अक्षर आकार:

श्रीवासवीदेवीसहस्रनामावलिः २

Shri Vasavi Devi Sahasra Namavali 2

श्रीवासवीदेवीसहस्रनामावलिः २

ध्यानम् - ओङ्कारबीजाक्षरीं ह्रीङ्कारीं श्रीमद्वासवी कन्यकापरमेश्वरीं घनशैलपुराधीश्वरीं कुसुमाम्बकुसुमश्रेष्ठिप्रियकुमारीम् । विरूपाक्षदिव्यसोदरीं अहिंसाज्योतिरूपिणीं कलिकालुष्यहारिणीं सत्यज्ञानानन्दशरीरिणीं मोक्षपथदर्शिनीं नादबिन्दुकलातीतजगज्जननीं त्यागशीलव्रतां नित्यवैभवोपेतां परदेवतां तां नमाम्यहम् सर्वदा ध्यायाम्यहम् ॥ अथ श्रीवासविदेवीसहस्रनामावलिः । ॐ श्रीवासव्यै नमः । विश्वजनन्यै नमः । विश्वलीलाविनोदिन्यै नमः । श्रीमात्रे नमः । विश्वम्भर्यै नमः । वैश्यवंशोद्धारिण्यै नमः । कुसुमदम्पतिनन्दिन्यै नमः । कामितार्थप्रदायिन्यै नमः । कामरूपायै नमः । प्रेमदीपायै नमः । कामक्रोधविनाशिन्यै नमः । पेनुगोण्डक्षेत्रनिलयायै नमः । पराशक्यवतारिण्यै नमः । पराविद्यायै नमः । परञ्ज्योत्यै नमः । देहत्रयनिवासिन्यै नमः । वैशाखशुद्ददशमीभृगुवासरजन्मधारिण्यै नमः । विरूपाक्षप्रियभगिन्यै नमः । विश्वरूपप्रदर्शिन्यै नमः । पुनर्वसुतारायुक्तशुभलग्नावतारिण्यै नमः । २० प्रणवरूपायै नमः । प्रणवाकारायै नमः । जीवकोटिशुभकारिण्यै नमः । त्यागसिंहासनारूढायै नमः । तापत्रयसुदूरिण्यै नमः । तत्त्वार्थचिन्तनशीलायै नमः । तत्त्वज्ञानप्रबोधिन्यै नमः । अध्यात्मज्ञानविज्ञाननिधये नमः । महत्साधनाप्रियायै नमः । अध्यात्मज्ञानविद्यार्थियोगक्षेमवहनप्रियायै नमः । साधकान्तःकरणमथन्यै नमः । रागद्वेषविदूरिण्यै नमः । सर्वसाधकसञ्जीविन्यै नमः । सर्वदामोदकारिण्यै नमः । स्वतन्त्रधारिण्यै नमः । रम्यायै नमः । सर्वकालसुपूजितायै नमः । स्वस्वरूपानन्दमग्नायै नमः । साधुजनसमुपासितायै नमः । विद्यादात्रे नमः । ४० सुविख्यातायै नमः । ज्ञानिजनपरिषोषिण्यै नमः । वैराग्योल्लासनप्रीतायै नमः । भक्तशोधनतोषिण्यै नमः । सर्वकार्यसिद्धिदात्र्यै नमः । उपासकसङ्कर्षिण्यै नमः । सर्वात्मिकायै नमः । सर्वगतायै नमः । धर्ममार्गप्रदर्शिन्यै नमः । गुणत्रयमय्यै नमः । देव्यै नमः । सुराराध्यायै नमः । असुरान्तकायै नमः । गर्वदूरायै नमः । प्रेमाधारायै नमः । सर्वमन्त्रतन्त्रात्मिकायै नमः । विज्ञानतन्त्रसञ्चालितयन्त्रशक्तिविवर्धिन्यै नमः । विज्ञानपूर्णवेदान्तसारामृताभिवर्षिण्यै नमः । भवपङ्कनित्यमग्नसाधकसुखकारिण्यै नमः । भद्रकर्तावेशशमन्यै नमः । ६० त्यागयात्रार्थिपालिन्यै नमः । बुधवन्द्यायै नमः । बुद्धिरूपायै नमः । कन्याकुमार्यै नमः । श्रीकर्यै नमः । भास्कराचार्याप्तशिष्यायै नमः । मौनव्रतरक्षाकर्यै नमः । काव्यनाट्यगानशिल्पचित्रनटनप्रमोदिन्यै नमः । कायक्लेशभयालस्यनिरोधिन्यै नमः । पथदर्शिन्यै नमः । भावपुष्पार्चनप्रीतायै नमः । सुरासुरपरिपालिन्यै नमः । बाह्यान्तरशुद्धिनिष्ठदेहस्वास्थ्यसंरक्षिण्यै नमः । जन्ममृत्युजराजाड्यायातनापरिहारिण्यै नमः । जीवजीवभेदभावदूरिण्यै सुममालिन्यै नमः । चतुर्दशभुवनैकाधीश्वर्यै नमः । राजेश्वर्यै नमः । चराचरजगन्नाटकसूत्रधारिण्यै नमः । कलाधर्यै नमः । ज्ञाननिध्यै नमः । ८० ज्ञानदाय्यै नमः । परापराविद्याकर्यै नमः । ज्ञानविज्ञानानुभूतिकारिण्यै नमः । निष्ठाकर्यै नमः । चतुर्वैदज्ञानजनन्यै नमः । चतुर्विद्याविनोदिन्यै नमः । चतुष्षष्ठिकलापूर्णायै नमः । रसिकसुजनाकर्षिण्यै नमः । भूम्याकाशवायुरग्निजलेश्वर्यै नमः । माहेश्वर्यै नमः । भव्यदेवालयप्रतिष्ठितचारुमूर्त्यै नमः । अभयङ्कर्यै नमः । भूतग्रामसृष्टिकर्त्र्यै नमः । शक्तिज्ञानप्रदायिन्यै नमः । भोगैश्वर्यदाहहन्त्र्यै नमः । नीतिमार्गप्रदर्शिन्यै नमः । दिव्यगात्र्यै नमः । दिव्यनेत्रै नमः । दिव्यचक्षुदायै नमः । शोभनायै नमः । १०० दिव्यमाल्याम्बरधर्यै नमः । दिव्यगन्धसुलेपनायै नमः । सुवेषालङ्कारप्रीतायै नमः । सुप्रियायै नमः । प्रभावत्यै नमः । सुमतिदातायै नमः । सुमनत्रातायै नमः । सर्वदायै नमः । तेजोवत्यै नमः । चाक्षुषज्योतिप्रकाशायै नमः । ओजसज्योतिप्रकाशिन्यै नमः । भास्वरज्योतिप्रज्ज्वलिन्यै नमः । तैजसज्योतिरूपिण्यै नमः । अनुपमानन्दाश्रुकर्यै नमः । अतिलोकसौन्दर्यवत्यै नमः । असीमलावण्यवत्यै