अक्षर आकार:

श्रीवासवीकन्यकापरमेश्वरी षोडशनामस्तोत्रम्

Shri Vasavi Kanyaka Parameshvari Shodasha Nama Stotram

श्रीवासवीकन्यकापरमेश्वरी षोडशनामस्तोत्रम्

श्रीगणेशाय नमः । ॐ सौभाग्यजननी माता कन्यकापरमेश्वरी । विष्णुवर्धनमर्दिनी वासवी सर्वमङ्गला ॥ १॥ वैश्यवंशोद्भवा चैव वैश्यवंशाब्धिचन्द्रिका । तृतीयवर्णनिलया ज्ञानाग्निकुण्डवासिनी ॥ २॥ पेनुकोण्डापुरावासा विरूपाक्षसहोदरी । वैवाहमण्डपस्था च बालनगरसुप्रीता ॥ ३॥ आर्यवैश्यप्रपूजिता श्रीमत्कन्याशिरोमणी । एतानि षोडशनामानि भक्तिवर्धक यः पठेत् ॥ ४॥ इति श्रीवासवीकन्यकापरमेश्वरी षोडशनामस्तोत्रम् सम्पूर्णाम् ।