अक्षर आकार:

श्रीवासरसरस्वतीस्तोत्रम्

shrI vAsara sarasvatI stotram

श्रीवासरसरस्वतीस्तोत्रम्

शरच्चन्द्रवक्त्रां लसत्पद्महस्तां सरोजाभनेत्रां स्फुरद्रत्नमौलिम् । घनाकारवेणीं निराकारवृत्तिं भजे शारदां वासरापीठवासाम् ॥ १॥ धराभारपोषां सुरानीकवन्द्यां मृणालीलसद्बाहुकेयूरयुक्ताम् । त्रिलोकैकसाक्षीमुदारस्तनाढ्यां भजे शारदां वासरापीठवासाम् ॥ २॥ दुरासारसंसारतीर्थाङ्घ्रिपोतां क्वणत्स्वर्णमाणिक्यहाराभिरामाम् । शरच्चन्द्रिकाधौतवासोलसन्तीं भजे शारदां वासरापीठवासाम् ॥ ३॥ विरिञ्चीन्द्रविष्ण्वादियोगीन्द्र पूज्यां प्रसन्नां विपन्नार्तिनाशां शरण्याम् । त्रिलोकाधिनाथाधिनाथां त्रिशून्यां भजे शारदां वासरापीठवासाम् ॥ ४॥ अनन्तामगम्यामनाद्यामभाव्यामभेद्यामदाह्यामलेप्यामरूपाम् । अशोष्यामसङ्गामदेहामवाच्यां भजे शारदां वासरापीठवासाम् ॥ ५॥ मनोवागतीतामनाम्नीमखण्डामभिन्नात्मिकामद्वयां स्वप्रकाशाम् । चिदानन्दकन्दां परञ्ज्योतिरूपां भजे शारदां वासरापीठवासाम् ॥ ६॥ सदानन्दरूपां शुभायोगरूपामशेषात्मिकां निर्गुणां निर्विकाराम् । महावाक्यवेद्यां विचारप्रसङ्गां भजे शारदां वासरापीठवासाम् ॥ ७॥ इमं स्तवं पठेद्यस्तु त्रिकालं भक्तिसंयुतः । शारदासाम्यमाप्नोति गृहे स्थित्वाज्ञ सम्भवम् ॥ ८॥ ?? ॥ इति श्री ब्रह्माण्डपुराणान्तर्गत वाल्मीकिकृत श्रीवासरसरस्वतीस्तोत्रं सम्पूर्णम् ॥