नमः । निस्सीममहिमावत्यै नमः । तत्त्वाधारायै नमः । तत्त्वाकारायै नमः । तत्त्वमय्यै नमः । १२० सद्रूपिण्यै नमः । तत्त्वासक्तायै नमः । तत्त्ववेत्तायै नमः । चिदानन्दस्वरूपिण्यै नमः । आपत्समयसन्त्रातायै नमः । आत्मस्थैर्यप्रदायिन्यै नमः । आत्मज्ञानसम्प्रदातायै नमः । आत्मबुद्धिप्रचोदिन्यै नमः । जननमरणचक्रनाथायै नमः । जीवोत्कर्षकारिण्यै नमः । जगद्रूपायै नमः । जगद्रक्षायै नमः । जपतपध्यानतोषिण्यै नमः । पञ्चयज्ञार्चितायै नमः । वरदायै नमः । स्वार्थवृक्षकुठारिकायै नमः । पञ्चकोशान्तर्निकेतनायै नमः । पञ्चक्लेशाग्निशामकायै नमः । त्रिसन्ध्यार्चितगायत्र्यै नमः । मानिन्यै नमः । १४० त्रिमलनाशिन्यै नमः । त्रिवासनारहितायै नमः । सुमत्यै नमः । त्रितनुचेतनकारिण्यै नमः । महावात्सल्यपुष्करिण्यै नमः । शुकपाण्यै नमः । सुभाषिण्यै नमः । महाप्राज्ञबुधरक्षिण्यै नमः । शुकवाण्यै नमः । सुहासिन्यै नमः । द्युत्तरशतहोमकुण्डदिव्ययज्ञसुप्रेरकायै नमः । ब्रह्मकुण्डादिसुक्षेत्रपरिवेष्टितपीठिकायै नमः । द्युत्तरशतलिङ्गान्वितज्येष्ठशैलपुरीश्वर्यै नमः । द्युत्तरशतदम्पतीजनानुसृतायै नमः । निरीश्वर्यै नमः । त्रितापसन्त्रस्तावन्यै नमः । लताङ्ग्यै नमः । तमध्वंसिन्यै नमः । त्रिजगद्वन्द्यजनन्यै नमः । त्रिदोषापहारिण्यै नमः । १६० शब्दार्थध्वनितोषिण्यै नमः । काव्यकर्मविनोदिन्यै नमः । शिष्टप्रियायै नमः । दुष्टदमन्यै नमः । कष्टनष्टविदूरिण्यै नमः । जाग्रत्स्वप्नसृष्टिलीलामग्नचित्तज्ञानोदयायै नमः । जन्मरोगवैद्योत्तमायै नमः । सर्वमतकुलवर्णाश्रयायै नमः । कामपीडितविष्णुवर्धनमोहाक्रोशिन्यै नमः । विरागिण्यै नमः । कृपावर्षिण्यै नमः । विरजायै नमः । मोहिन्यै नमः । बालयोगिन्यै नमः । कवीन्द्रवर्णनावेद्यायै नमः । वर्णनातीतरूपिण्यै नमः । कमनीयायै नमः । दयाहृदयायै नमः । कर्मफलप्रदायिन्यै नमः । शोकमोहाधीनसाधकवृन्दनित्यपरिरक्षिण्यै नमः । १८० षोडशोपचारपूज्यायै नमः । ऊर्ध्वलोकसञ्चारिण्यै नमः । भीतिभ्रान्तिविनिर्मुक्तायै नमः । ध्यानगम्यायै नमः । लोकोत्तरायै नमः । ब्रह्मविष्णुशिवस्वरूपसद्गुरुवचनतत्परायै नमः । अवस्थात्रयनिजसाक्षिण्यै नमः । सद्योमुक्तिप्रसादिन्यै नमः । अलौकिकमाधुर्ययुतसूक्तिपीयूषवर्षिण्यै नमः । धर्मनिष्ठायै नमः । शीलनिष्ठायै नमः । धर्माचरणतत्परायै नमः । दिव्यसङ्कल्पफलदात्र्यै नमः । धैर्यस्थैर्यरत्नाकरायै नमः । पुत्रकामेष्टियागानुग्रहसत्फलरूपिण्यै नमः । पुत्रमित्रबन्धुमोहदूरिण्यै नमः । मैत्रिमोदिन्यै नमः । चारुमानुषविग्रहरूपधारिण्यै नमः । सुरागिण्यै नमः । चिन्तामणिगृहवासिन्यै नमः । २०० चिन्ताजाड्यप्रशमन्यै नमः । जीवकोटिरक्षणपरायै नमः । विद्वज्ज्योतिप्रकाशिन्यै नमः । जीवभावहरणचतुरायै नमः । हंसिन्यै नमः । धर्मवादिन्यै नमः । भक्ष्यभोज्यलेह्यचोष्यनिवेदनसंहर्षिण्यै नमः । भेदरहितायै नमः । मोदसहितायै नमः । भवचक्रप्रवर्तिन्यै नमः । हृदयगुहान्तर्यामिन्यै नमः । सहृदयसुखवर्धिन्यै नमः । हृदयदौर्बल्यविनाशिन्यै नमः । समचित्तप्रसादिन्यै नमः । दीनाश्रयायै नमः । दीनपूज्यायै नमः । दैन्यभावविवर्जितायै नमः । दिव्यसाधनसम्प्राप्तदिव्यशक्तिसमन्वितायै नमः । छलशक्तिदायिन्यै नमः । वन्द्यायै नमः । २२० धीरसाधकोद्धारिण्यै नमः । छलद्वेषवर्जितात्मायै नमः । योगिमुनिसंरक्षिण्यै नमः । ब्रह्मचर्याश्रमपरायै नमः । गृहस्थाश्रममोदिन्यै नमः । वानप्रस्थाश्रमरक्षिण्यै नमः । सन्न्यासाश्रमपावन्यै नमः । महातपस्विन्यै नमः । शुभदायै नमः । महापरिवर्तनाकरायै नमः । महत्वाकाङ्क्षप्रदात्र्यै नमः । महाप्राज्ञायै नमः । अजितायै नमः । अमरायै नमः । योगाग्निशक्तिसम्भूतायै नमः । शोकशामकचन्द्रिकायै नमः । योगमाया कन्यायै नमः । विनुतायै नमः । ज्ञाननौकाधिनायिकायै नमः । देवर्षिराजर्षिसेव्यायै नमः । २४० दिविजवृन्दसम्पूजितायै नमः । ब्रह्मर्षिमहर्षिगणगम्यायै नमः । ध्यानयोगसंहर्षितायै नमः । उरगहारस्तुतिप्रसन्नायै नमः । उरगशयनप्रियभगिन्यै नमः । उरगेन्द्रवर्णितमहिमायै नमः । उरगाकारकुण्डलिन्यै नमः । परम्परासम्प्राप्तयोगमार्गसञ्चालिन्यै नमः । परानादलोलायै नमः । विमलायै नमः । परधर्मभयदूरिण्यै नमः । पद्मशयनचक्रवर्तिसुतराजराजेन्द्रश्रितायै नमः । पञ्चबाणचेष्टदमन्यै नमः । पञ्चबाणसतिप्रार्थितायै नमः । सौम्यरूपायै नमः । मधुरवाण्यै नमः । महाराज्ञ्यै नमः । निरामय्यै नमः । सुज्ञानदीपाराधितायै नमः । समाधिदर्शितचिन्मय्यै नमः । २६० सकलविद्यापारङ्गतायै नमः । अध्यात्मविद्याकोविदायै नमः । सर्वकलाध्येयान्वितायै नमः । श्रीविद्याविशारदायै नमः । ज्ञानदर्पणात्मद्रष्टायै नमः । कर्मयोगिद्रव्यार्चितायै नमः । यज्ञशिष्टाशिनपावन्यै नमः । यज्ञतपोऽनवकुण्ठितायै नमः । सृजनात्मकशक्तिमूलायै नमः । काव्यवाचनविनोदिन्यै नमः । रचनात्मकशक्तिदातायै नमः । भवननिकेतनशोभिन्यै नमः । ममताहङ्कारपाशविमोचिन्यै नमः । धृतिदायिन्यै नमः । महाजनसमावेष्टितकुसुमश्रेष्ठिहितवादिन्यै नमः । स्वजनानुमोदसहितत्यागक्रान्तियोजनकर्यै नमः । स्वधर्मनिष्ठासिध्यर्थकृतकर्मशुभङ्कर्यै नमः । कुलबान्धवजनाराध्यायै नमः । परन्धामनिवासिन्यै नमः । कुलपावनकरत्यागयोगदर्शिन्यै नमः । २८० प्रियवादिन्यै नमः । धर्मजिज्ञासानुमोदिन्यात्मदर्शनभाग्योदयायै नमः । धर्मप्रियायै नमः । जयायै नमः । विजयायै नमः । कर्मनिरतज्ञानोदयायै नमः । नित्यानन्दासनासीनायै नमः । शक्तिभक्तिवरदायिन्यै नमः । निग्रहापरिग्रहशीलायै नमः । आत्मनिष्ठाकारिण्यै नमः । तारतम्यभेदरहितायै नमः । सत्यसन्धायै नमः । नित्यव्रतायै नमः । त्रैलोक्यकुटुम्बमात्रे नमः । सम्यग्दर्शनसंयुतायै नमः । अहिंसाव्रतदीक्षायुतायै नमः । लोककण्टकदैत्यापहायै नमः । अल्पज्ञानापायहारिण्यै नमः । अर्थसञ्चयलोभापहायै नमः । प्रेमप्रीतायै नमः । ३०० प्रेमसहितायै नमः । निष्कामसेवाप्रियायै नमः । प्रेमसुधाम्बुधिलीनभक्तचित्तनित्यालयायै नमः । मोघाशादुःखदाय्यै नमः । अमोघज्ञानदायिन्यै नमः । महाजनबुद्दिभेदजनकबोधक्रमवारिण्यै नमः । सात्त्विकान्तःकरणवासायै नमः । राजसहृत्क्षोभिण्यै नमः । तामसजनशिक्षणेष्टायै नमः । गुणातीतायै नमः । गुणशालिन्यै नमः । गौरवबालिकावृन्दनायिकायै नमः । षोडशकलात्मिकायै नमः । गुरुशुश्रूषापरायणनित्यध्येयायै नमः । त्रिगुणात्मिकायै नमः । जिज्ञासातिशयज्ञातायै नमः । अज्ञानतमोनाशिन्यै नमः । विज्ञानशास्त्रातीतायै नमः । ज्ञातृज्ञेयस्वरूपिण्यै नमः । सर्वाधिदेवताजनन्यै नमः । ३२० नैष्कर्म्यसिद्धिकारिण्यै नमः । सर्वाभीष्टदायै नमः । सुनयन्यै नमः । नैपुण्यवरदायिन्यै नमः । गुणकर्मविभागानुसारवर्णविधायिन्यै नमः । गुरुकारुण्यप्रहर्षितायै नमः । नलिनमुख्यै नमः । निरञ्जन्यै नमः । जातिमतद्वेषदूरायै नमः । मनुजकुलहितकामिन्यै नमः । ज्योतिर्मय्यै नमः । जीवदाय्यै नमः । प्रज्ञाज्योतिस्वरूपिण्यै नमः । कर्मयोगमर्मवेत्तायै नमः । भक्तियोगसमुपाश्रितायै नमः । ज्ञानयोगप्रीतचित्तायै नमः । ध्यानयोगसुदर्शितायै नमः । स्वात्मार्पणसन्तुष्टायै नमः । शरणभृङ्गसुसेवितायै नमः । स्वर्णवर्णायै नमः । ३४० सुचरितार्थायै नमः । करणसङ्गत्यागव्रतायै नमः । आद्यन्तरहिताकारायै नमः । अध्ययनलग्नमानसायै नमः । असदृशमहिमोपेतायै नमः । अभयहस्तायै नमः । मृदुमानसायै नमः । उत्तमोत्तमगुणाः पूर्णायै नमः । उत्सवोल्लासरञ्जन्यै नमः । उदारतनुविच्छिन्नप्रसुप्तसंस्कारतारिण्यै नमः । गुणग्रहणाभ्यासमूलायै नमः । एकान्तचिन्तनप्रियायै नमः । गहनब्रह्मतत्त्वलोलायै नमः । एकाकिन्यै नमः । स्तोत्रप्रियायै नमः । वसुधाकुटुम्बरक्षिण्यै नमः । सत्यरूपायै नमः । महामत्यै नमः । वर्णशिल्पिन्यै नमः । निर्भवायै नमः । ३६० भुवनमङ्गलाकृत्यै नमः । शुद्धबुद्दिस्वयंवेद्यायै नमः । शुद्धचित्तसुगोचरायै नमः । शुद्धकर्माचरणनिष्ठसुप्रसन्नायै नमः । बिम्बाधरायै नमः । नवग्रहशक्तिदायै नमः । गूढतत्त्वप्रतिपादिन्यै नमः । नवनवानुभावोदयायै नमः । विश्वज्ञायै नमः । श‍ृतिरूपिण्यै नमः । आनुमानिकगुणातीतायै नमः । सुसन्देशबोधाम्बुध्यै नमः । आनृण्यजीवनदात्र्यै नमः । ज्ञानैश्वर्यमहानिध्यै नमः । वाग्वैखरीसंयुक्तायै नमः । दयासुधाभिवर्षिण्यै नमः । वाग्रूपिण्यै नमः । वाग्विलासायै नमः । वाक्पटुत्वप्रदायिन्यै नमः । इन्द्रचापसदृशभूह्यै नमः । ३८० दाडिमीद्विजशोभिन्यै नमः । इन्द्रियनिग्रहछलदायै