अक्षर आकार:

श्रीवासवीकन्यकाष्टकम्

Shri Vasavi Kanyaka Ashtakam

श्रीवासवीकन्यकाष्टकम्

नमो देव्यै सुभद्रायै कन्यकायै नमो नमः । शुभं कुरु महादेवि वासव्यैच नमो नमः ॥ १॥ जयायै चन्द्ररूपायै चण्डिकायै नमो नमः । शान्तिमावहनोदेवि वासव्यै ते नमो नमः ॥ २॥ नन्दायैते नमस्तेऽस्तु गौर्यै देव्यै नमो नमः । पाहिनः पुत्रदारांश्च वासव्यै ते नमो नमः ॥ ३॥ अपर्णायै नमस्तेऽस्तु कौसुंभ्यै ते नमो नमः । नमः कमलहस्तायै वासव्यै ते नमो नमः ॥ ४॥ चतुर्भुजायै शर्वाण्यै शुकपाण्यै नमो नमः । सुमुखायै नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ५॥ कमलायै नमस्तेऽस्तु विष्णुनेत्र कुलालये । मृडान्यैते नमस्तेऽस्तु वासव्यै ते नमो नमः ॥ ६॥ नमश्शीतलपादायै नमस्ते परमेश्वरी । श्रियं नोदेहि मातस्त्वं वासव्यै ते नमो नमः ॥ ७॥ त्वत्पादपद्मविन्यासं चन्द्रमण्डलशीतलं । गृहेषु सर्वदाऽस्माकं देहि श्रीपरमेश्वरि ॥ ८॥ ॐ बालारूपिणि विद्महे परमेश्वरि धीमहि । तन्नः कन्या प्रचोदयात् । इति श्रीवासवीकन्यकाष्टकं सम्पूर्णम् ।