अक्षर आकार:

वाञ्छादात्रीस्तोत्रम्

Vanchadatri Stotram

वाञ्छादात्रीस्तोत्रम्

ऐं विद्याक्षमालासुकपालमुद्राराजत्करां कुन्दसमानकान्तिम् । मुक्ताफलालङ्कृतशोभनाङ्गीं बालां भजे वाङ्मयसिद्धिहेतोः ॥ १॥ क्लीं भजे कल्पवृक्षाध उद्दीप्तरत्नासने सन्निषण्णां मदाघूर्णिताक्षीम् । करैर्बीजपूरं कपालेषुचापं सपाशाङ्कुरां रक्तवर्णां दधानाम् ॥ २॥ सौः व्याख्यानमुद्रामृतकुम्भविद्यां अक्षस्रजं सन्दधतीं कराब्जैः । चिद्रूपिणीं शारदचन्द्रकान्तिं बालां भजे मौक्तिकभूषिताङ्गीम् ॥ ३॥ पाशाङ्कुशौ पुस्तकमक्षसूत्रं करैर्दधानां सकलामरार्च्याम्म् । रक्तां त्रिणोत्रां शशिशेखरां तां भजेऽखिलर्ध्यै त्रिपुरां च बालाम् ॥ ४॥ आरक्तां शशिखण्डमण्डितजटाजूटानुबद्धस्रजं बन्धूकप्रसवारुणाम्बरधरां रक्ताम्बुजाध्यासिनीम् । त्वां ध्यायामि चतुर्भुजां त्रिणयनामापीनरम्यस्तनीं मध्ये निम्नवलित्रयाङ्किततनुं त्वद्रूपसम्पत्तये ॥ ५॥ आधारे तरुणार्कबिम्बरुचिरं सोमप्रभं वाग्भवं बीजं मान्मथमिन्द्रगोपकनिभं हृत्पङ्कजे संस्थितम् । रन्ध्रे ब्रह्मपदे च शाक्तमपरं चन्द्रप्रभाभासुरं ये ध्यायन्ति पदत्रयं तव शिवे ते यान्ति सूक्ष्मं पदम् ॥ ६॥ रक्ताम्बरां चन्द्रकलावतंसां समुद्यदादित्यनिभां त्रिणेत्राम् । विद्याक्षमालाभयदानहस्तां ध्यायामि बालामरुणाम्बुजस्थाम् ॥ ७॥ अकलङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्बाहा पातु मां परमा कला ॥ ८॥ मातुलिङ्गपयोजन्महस्तां कनकसन्निभाम् । पद्मासनगतां बालां ध्यायामि धनसिद्धये ॥ ९॥ वरपीयूषकलशपुस्तकाभीतिधारिणीम् । सुधां स्रवन्तीं ज्ञानाप्त्यै ब्रह्मरन्ध्रे विचिन्तये ॥ १०॥ शुक्लाबरां शशाङ्काभां ध्यायाम्यारोग्यदायिनीम् । सृणिपाशधरां देवीं रत्नालङ्कारभूषिताम् ॥ ११॥ अकारादिक्षकारान्तवर्णावयवशालिनीम् । प्रसन्नामरुणामीक्षे सौमनस्यप्रदां शिवाम् ॥ १२॥ पुस्तकजपवटहस्ते वरदाभयचिह्नबाहुलते । कर्पूरामलदेहे वागीश्वरि चोदयाशु मम चेतः ॥ १३॥ इति वाञ्छादात्रीस्तोत्रं सम्पूर्णम् ।