूजिता । दक्षिणा दक्षिणाराध्या देवानां मोदकारिणी ॥ ११३॥ दाक्षायणी देवसुता दुर्गा दुर्गतिनाशिनी । घोराग्निदाहदमनी दुःखदुःस्वप्नवारिणी ॥ ११४॥ श्रीमतिः श्रीमयी श्रेष्ठा श्रीकरी श्रीविभावरी । श्रीदा श्रीशा श्रीनिवासा परमानन्ददायिनी ॥ ११५॥ श्रीयुता श्रीमतिः माताधनदा दामिनी दया । दान्ता धर्मदा शान्ता च दाडिमीकुसुमप्रभा ॥ ११६॥ धरणी धारणी धैर्या धैर्यदा धनशालिनी । धनञ्जया धनाकारा धर्मा धात्री च धर्मिणी ॥ ११७॥ देदीप्यमाना धर्मिणी दुरावारा दुरासदा । नानारत्नविचित्राङ्गी नानाभरणमण्डिता ॥ ११८॥ नीरजास्या निरातङ्गा नवलावण्यसुन्दरी । दमना निधिता नित्या निजा निर्णयसुन्दरी ॥ ११९॥ परमा च निर्विकारा निर्वैरा निखिला तथा । प्रमदा प्रथमा प्राज्ञा सर्वपावनपावनी ॥ १२०॥ सर्वप्रिया सर्वव्रता पावना पापनाशिनी । वासव्यंशभागाऽपूर्वा परञ्ज्योतिस्वरूपिणी ॥ १२१॥ परोक्षा पारगा कन्या परिशुद्धाऽपारगा । परासिद्धिः परागतिः पशुपाशविमोचनी ॥ १२२॥ पद्मगन्धा च पद्माक्षी परब्रह्मस्वरूपिणी । पद्मकेसरमन्दिरा परब्रह्मनिवासिनी ॥ १२३॥ परमानन्दमुदिता पूर्णपीठनिवासिनी । परमेशी पृथ्वी चैव परचक्रनिवासिनी ॥ १२४॥ परावरा पराविद्या परमानन्ददायिनी । वाग्रूपा वाग्मयी वाग्दा वाग्नेत्री वाग्विशारदा ॥ १२५॥ धीरूपा धीमयी धीरा धीदात्री धीविशारदा । बृन्दारकबृन्दवन्द्या वैश्यबृन्दसहोदरी ॥ १२६॥ राजराजेश्वरार्चिता भक्तसर्वार्थसाधका । पणिभूषा बालापूजा प्राणरूपा प्रियंवदा ॥ १२७॥ भक्तिप्रिया भवाराध्या भवेशी भयनाशिनी । भवेश्वरी भद्रमुखी भवमाता भवा तथा ॥ १२८॥ भट्टारिका भवागम्या भवकण्टकनाशिनी । भवानन्दा भावनीया भूतपञ्चकवासिनी ॥ १२९॥ भगवती च भूदात्री भूतेशी भूतरूपिणी । भूतस्था भूतमाता च भूतज्ञा भवमोचनी ॥ १३०॥ भक्तशोकतमोहन्त्री भवभारविनाशिनी । भूगोपचारकुशला दात्री च भूचरी तथा ॥ १३१॥ भीतिहा भक्तिरम्या च भक्तानामिष्टदायिनी । भक्तानुकम्पिनी भीमा भक्तानामार्तिनाशिनी ॥ १३२॥ भास्वरा भास्वती भीतिः भास्वदुत्थानशालिनी । भूतिदा भूतिरूपा च भूतिका भुवनेश्वरी ॥ १३३॥ महाजिह्वा महादंष्ट्रा मणिपूरनिवासिनी । मानसी मानदा मान्या मनःचक्षुरगोचरा ॥ १३४॥ महाकुण्डलिनीमाता महाशत्रुविनाशिनी । महामोहान्तकारज्ञा महामोक्षप्रदायिनी ॥ १३५॥ महाशक्तिः महाविर्या महिषासुरमर्दिनी । मधुरा च मेधा मेध्या महावैभववर्धिनी ॥ १३६॥ महाव्रता महामूर्ता मुक्तिकाम्यार्थसिद्धिदा । महनीया माननीया महादुःखविनाशिनी ॥ १३७॥ मुक्ताहारालतोभेता मत्तमातङ्गकामिनी । महाघोरा मन्त्रमाता महाचोरभयापहा ॥ १३८॥ मालिनी च महासूक्ष्मा मकराकृतिकुण्डला । महाप्रभा महाचिन्त्या महामन्त्रमहौषधिः ॥ १३९॥ मणिमण्डलमध्यस्था मणिमालाविराजिता । मनोरमा महारूपा राज्ञी राजीवलोचना ॥ १४०॥ विद्यार्थिनी रमामाता विष्णुरूपाविनोदिनी । वीरेश्वरी च वरदा विशालनयनोत्पला ॥ १४१॥ वीरसुता वीरवन्द्या विश्वभूः वीरनन्दिनी । विश्वेश्वरी विशालाक्षी विष्णुमायाविमोहिनी ॥ १४२॥ विख्याता विलसत्कचा ब्रह्मेशी ब्रह्मरूपिणी । ब्रह्मविद्या च ब्रह्माणी विश्वा च विश्वरूपिणी ॥ १४३॥ विश्ववन्द्या विश्वशक्तिः वीरा विचक्षणा तथा । बाला बालिका बिन्दुस्था विश्वपाशविमोचनी ॥ १४४॥ शिशुप्राया वैद्यविद्या शीलाशीलप्रदायिनी । क्षेत्रा क्षेमङ्करी वैश्या आर्यवैश्यकुलेश्वरी ॥ १४५॥ कुसुमश्रेष्ठिसत्पुत्री कुसुमाम्बाकुमारिका । बालनगरसम्पूज्या विरूपाक्षसहोदरी ॥ १४६॥ सर्वसिद्धेश्वराराद्या सर्वाभीष्टफलप्रदा । सर्वदुःखप्रशमनी सर्वरक्षास्वरूपिणी ॥ १४७॥ विभुदा विष्णुसङ्कल्पा विज्ञानघनरूपिणी । विचित्रिणी विष्णुपूज्या विष्णुमायाविलासिनी ॥ १४८॥ वैश्यदात्री वैश्यगोत्रा वैश्यगोत्रविवर्धिनी । वैश्यभोजनसन्तुष्टा महासङ्कल्परूपिणी ॥ १४९॥ सन्ध्या विनोदिनीवेद्या सत्यज्ञानप्रबोधिनी । विकाररहितामाता विजया विश्वसाक्षिणी ॥ १५०॥ तत्त्वज्ञा च तत्वाकारा तत्त्वमर्थस्वरूपिणी । तपस्वाध्यायनिरता तपस्वीजनसन्नुता ॥ १५१॥ विपुला विन्ध्यवासिनी नगरेश्वरमानिता । कमलादेविसम्पूज्या जनार्दनसुपूजिता ॥ १५२॥ वन्दिता वररूपा च मतिता मत्तकाशिनी । माधवी मालिनी मान्या महापातकनाशिनी ॥ १५३॥ वरा च वरवर्णिनी वारिताकारवर्षिणी । सत्कीर्तिगुणसम्पन्ना वैश्यलोकवशङ्करी ॥ १५४॥ तत्वासना तपोफला तरुणादित्यपाटला । तन्त्रसारा तन्त्रमाता तपोलोकनिवासिनी ॥ १५५॥ तन्त्रस्था तन्त्रसाक्षिणी तन्त्रमार्गप्रदर्शिनी । सर्वसम्पत्तिजननी सत्पथा सकलेष्टदा ॥ १५६॥ असमाना सामदेवी समर्हा सकलस्तुता । सनकादिमुनिद्येया सर्वशास्त्रार्थगोचरा ॥ १५७॥ सदाशिवा समुत्तीर्णा सात्विका शान्तरूपिणी । सर्ववेदान्तनिलया समया सर्वतोमुखी ॥ १५८॥ सहस्रदलपद्मस्था सर्वचैतन्यरूपिणी । सर्वदोषविनिर्मुक्ता सच्चिदानन्दरूपिणी ॥ १५९॥ सर्वविश्वम्बरावेद्या सर्वज्ञानविशारदा । विद्याविद्याकरी विद्या विद्याविद्यप्रबोधिनी ॥ १६०॥ विमला विभवा वेद्या विश्वस्था विवितोज्वला । वीरहत्यप्रशमनी विनम्रजनपालिनी ॥ १६१॥ वीरमध्या विराट्रूपा वितन्त्रा विश्वनायिका । विश्वम्बरा समाराध्या विक्रमा विश्वमङ्गला ॥ १६२॥ विनायकी च वासवी कन्यका परमेश्वरी । नित्यकर्मफलप्रदा नित्यमङ्गलरूपिणी ॥ १६३॥ क्षेत्रपालसमर्चिता ग्रहपीडानिवारिणी । क्षेमकारुण्यकारिणी रुद्रलक्षणधारिणी ॥ १६४॥ सर्वानन्दमयी भद्रा वैश्यसौख्यप्रदायिनी । नित्यानन्दस्वरूपिणी वैश्यसम्पत्प्रदायिनी ॥ १६५॥ क्षेत्रज्येष्ठाचलस्थिता श्रीमन्त्रपुरवासिनी । सौमङ्गल्यादिदेवता श्रीकन्यकापरमेश्वरी ॥ १६६॥ फलश्रुतिः । सहस्रनामकं स्तोत्रं वासव्याः यः पठेन्नरः । पुत्रपौत्रमवाप्नोति सर्वसिद्धिञ्चविन्दति ॥ १॥ सर्वरोगप्रशमनं दीर्घायुष्यप्रदायकम् । अनेन सदृशं स्तोत्रं न भूतं न भविष्यति ॥ २॥ यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् । तस्यैव भवति श्रद्धा कन्यका नामकीर्तने ॥ ३॥ ॥ इति श्रीवासवीकन्यकापरमेश्वरी सहस्रनामस्तोत्रं सम्पूर्णम् ॥ समर्पणम् । यदक्षरपदभ्रष्टं मात्राहीनं तु यद्भवेत् । तत्सर्वं क्षम्यतां देवी वासवाम्बा नमोऽस्तुते ॥ १॥ विसर्गबिन्दुमात्राणि पदपादाक्षराणि च । न्यूनानि चातिरिक्तानि क्षमस्व परमेश्वरी ॥ २॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्ष रक्ष महेश्वरी ॥ ३॥