नमः । सुशीलायै नमः । स्तवरागिण्यै नमः । षट्चक्रान्तरालस्थायै नमः । अरविन्ददललोचनायै नमः । षड्वैरिदमनबलदायै नमः । माधुर्यै नमः । मधुराननायै नमः । अतिथिसेवापरायणधनधान्यविवर्धिन्यै नमः । अकृत्रिममैत्रिलोलायै नमः । वैष्णव्यै नमः । शास्त्ररूपिण्यै नमः । मन्त्रक्रियातपोभक्तिसहितार्चनाह्लादिन्यै नमः । मल्लिकासुगन्धराजसुममालिन्यै नमः । सुरभिरूपिण्यै नमः । कदनप्रियदुष्टमर्दिन्यै नमः । वन्दारुजनवत्सलायै नमः । कलहाक्रोशनिवारिण्यै नमः । खिन्ननाथायै नमः । ४०० निर्मलायै नमः । अङ्गपूजाप्रियद्युतिवर्धिन्यै नमः । पावनपदद्वयै नमः । अनायकैकनायिकायै नमः । लतासदृशभुजद्वयै नमः । श‍ृतिलयबद्दगानज्ञायै नमः । छन्दोबद्धकाव्याश्रयायै नमः । श‍ृतिस्मृतिपुराणेतिहाससारसुधायै नमः । अव्ययायै नमः । उत्तमाधमभेददूरायै नमः । भास्कराचार्यसन्नुतायै नमः । उपनयनसंस्कारपरायै नमः । स्वस्थायै नमः । महात्मवर्णितायै नमः । षड्विकारोपेतदेहमोहहरायै नमः । सुकेशिन्यै नमः । षडैश्वर्यवत्यै नमः । ज्यैष्ठायै नमः । निर्द्वन्द्वायै नमः । द्वन्द्वहारिण्यै नमः । ४२० दुःखसंयोगवियोगयोगाभ्यासानुरागिण्यै नमः । दुर्व्यसनदुराचारदूरिण्यै नमः । कौसुम्भिनन्दिन्यै नमः । मृत्युविजयकातरासुरशिक्षक्यै नमः । शिष्टरक्षक्यै नमः । मायापूर्णविश्वकर्त्रै नमः । निवृत्तिपथदर्शक्यै नमः । प्रवृत्तिपथनिर्दैशक्यै नमः । पञ्चविषयस्वरूपिण्यै नमः । पञ्चभूतात्मिकायै नमः । श्रेष्ठायै नमः । तपोनन्दनचारिण्यै नमः । चतुर्युक्तिचमत्कारायै नमः । राजप्रासादनिकेतनायै नमः । चराचरविश्वाधारायै नमः । भक्तिसदनायै नमः । क्षमाघनायै नमः । किङ्कर्तव्यमूढसुजनोद्दारिण्यै नमः । कर्मचोदिन्यै नमः । कर्माकर्मविकर्मानुसारबुद्धिप्रदायिन्यै नमः । ४४० नवविधभक्तिसम्भाव्यायै नमः । नवद्वारपुरवासिन्यै नमः । नवरात्यार्चनप्रीतायै नमः । जगद्धात्र्यै नमः । सनातन्यै नमः । विषसममादकद्रव्यसेवनार्थिभयङ्कर्यै नमः । विवेकवैराग्ययुक्तायै नमः । हीङ्कारकल्पतरुवल्लर्यै नमः । निमन्त्रणनियन्त्रणकुशलायै नमः । प्रीतियुक्तश्रमहारिण्यै नमः । निश्चिन्तमानसोपेतायै नमः । क्रियातन्त्रप्रबोधिन्यै नमः । रसिकरञ्जककलाह्लादायै नमः । शीलराहित्यद्देषिण्यै नमः । त्रिलोकसाम्राज्ञ्यै नमः । स्फुरणशक्तिसंवर्धिन्यै नमः । चित्तस्थैर्यकर्यै नमः । महेश्यै नमः । शाश्वत्यै नमः । नवरसात्मिकायै नमः । ४६० चतुरन्तःकरणज्योतिरूपिण्यै नमः । तत्त्वाधिकायै नमः । सर्वकालाद्वैतरूपायै नमः । शुद्धचित्तप्रसादिन्यै नमः । सर्वावस्थान्तर्साक्षिण्यै नमः । परमार्थसन्न्यासिन्यै नमः । आबालगोपसमर्चितायै नमः । हृत्सरोवरहंसिकायै नमः । अदम्यलोकहितनिरतायै नमः । जङ्गमस्थवरात्मिकायै नमः । ह्रीङ्कारजपसुप्रीतायै नमः । दीनमात्रे नमः । अधीनेन्द्रियायै नमः । ह्रीमय्यै नमः । दयाधनायै नमः । आर्यवैश्ययशोदयायै नमः । स्थितप्रज्ञायै नमः । विगतस्पृहायै नमः । पराविद्यास्वरूपिण्यै नमः । सर्वावस्थास्मरणप्रदायै नमः । ४८० सगुणनिर्गुणरूपिण्यै नमः । अष्टैश्वर्यसुखदात्र्यै नमः । कृतपुण्यफलदायिन्यै नमः । अष्टकष्टनष्टहन्त्र्यै नमः । भक्तिभावतरङ्गिण्यै नमः । ऋणमुक्तदानप्रियायै नमः । ब्रह्मविद्यायै नमः । ज्ञानेश्वर्यै नमः । पूर्णत्वाकाङ्क्षिसम्भाव्यायै नमः । तपोदानयज्ञेश्वर्यै नमः । त्रिमूर्तिरूपसद्गुरुभक्तिनिष्ठायै नमः । ब्रह्माकृत्यै नमः । त्रितनुबन्धपरिपालिन्यै नमः । सत्यशिवसुन्दराकृत्यै नमः । अस्त्रमन्त्ररहस्यज्ञायै नमः । भैरव्यै नमः । शस्त्रवर्षिण्यै नमः । अतीन्द्रियशक्तिप्रपूर्णायै नमः । उपासकबलवर्धिन्यै नमः । अङ्गन्यासकरन्याससहितपारायणप्रियायै नमः । ५०० आर्षसंस्कृतिसंरक्षणव्रताश्रयायै नमः । महाभयायै नमः । साकारायै नमः । निराकारायै नमः । सर्वानन्दप्रदायिन्यै नमः । सुप्रसन्नायै नमः । चारुहासायै नमः । नारीस्वातन्त्र्यरक्षिण्यै नमः । निस्वार्थसेवासन्निहितायै नमः । कीर्तिसम्पत्पदायिन्यै नमः । निरालम्बायै नमः । निरुपाधिकायै नमः । निराभरणभूषिण्यै नमः । पञ्चक्लेशाधीनसाधकरक्षणशिक्षणतत्प्वरायै नमः । पाञ्चभौतिकजगन्मूलायै नमः । अनन्यभक्तिसुगोचरायै नमः । पञ्चज्ञानेन्द्रियभाव्यायै नमः । परात्परायै नमः । परदेवतायै नमः । पञ्चकर्मेन्द्रियबलदायै नमः । ५२० कन्यकायै नमः । सुगुणसुमार्चितायै नमः । चिन्तनव्रतायै नमः । मन्थनरतायै नमः । अवाङ्मानसगोचरायै नमः । चिन्ताहारिण्यै नमः । चित्प्रभायै नमः । सप्तर्षिध्यानगोचरायै नमः । हरिहरब्रह्मप्रसवे नमः । जननमरणविवर्जितायै नमः । हासस्पन्दनलग्नमानसस्नेहभावसम्भावितायै नमः । पद्मवेदवरदाभयमुद्राधारिण्यै नमः । श्रितावन्यै नमः । परार्थविनियुक्तबलदायै नमः । ज्ञानभिक्षाप्रदायिन्यै नमः । विनतायै नमः । सङ्कल्पयुतायै नमः । अमलायै नमः । विकल्पवर्जितायै नमः । वैराग्यज्ञानविज्ञानसम्पद्दानविराजितायै नमः । ५४० स्त्रीभूमिसुवर्णदाहतप्तोपरतिशमापहायै नमः । सामरस्यसंहर्षितायै नमः । सरसविरससमदृष्टिदायै नमः । ज्ञानवह्निदग्धकर्मब्रह्मसंस्पर्शकारिण्यै नमः । ज्ञानयोगकर्मयोगनिष्ठाद्वयसमदर्शिन्यै नमः । महाधन्यायै नमः । कीर्तिकन्यायै नमः । कार्यकारणरूपिण्यै नमः । महामायायै नमः । महामान्यायै नमः । निर्विकारस्वरूपिण्यै नमः । निन्दास्तुतिलाभनष्टसमदर्शित्वप्रदायिन्यै नमः । निर्ममायै नमः । मनीषिण्यै नमः । सप्तधातुसंयोजन्यै नमः । नित्यपुष्टायै नमः । नित्यतुष्टायै नमः । मैत्रिबन्धोल्लासिन्यै नमः । नित्यैश्वर्यायै नमः । नित्यभोगायै नमः । ५६० स्वाध्यायप्रोल्लासिन्यै नमः । प्रारब्दसञ्चितागामीकर्मराशिदहनकर्यै नमः । प्रातःस्मरणीयायै नमः । अनुत्तमायै नमः । फणिवेण्यै नमः । कनकाम्बर्यै नमः । सप्तधातुर्मयशरीररचनकुशलायै नमः । निष्कलायै नमः । सप्तमातृकाजनयित्र्यै नमः । निरपायायै नमः । निस्तुलायै नमः । इन्द्रियचाञ्चल्यदूरायै नमः । जितात्मायै नमः । ब्रह्मचारिण्यै नमः । इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनियन्त्रिण्यै नमः । धर्मावलम्बनमुदितायै नमः । धर्मकार्यप्रचोदिन्यै नमः । द्वेषरहितायै नमः । द्वेषदूरायै नमः । धर्माधर्मविवेचन्यै नमः । ५८० ऋतशक्त्यै नमः । ऋतुपरिवर्तिन्यै नमः । भुवनसुन्दर्यै नमः । शीतलायै नमः । ऋषिगणसेविताङ्घ्रै नमः । ललितकलावनकोकिलायै नमः । सर्वसिद्धसाध्याराध्यायै नमः । मोक्षरूपायै नमः । वाग्देवतायै नमः । सर्वस्वरवर्णमालायै नमः । समस्तभाषाधिदेवतायै नमः । वामपथगामीसाधकहिंसाहारिण्यै नमः । नन्दितायै नमः । दक्षिणपथगामीसाधकदयागुणपरिसेवितायै नमः । नामपारायणतुष्टायै नमः । आत्मबलविवर्धिन्यै नमः । नादजनन्यै नमः । नादलोलायै नमः । दशनादमुददायिन्यै नमः । शास्त्रोक्तविधिपरिपालिन्यै नमः । ६०० भक्तिभुक्तिपथदर्शिन्यै नमः । शास्त्रप्रमाणानुसारिण्यै नमः । शाम्भव्यै नमः । ब्रह्मवादिन्यै नमः । श्रवणमनननिधिध्यासनिरतसन्निहितायै नमः । अजरायै नमः । श्रीकान्तब्रह्मशिवरूपायै नमः । भुवनैकदीपाङ्कुरायै नमः । विद्वज्जनधीप्रकाशायै नमः । सप्तलोकसञ्चारिण्यै नमः । विद्वन्मण्यै नमः । द्युतिमत्यै नमः । दिव्यस्फुरणसौधामिन्यै नमः । विद्यावर्धिन्यै नमः । रसज्ञायै नमः । विशुद्धात्मासेवार्चितायै नमः । ज्ञानवर्धिन्यै नमः । सर्वज्ञायै नमः । सर्वविद्याक्षेत्राश्रितायै नमः । विधेयात्यायोगमार्गदर्शिन्यै नमः । ६२० धृतिवर्धिन्यै नमः । विविधयज्ञदानतपोकारिण्यै नमः । पुण्यवर्धिन्यै नमः । अनन्यभक्तिक्षिप्रवश्यायै नमः । उदयभानुकोटिप्रभायै नमः । अष्टाङ्गयोगानुरक्तायै नमः । अद्वैतायै नमः । स्वयम्प्रभायै नमः । गोष्ठिप्रियायै नमः । वैरजडताहारिण्यै नमः । विनतावन्यै नमः । गुह्यतमसमाधिमग्नयोगिराजसम्भाषिण्यै नमः । सर्वलोकसम्भावितायै नमः । सदाचारप्रवर्तिन्यै नमः । सर्वपुण्यतीर्थात्मिकायै नमः । सत्कर्मफलदायिन्यै नमः । कर्तृतन्त्रपूजाश्रितायै नमः । वस्तुतन्त्रतत्त्वात्मिकायै नमः । करणत्रयशुद्धिप्रदायै नमः । सर्वभूतव्यूहाम्बिकायै नमः । ६४० मोहालस्यदीर्घसूत्रतापहायै नमः । सत्त्वप्रदायै नमः । मानसाश्ववेगरहितजपयज्ञमोदास्पदायै नमः । जाग्रत्स्वप्नसुषुप्तिस्थायै नमः । विश्वतैजसप्राज्ञात्मिकायै नमः । जीवन्मुक्तिप्रसादिन्यै नमः । तुरीयायै नमः । सार्वकालिकायै नमः । शब्दस्पर्शरूपगन्धरसविषयपञ्चकव्यापिन्यै नमः । सोहंमन्त्रयुतोच्छवासनिश्वासानन्दरूपिण्यै