अक्षर आकार:

श्रीवाराहीदेविस्तवम्

Shri VarahI Devi Stavam

श्रीवाराहीदेविस्तवम्

ध्यानम् - ऐङ्कार द्वयमध्यसंस्थित लसद्भूबीजवर्णात्मिकाम् । दुष्टारातिजनाक्षि वक्त्रकरपत्सम्भिनीं जृम्भिणीम् ॥ लोकान् मोहयन्तीं दृशा च महासादंष्ट्राकरालाकृतिम् । वार्तालीं प्रणतोस्मि सन्ततमहं घोणिंरथोपस्थिताम् ॥ श्रीकिरि रथमध्यस्थां पोत्रिमुखीं चिद्घनैकसद्रूपाम् । हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् ॥ १॥ वाग्भवभूवागीशी बीजत्रयठार्णवैश्च संयुक्ताम् । कवचास्त्रानलजाया यतरूपां नैमि शुद्धवाराहीम् ॥ २॥ स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीम् । नतजन शुभकारिणीं श्रीकिरिवदनां नौमि सच्चिदानन्दाम् ॥ ३॥ पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् । अञ्चितमणिमयभूषां चिन्ततिफलदां नमामि वाराहीम् ॥ ४॥ विघ्नापन्निर्मूलन विद्येशीं सर्वदुःखविनिहन्त्रीम् । सकलजगत्संस्तम्भनचतुरां श्रीस्तम्भिनीं कलये ॥ ५॥ दशवर्णरूपमनुवर विशदां तुरगाधिराजसंरूढाम् । शुभदां दिव्यजगत्रयवासिनीं सुखदायिनीं सदा कलये ॥ ६॥ उद्धत्रीक्ष्मां जलनिदि मग्नां दंष्ट्राग्रलग्नभूगोलाम् । भक्तनतिमोदमानां उन्मत्ताकार भैरवीं वन्दे ॥ ७॥ सप्तदशाक्षररूपां सप्तोदधिपीठमध्यगां दिव्याम् । भक्तार्तिनाशनिपुणां भवभयविध्वंसिनीं परां वन्दे ॥ ८॥ नीलतुरगाधिरूढां नीलाञ्चित वस्त्रभूषणोपेताम् । नीलाभां सर्वतिरस्करिणीं सम्भावये महामायाम् ॥ ९॥ सलसङ्ख्यमन्त्ररूपां विलसद्भूषां विचित्रवस्त्राढ्याम् । सुललिततन्वीं नीलां कलये पशुवर्ग मोहिनीं देवीम् ॥ १०॥ वैरिकृतसकलभीकर कृत्याविध्वंसिनीं करालास्याम् । शत्रुगणभीमरूपां ध्याये त्वां श्रीकिरातवाराहीम् ॥ ११॥ चत्वारिंशद्वर्णकमनुरूपां सूर्यकोटिसङ्काशामी । देवीं सिंहतुरङ्गा विविधायुध धारिणीं किटीं नौमि ॥ १२॥ धूमाकारविकारां धूमानलसन्निभां सदा मत्ताम् । परिपन्थियूथहन्त्रीं वन्दे नित्यं च धूम्रवाराहीम् ॥ १३॥ वर्णचतुर्विंशतिका मन्त्रेशीं समदमहिषपृष्ठस्थाम् । उग्रां विनीलदेहां ध्याये किरिवक्त्र देवतां नित्याम् ॥ १४॥ बिन्दुगणतात्मकोणां गजदलावृत्तत्रयात्मिकां दिव्याम् । सदनत्रयसंशोभित चक्रस्थां नौमि सिद्धवाराहीम् ॥ १५॥ वाराही स्तोरतमेतद्यः प्रपठेद्भक्तिसंयुतः । स वे प्राप्नोति सततं सर्वसौख्यास्पदं पदम् ॥ १६॥ इति श्रीवाराहीदेविस्तवं सम्पूर्णम् ।