अक्षर आकार:

श्रीवाराहीद्वादशनामस्तोत्रम्

Shri Vaaarhi Dvadasha Nama Stotram

श्रीवाराहीद्वादशनामस्तोत्रम्

अस्य श्रीवाराही द्वादशनामस्तोत्रस्य अश्वानन ऋषिः । अनुष्टुप्छन्दः । श्रीवाराही देवता । श्रीवाराहि प्रसादसिद्ध्यर्थं सर्वसङ्कटहरण जपे विनियोगः । पञ्चमी दण्डनाथा च सङ्केता समयेश्वरी । तथा समयसङ्केता वाराही पोत्रिणी शिवा ॥ १॥ वार्ताली च महासेनाऽऽज्ञाचक्रेश्वरी तथा । अरिघ्नी चेति सम्प्रोक्तं नाम द्वादशकं मुने ॥ २॥ नाम द्वादशधाभिज्ञ वज्रपञ्जरमध्यगः । सङकटे दुःखमाप्नोति न कदाचन मानवः ॥ ३॥ इति वाराहीद्वादशनामस्तोत्रं सम्पूर्णम् ।