नमः । भूतभविष्यद्वर्तमानज्ञायै नमः । पुराण्यै नमः । विश्वाधिकायै नमः । ब्राह्मीस्थितिप्राप्तिकर्यै नमः । आत्मरूपाभिज्ञापकायै नमः । योगिजनपर्युपास्यायै नमः । अपरोक्षज्ञानोदयायै नमः । यक्षकिम्पुरुषसम्भाव्यायै नमः । विश‍ृङ्खलायै नमः । धर्मालयायै नमः । ६६० अस्वस्थदेहिसंस्मरणप्रसन्नायै नमः । वरदायिन्यै नमः । अस्वस्थचित्तशान्तिदाय्यै नमः । समत्वबुद्दिवरदायिन्यै नमः । प्रासानुप्रासविनोदिन्यै नमः । सृजनकर्मविलासिन्यै नमः । पञ्चतन्मात्राजनन्यै नमः । कल्पनासुविहारिण्यै नमः । ओङ्कारनादानुसन्धाननिष्ठाकर्यै नमः । प्रतिभान्वितायै नमः । ओङ्कारबीजाक्षररूपायै नमः । मनोलयप्रहर्षितायै नमः । ध्यानजाह्नव्यै नमः । वणिक्कन्यायै नमः । महापातकध्वंसिन्यै नमः । दुर्लभायै नमः । पतितोद्धारायै नमः । साध्यमौल्यप्रबोधिन्यै नमः । वचनमधुरायै नमः । हृदयमधुरायै नमः । ६८० वचनवेगनियन्त्रिण्यै नमः । वचननिष्ठायै नमः । भक्तिजुष्टायै नमः । तृप्तिधामनिवासिन्यै नमः । नाभिहृत्कण्ठसदनायै नमः । अगोचरनादरूपिण्यै नमः । परानादस्वरूपिण्यै नमः । वैखरीवाग्रञ्जिन्यै नमः । आर्द्रायै नमः । आन्ध्रावनिजातायै नमः । गोप्यायै नमः । गोविन्दभगिन्यै नमः । अश्विनीदेवताराध्यायै नमः । अश्वत्ततरुरूपिण्यै नमः । प्रत्यक्षपराशक्तिमूर्त्यै नमः । भक्तस्मरणतोषिण्यै नमः । पट्टाभिषिक्तविरूपाक्षत्यागव्रतप्रहर्षिण्यै नमः । ललिताश्रितकामधेनवे नमः । अरुणचरणकमलद्वय्यै नमः । लोकसेवापरायणसंरक्षिण्यै नमः । ७०० तेजोमय्यै नमः । नगरेश्वरदेवालयप्रतिष्ठितायै नमः । नित्यार्चितायै नमः । नवावरणचक्रेश्वर्यै नमः । योगमायाकन्यायै नमः । नुतायै नमः । नन्दगोपपुत्र्यै नमः । दुर्गायै नमः । कीर्तिकन्यायै नमः । in 557 कन्यामण्यै नमः । निखिलभुवनसम्मोहिन्यै नमः । सोमदत्तप्रियनन्दिन्यै नमः । समाधिमुनिसम्प्रार्थितसपरिवारमुक्तिदायिन्यै नमः । सामन्तराजकुसुमश्रेष्ठिपुत्रिकायै नमः । धीशालिन्यै नमः । प्राभातसगोत्रजातायै नमः । उद्वाहुवंशपावन्यै नमः । प्रज्ञाप्रमोदप्रगुणदायिन्यै नमः । गुणशोभिन्यै नमः । सालङ्कायनऋषिस्तुतायै नमः । सच्चारित्र्यसुदीपिकायै नमः । ७२० सद्भक्तमणिगुप्तादिवैश्यवृन्दहृच्चन्द्रिकायै नमः । गोलोकनायिकादेव्यै नमः । गोमठान्वयरक्षिण्यै नमः । गोकर्णनिर्गतासमस्तवैश्यऋषिक्षेमकारिण्यै नमः । अष्टादशनगरस्वामिगणपूज्यपरमेश्वर्यै नमः । अष्टादशनगरकेन्द्रपञ्चक्रोशनगरेश्वर्यै नमः । आकाशवाण्युक्तवासवीकन्यकानामकीर्तितायै नमः । अष्टादशशक्तिपीठरूपिण्यै नमः । यशोदासुतायै नमः । कुण्डनिर्मातृमल्हरवह्निप्रवेशानुमतिप्रदायै नमः । कर्मवीरलाभश्रेष्ठि-अग्निप्रवेशानुज्ञाप्रदायै नमः । सेनानिविक्रमकेसरिदुर्बुद्दिपरिवर्तिन्यै नमः । सैन्याधिपतिवंशजवीरमुष्टिसम्पोषिण्यै नमः । तपोव्रतराजराजेन्द्रभक्तिनिष्ठासाफल्यदायै नमः । तप्तविष्णुवर्धननृपमोहदूरायै नमः । मुक्तिप्रदायै नमः । महावक्तायै नमः । महाशक्तायै नमः । पराभवदुःखापहायै नमः । मूढश्रद्धापहारिण्यै नमः । ७४० संशयात्मिकबुद्ध्यापहायै नमः । दृश्यादृश्यरूपधारिण्यै नमः । यतदेहवाङ्मानसायै नमः । दैवीसम्पन्प्रदात्र्यै नमः । दर्शनीयायै नमः । दिव्यचेतसायै नमः । योगभ्रष्टसमुद्धरणविशारदायै नमः । निजमोददायै नमः । यमनियमासनप्राणायामनिष्ठशक्तिप्रदायै नमः । धारणध्यानसमाधिरतशोकमोहविदूरिण्यै नमः । दिव्यजीवनान्तर्ज्योतिप्रकाशिन्यै नमः । यशस्विन्यै नमः । योगीश्वर्यै नमः । यागप्रियायै नमः । जीवेश्वरस्वरूपिण्यै नमः । योगेश्वर्यै नमः । शुभ्रज्योत्स्नायै नमः । उन्मत्तजनपावन्यै नमः । लयविक्षेपसकषायरसास्वादातीतायै नमः । जितायै नमः । ७६० लोकसङ्ग्रहकार्यरतायै नमः । सर्वमन्त्राधिदेवतायै नमः । विचित्रयोगानुभवदायै नमः । अपराजितायै नमः । सुस्मितायै नमः । विस्मयकरशक्तिप्रदायै नमः । द्रव्ययज्ञनित्यार्चितायै नमः । आत्मसंयमयज्ञकर्यै नमः । असङ्गशस्त्रदायिन्यै नमः । अन्तर्मुखसुलभवेद्यायै नमः । तल्लीनताप्रदायिन्यै नमः । धर्मार्थकाममोक्षचतुर्पुरुषार्थसाधनायै नमः । दुःखनष्टापजयव्याजमनोदौर्बल्यवारणायै नमः । वचनवस्त्रप्रीतहृदयायै नमः । जन्मध्येयप्रकाशिन्यै नमः । व्याधिग्रस्तकठिणचित्तकारुण्यरसवाहिन्यै नमः । चित्प्रकाशलाभदाय्यै नमः । धेयमूर्त्यै नमः । ध्यानसाक्षिण्यै नमः । चारुवदनायै नमः । ७८० यशोदायै नमः । पञ्चवृत्तिनिरोधिन्यै नमः । लोकक्षयकारकास्त्रशक्तिसञ्चयमारकायै नमः । लोकबन्धनमोक्षार्थिनित्यक्लिष्टपरीक्षकायै नमः । सूक्ष्मसंवेदनाशीलायै नमः । चिरशान्तिनिकेतनायै नमः । सूक्ष्मग्रहणशक्तिमूलायै नमः । पञ्चप्राणान्तर्चेतनायै नमः । प्रयोगसहितज्ञानज्ञायै नमः । सम्मूढसमुद्वारिण्यै नमः । प्राणव्यापारसदाधीनभीत्याकुलपरिरक्षिण्यै नमः । दैवासुरसम्पद्विभागपण्डितायै नमः । लोकशासकायै नमः । देवसद्गुरुसाधुदूषकसन्मार्गप्रवर्तिकायै नमः । पश्चात्तापतप्तसुखदायै नमः । जीवधर्मप्रचारिण्यै नमः । प्रायश्चित्तकृतितोषितायै नमः । कीर्तिकारककृतिहर्षिण्यै नमः । गृहकृत्यलग्नसाधकस्मरणमात्रप्रमुदितायै नमः । गृहस्थजीवनद्रष्टायै नमः । ८०० सेवायुतसुधीर्विदितायै नमः । संयमीमुनिसन्दृश्यायै नमः । ब्रह्मनिर्वाणरूपिण्यै नमः । सुदुर्दर्शायै नमः । विश्वत्रातायै नमः । क्षेत्रक्षेत्रज्ञपालिन्यै नमः । वेदसाहित्यकलानिध्यै नमः । ऋगैदजातवैश्यजनन्यै नमः । वैश्यवर्णमूलगुरु-अपरार्कस्तवमोदिन्यै नमः । रागनिध्यै नमः । स्वरशक्त्यै नमः । भावलोकविहारिण्यै नमः । रागलोलायै नमः । रागरहितायै नमः । अङ्गरागसुलेपिन्यै नमः । ब्रह्मग्रन्थिविष्णुग्रन्थिरुदग्रन्थिविभेदिन्यै नमः । भक्तिसाम्राज्यस्थापिन्यै नमः । श्रद्धाभक्तिसंवर्धिन्यै नमः । हंसगमनायै नमः । तितिक्षासनायै नमः । ८२० सर्वजीवोत्कर्षिण्यै नमः । हिंसाकृत्यसर्वदाघ्नै नमः । सर्वद्वन्द्वविमोचन्यै नमः । विकृतिमयविश्वरक्षिण्यै नमः । त्रिगुणक्रीडाधामेश्वर्यै नमः । विविक्तसेव्यायै नमः । अनिरुद्धायै नमः । चतुर्दशलोकेश्वर्यै नमः । भवचक्रव्यूहरचनविशारदायै नमः । लीलामय्यै नमः । भक्तोन्नतिपथनिर्देशनकोविदायै नमः । हिरण्मय्यै नमः । भगवद्दर्शनार्थपरिश्रमानुकूलदायिन्यै नमः । बुद्धिव्यवसायवीक्षण्यै नमः । देदीप्यमानरूपिण्यै नमः । बुद्धिप्रधानशास्त्रज्योत्यै नमः । महाज्योत्यै नमः । महोदयायै नमः । भावप्रधानकाव्यगेयायै नमः । मनोज्योत्यै नमः । ८४० दिव्याश्रयायै नमः । अमृतसमसूक्तिसरितायै नमः । पञ्चऋणविवर्जितायै नमः । आत्मसिंहासनोपविष्टायै नमः । सुदत्यै नमः । धीमन्ताश्रितायै नमः । सुषुम्रानाडिगामिन्यै नमः । रोमहर्षस्वेदकारिण्यै नमः । स्पर्शज्योतिशब्दद्वाराब्रह्मसंस्पर्शकारिण्यै नमः । बीजाक्षरीमन्त्रनिहितायै नमः । निग्रहशक्तिवर्धिन्यै नमः । ब्रह्मनिष्ठरूपव्यक्तायै नमः । ज्ञानपरिपाकसाक्षिण्यै नमः । अकाराख्यायै नमः । उकारेज्यायै नमः । मकारोपास्यायै नमः । उज्ज्वलायै नमः । अचिन्त्यायै नमः । अपरिच्छेद्यायै नमः । एकभक्तिःह्रूतप्रज्ज्वलायै नमः । ८६० अशोष्यायै नमः । मृत्युञ्जयायै नमः । देशसेवकनित्याश्रयायै नमः । अक्लेद्यायै नमः । नव्याच्छेद्यायै नमः । आत्मज्योतिप्रभोदयायै नमः । दयागङ्गाधरायै नमः । धीरायै नमः । गीतसुधापानमोदिन्यै नमः । दर्पणोपममृदुकपोलायै नमः । चारुचुबुकविराजिन्यै नमः । नवरसमयकलातृप्तायै नमः । शास्त्रातीतलीलाकर्यै नमः । नयनाकर्षकचम्पकनासिकायै नमः । सुमनोहर्यै नमः । लक्षणशास्त्रमहावेत्तायै नमः । विरूपभक्तवरप्रदायै नमः । ज्योतिष्शास्त्रमर्मवेत्तायै नमः । नवग्रहशक्तिप्रदायै नमः । अनङ्गभस्मसञ्जातभण्डासुरमर्दिन्यै नमः । ८८० आन्दोलिकोल्लासिन्यै नमः । महिषासुरमर्दिन्यै नमः । भण्डासुररूपचित्रकण्ठगन्धर्वध्वंसिन्यै नमः । भ्रात्रार्चितायै नमः । विश्वख्यातायै नमः । प्रमुदितायै नमः । स्फुरद्रूपिण्यै नमः । कीर्तिसम्पत्प्रदात्रै नमः । उत्सवसम्भ्रमहर्षिण्यै नमः । कर्तृत्वभावरहितायै नमः । भोक्तृभावसुदूरिण्यै नमः । नवरत्नखचितहेममकुटधर्यै नमः । गोरक्षिण्यै नमः । नवऋषिजनन्यै नमः । शान्तायै नमः । नव्यमार्गप्रदर्शिन्यै नमः । विविधरूपवर्णसहितप्रकृतिसौन्दर्यप्रियायै नमः । वामगात्र्यै नमः । नीलवेण्यै नमः । कृषिवाणिज्यमहाश्रयायै नमः । ९०० कुङ्कुमतिलकाङ्कितललाटायै नमः । वज्रनासाभरणभूषितायै नमः । कदम्बाटवीनिलयायै नमः । कमलकुट्मलकरशोभितायै नमः । योगिहृत्कवाटपाटनचतुरायै नमः । अचेतनायै नमः । योगयात्रार्थिस्फूर्तिदायै नमः । षड्डर्शनसम्प्रेरणायै नमः । अन्धभक्तनेत्रदात्र्यै नमः । अन्धभक्तिसुदूरिण्यै नमः । मूकभक्तवाक्प्रदात्र्यै नमः । भक्तिमहिमोत्कर्षिण्यै नमः । पराभक्तसेवितविषहारिण्यै नमः । सञ्जीविन्यै नमः । पुरजनौघपरिवेष्टितायै नमः । स्वात्मार्पणपथगामिन्यै नमः । भवान्यनावृष्टिव्याजजलमौल्यप्रबोधिकायै नमः । भयानकातिवृष्टिव्याजजलशक्तिप्रदर्शिकायै नमः । रामायणमहाभारतपञ्चाङ्गश्रवणप्रियायै नमः । रागोपेतकाव्यनन्दितायै नमः । ९२० भागवत्कथाप्रियायै नमः । धर्मसङ्कटपरम्पराशुहारिण्यै नमः । मधुरस्वरायै नमः । धीरोदात्तायै नमः । माननीयायै नमः । ध्रुवायै नमः । पल्लवाधरायै नमः । परापराप्रकृतिरूपायै नमः । प्राज्ञपामरमुदालयायै नमः । पञ्चकोशाध्यक्षासनायै नमः । प्राणसञ्चारसुखाश्रयायै नमः । शताशापाशसम्बद्ददुष्टजनपरिवर्तिन्यै नमः । शतावधानिधीज्योतिप्रकाशिन्यै नमः । भवतारिण्यै नमः । सर्ववस्तुसृष्टिकारणान्तर्मर्मवेत्ताम्बिकायै नमः । स्थूलबुद्धिदुर्विज्ञेयायै नमः । सृष्टिनियमप्रकाशिकायै नमः । नामाकारोद्देशसहितस्थूलसूक्ष्मसृष्टिपालिन्यै नमः । नाममन्त्रजपयज्ञसद्योसाफल्यदायिन्यै नमः । आत्मतेजोंशसम्भवाचार्योपासनसुप्रियायै नमः । ९४० आचार्याभिगामिशुभकारिण्यै नमः । निराश्रयायै नमः । क्षुत्तृषानिद्रामैथुनविसर्जनधर्मकारिण्यै नमः । क्षयवृद्धिपूर्णद्रव्यसञ्चयाशाविदूरिण्यै नमः । नवजातशिशुसंपोषकक्षीरसुधासूषणायै नमः । नवभावलहर्योदयायै नमः । ओजोवत्यै नमः । विचक्षणायै नमः । धर्मश्रेष्ठिसुपुत्रार्थकृततपोसाफल्यदायै नमः । धर्मनन्दननामभक्तसमाराधितायै नमः । मोददायै नमः । धर्मनन्दनप्रियाचार्यच्यवनऋषिसम्पूजितायै नमः । धर्मनन्दनरसातललोकगमनकारिण्यै नमः । आङ्गीरसरक्षकार्यकचूडामणिसूनुरक्षिण्यै नमः । आदिशेषबोधलग्नधर्मनन्दनगुप्तावन्यै नमः । वीणावादनतल्लीनायै नमः । स्नेहबान्धव्यरागिण्यै नमः । वज्रकर्णकुण्डलधर्यै नमः । प्रेमभावप्रोल्लासिन्यै नमः । श्रीकार्यै नमः । ९६० श्रितपारिजातायै नमः । वेणुनादानुरागिण्यै नमः । श्रीप्रदायै नमः । शास्त्राधारायै नमः । नादस्वरनादरञ्जन्यै नमः । विविधविभूतिरूपधर्यै नमः । मणिकुण्डलशोभिन्यै नमः । विपरीतनिमित्तक्षोभितस्थैर्यधैर्योद्दीपिन्यै नमः । संवित्सागर्यै नमः । मनोन्मण्यै नमः । सर्वदेशकालात्मिकायै नमः । सर्वजीवात्मिकायै नमः । श्रीनिध्यै नमः । अध्यात्मकल्पलतिकायै नमः । अखण्डरूपायै नमः । सनातन्यै नमः । in 455 आदिपराशक्तिदेवतायै नमः । अभूतपूर्वसुचरितायै नमः । आदिमध्यान्तरहितायै नमः । समस्तोपनिषत्सारायै नमः । समाध्यवस्थान्तर्गतायै नमः । ९८० सङ्कल्पयुतयोगवित्तमध्यानावस्थाप्रकटितायै नमः । आगमशास्त्रमहावेत्तायै नमः । सगुणसाकारपूजितायै नमः । अन्नमयकोशाभिव्यक्तायै नमः । वैश्वानरनिवेदितायै नमः । प्राणमयकोशचालिन्यै नमः । देहत्रयपरिपालिन्यै नमः । प्राणव्यापारनियन्त्रिण्यै नमः । धनऋणशक्तिनियोजन्यै नमः । मनोमयकोशसञ्चारिण्यै नमः । दशेन्द्रियबुद्दिव्यापिन्यै नमः । विज्ञानमयकोशवासिन्यै नमः । व्यष्टिसमष्टिभेदप्रदर्शिन्यै नमः । आनन्दमयकोशवासिन्यै नमः । चित्ताहङ्कारनियन्त्रिण्यै नमः । अनन्तवृत्तिधारासाक्षिण्यै नमः । वासनात्रयनाशिन्यै नमः । निर्दोषायै नमः । प्रज्ञानम्ब्रह्ममहावाक्यश्रवणालयायै नमः । निर्वैरायै नमः । १००० तत्त्वमसीतिगुरुवाक्यमननाश्रयायै नमः । अयमात्माब्रह्मेतिमहावाक्यार्थप्रबोधिन्यै नमः । अहम्ब्रह्मास्मिस्वानुभवाधिष्टात्रै नमः । दिव्यलोचन्यै नमः । अव्याहतस्फूर्तिस्रोतायै नमः । नित्यजीवनसाक्षिण्यै नमः । अव्याजकृपासिन्धवे नमः । आत्मब्रह्मैक्यकारिण्यै नमः । १००८ इति इति गीतसुधाविरचित अव्याहतस्फूर्तिदायिनि श्रीवासविकन्यकापरमेश्वरी देव्यासि सहस्रनामावलिः समाप्ता ॥ ॐ तत् सत् । रचनैः श्रीमति राजेश्वरिगोविन्दराज् संस्थापकरुः ललितसुधा ज्ञानपीठ, बैङ्गलूरु वासवी सहस्रनामस्तोत्रम् सुरेश गुप्त, संस्कृत विद्वान्, बैङ्गलूरु Audio rendered by Vidushi Smt Jyothi Aswathanarayan, Smt Ashwini Srikanth, and Smt Nandini Vinay