अक्षर आकार:

श्रीवाग्वादिनिसहस्रनामस्तोत्रम्

Shri Vagvadini Sahasranama Stotram

श्रीवाग्वादिनिसहस्रनामस्तोत्रम्

ॐ श्रीगणेशाय नमः । ब्रह्मोवाच - नन्दिकेश्वर सर्वज्ञ भक्तानुग्रहकारक । ऋद्धिसिद्धिप्रदं नॄणां सर्वदोषनिषूदनम् ॥ १॥ सर्वसिद्धिकरं पुण्यं सर्वकामार्थसाधनम् । आधिव्याधिहरं केन केन वा मृत्युनाशनम् । वक्तुमर्हसि देवेश नन्दिकेश सुरोत्तम ॥ २॥ श्रीनन्दिकेश्वरोवाच - श‍ृणु ब्रह्मन्प्रवक्ष्यामि गुप्ताद्गुप्ततरं महत् । सर्वभक्तहितार्थाय कथिता कमलासन ॥ ३॥ समस्तकलहध्वंसी लोकस्य लोकवल्लभ । जलजास्स्थलजाश्चैव वनजा व्योमजास्तथा ॥ ४॥ कृत्रिमा दोषजाश्चापि भ्रान्तभ्रान्तिविनाशनम् । अपस्मारग्रहोन्मादजनोन्मत्तपिशाचकाः ॥ ५॥ दुःखप्रणाशनं नित्यं सुखं सम्प्राप्यते विधे । इदं स्तोत्रं न जानन्ति वाग्देवीस्मरणे यदि ॥ ६॥ न स सिद्धिमवाप्नोति वर्षकोटिशतैरपि । सर्वं सरस्वतीनाम्नां सदाशिवऋषिः स्मृतः ॥ ७॥ छन्दोऽनुष्टुप् तथा बीजं वाग्भवं शक्ति कीलकम् । रकारं सर्वकामार्थं विनियोगः प्रकीर्तिताः ॥ ८॥ अथ ध्यानं - शुभ्रां स्वच्छविलेपमाल्यवसनां शीतांशुखण्डोज्ज्वलां व्याख्यामक्षगुणं सुधाब्जकलशं विद्यां च हस्ताम्बुजैः । विभ्राणां कमलासनां कुचनतां वाग्देवतां सुस्मितां वाग्देवीं विभवप्रदां त्रिनयनां सौभाग्यसम्पत्करीम् ॥ ॐ श्रीवाग्वादिनी वाणी वागीश्वरी सरस्वती । वाचा वाचामती वाक्या वाग्देवी बालसुन्दरी ॥ १॥ वचसा वाचयिष्या च वल्लभा विष्णुवल्लभा । बालरूपा सती वृद्धा वनमाली वनेश्वरी ॥ २॥ वलिध्वंसप्रिया वेदा वरदा वरवर्धिनी । ब्राह्मी सरस्वती विद्या ब्रह्माण्डज्ञानगोचरी ॥ ३॥ ब्रह्मनाडी ब्रह्मज्ञानी व्रति व्रतप्रिया व्रता । ब्रह्मचारी बुद्धिरूपी बुद्धिदा बुद्धिदापका ॥ ४॥ बुद्धिः प्रज्ञा बुद्धिमती बुद्धिश्री बुद्धिवर्धिनी । वाराही वारुणी व्यक्ता वेणुहस्ता बलीयसी ॥ ५॥ वाममार्गरता देवी वामाचाररसप्रिया । वामस्त्था वामरूपा च वर्धिनी वामलोचना ॥ ६॥ विश्वव्यापी विश्वरूपा विश्वस्था विश्वमोहिनी । विन्ध्यस्था विन्ध्यनिलया विन्दुदा विन्दुवासिनी ॥ ७॥ वक्त्रस्था वक्ररूपा च विज्ञानज्ञानदायिनी । विघ्नहर्त्री विघ्नदात्री विघ्नराजस्य वल्लभा ॥ ८॥ वासुदेवप्रिया देवी वेणुदत्तबलप्रदा । बलभद्रस्य वरदा बलिराजप्रपूजिता ॥ ९॥ वाक्यं वाचमती ब्राह्मी वाग्भवानी विधायिका । वायुरूपा च वागीशा वेगस्था वेगचारिणी ॥ १०॥ ब्रह्ममूर्तिर्वाङ्मयी च वार्ताज्ञा वङ्मयेश्वरी । बन्धमोक्षप्रदा देवी ब्रह्मनादस्वरूपिणी ॥ ११॥ वसुन्धरास्थिता देवी वसुधारस्वरूपिणी । वर्गरूपा वेगधात्री वनमालाविभूषणा ॥ १२॥ वाग्देवेश्वरकण्ठस्था वैद्या विबुधवन्दिता । विद्युत्प्रभा विन्दुमती वाञ्छिता वीरवन्दिता ॥ १३॥ वह्निज्वाला वह्निमुखी विश्वव्यापी विशालदा । विद्यारूपा च श्रीविद्या विद्याधरप्रपूजिता ॥ १४॥ विद्यास्था विद्यया देवी विद्यादेवी विषप्रहा । विषघ्नी विषदोषघ्नी वृक्षमूलप्रतिष्ठिता ॥ १५॥ वृक्षरूपी च वृक्षेशी वृक्षफलप्रदायका । विविधौषधसम्पन्ना विविधोत्पातनाशिनी ॥ १६॥ विधिज्ञा विविधाकारा विश्वगर्भा वनेश्वरी । विश्वेश्वरी विश्वयोनीर्विश्वमाता विधिप्रिया ॥ १७॥ विभूतिरूपा वैभूती वंशी वंशीधरप्रिया । विशाललोचना देवी वित्तदा च वरानना ॥ १८॥ वायुमण्डलसंस्था च वह्निमण्डलसंस्थिता । गङ्गादेवी च गङ्गा च गुणादात्री गुणात्मिका ॥ १९॥ गुणाश्रया गुणवती गुणशीलसमन्विता । गर्भप्रदा गर्भदात्री गर्भरक्षाप्रदायिनी ॥ २०॥ गीरूपा गीष्मती गीता गीतज्ञा गीतवल्लभा । गिरिधारीप्रिया देवी गिरिराजसुता सती ॥ २१॥ गतिदा गर्भदा गर्भा गणपूजा गणेश्वरी । गम्भीरा गहना गुह्या गन्धर्वगणसेविता ॥ २२॥ गुह्येश्वरी गुह्यकाली गुप्तमार्गप्रदायिनी । गुरुमूर्तिर्गुरुस्था च गोचरा गोचरप्रदा ॥ २३॥ गोपिनी गोपिका गौरी गोपालज्ञानतत्परा । गोरूपा गोमतीदेवी गोवर्धनधरप्रिया ॥ २४॥ गुणदात्री गुणशीला गुणरूपा गुणेश्वरी । गायत्रीरूपा गान्धारी गङ्गाधरप्रिया तथा ॥ २५॥ गिरिकन्या गिरिस्था च गूढरूपा गृहस्थिता । गृहक्लेशविध्वंसिनी गृहे कलहभञ्जनी ॥ २६॥ गगनाडी गर्भज्योतिर्गगनाकारशोभिता । गमसागमस्वरूपा च गरुडासनवल्लभा ॥ २७॥ गन्धरूपा गन्धरूपी गलस्था गलगोचरा । गजेन्द्रगामिनीदेवी ग्रहनक्षत्रवन्दिता ॥ २८॥ गोपकन्या गोकुलेशी गोपीचन्दनलेपिता । दयावती दुःखहन्त्री दुष्टदारिद्र्यनाशिनी ॥ २९॥ दिव्यदेहा दिव्यमुखी दिव्यचन्दनलेपिता । दिव्यवस्त्रपरीधाना दम्भलोभविवर्जिता ॥ ३०॥ दाता दामोदरप्रीता दामोदरपरायणा । दनुजेन्द्रविनाशी च दानवागणसेविता ॥ ३१॥ दुष्कृतघ्नी दूरगामी दुर्मति-दुःखनाशिनी । दावाग्निरूपिणीदेवी दशग्रीववरपदा ॥ ३२॥ दयानदी दयाशीला दानशीला च दर्शिनी । दृढदेवी दृढदृष्टी दुग्घप्रपानतत्परा ॥ ३३॥ दुग्धवर्णा दुग्धप्रिया दधिदुग्धप्रदायका । देवकी देवमाता च देवेशी देवपूजिता ॥ ३४॥ देवीमूर्तिर्दयामूर्तिर्दोषहा दोषनाशिनी । दोषघ्नी दोषदमनी दोलाचलप्रतिष्ठिता ॥ ३५॥ दैन्यहा दैत्यहन्त्री च देवारिगणमर्दिनी । दम्भकृत् दम्भनाशी च दाडिमीपुष्पवल्लभा ॥ ३६॥ दशना दाडिमाकारा दाडिमीकुसुमप्रभा । दासीवरप्रदा दीक्षा दीक्षिता दीक्षितेश्वरी ॥ ३७॥ दिलीपराजबलदा दिनरात्रिस्वरूपिणी । दिगम्बरी दीप्ततेजा डमरूभुजधारिणी ॥ ३८॥ द्रव्यरूपी द्रव्यकरी दशरथवरप्रदा । ईश्वरी ईश्वरभार्या च इन्द्रियरूपसंस्थिता ॥ ३९॥ इन्द्रपूज्या इन्द्रमाता ईप्सित्वफलदयका । इन्द्राणी इङ्गितज्ञा च ईशानी ईश्वरप्रिया ॥ ४०॥ इष्टमूर्ती इहैवस्था इच्छारूपा इहेश्वरी । इच्छाशक्तिरीश्वरस्था इल्वदैत्यनिषूदिनी ॥ ४१॥ इतिहासादिशास्त्रज्ञा इच्छाचारीस्वरूपिणी । ईकाराक्षररूपा च इन्द्रियवरवर्धिनी ॥ ४२॥ इद्रलोकनिवासिनां ईप्सितार्थप्रदायिनी । नारी नारायणप्रीता नारसिंही नरेश्वरी ॥ ४३॥ नर्मदा नन्दिनीरूपा नर्तकी नगनन्दिनी । नारायणप्रिया नित्यं नानाविद्याप्रदायिनी ॥ ४४॥ नानाशास्त्रधरीदेवी नानापुष्पसुशोभिता । नयनत्रयरूपा च नृत्यनाथस्य वल्लभा ॥ ४५॥ नदीरूपा नृत्यरूपा नागरी नगरेश्वरी । नानार्थदाता नलिनी नारदादिप्रपूजिता ॥ ४६॥ नतारम्भेश्वरीदेवी नीतिज्ञा च निरञ्जनी । नित्यसिंहासनस्था च नित्यकल्याणकारिणी ॥ ४७॥ नित्यानन्दकरी देवी नित्यसिद्धिप्रदायका । नेत्रपद्मदलाकारा नेत्रत्रयस्वरूपिणी ॥ ४८॥ नौमीदेवीनाममात्रा नकाराक्षररूपिणी । नन्दा निद्रा महानिद्रा नूपुरपदशोभिता ॥ ४९॥ नाटकी नाटकाध्यक्षा नरानन्दप्रदायिका । नानाभरणसन्तुष्टानानारत्नविभूषणा ॥ ५०॥ नरकनाशिनीदेवी नागान्तकस्थिता प्रिया । नीतिविद्याप्रदा देवी न्यायशास्त्रविशारदी ॥ ५१॥ नरलोकगतादेवी नरकासुरनाशिनी । अनन्तशक्तिरूपा च नैमित्तिकप्रपूजिता ॥ ५२॥ नानाशस्त्रधरादेवी नारबिन्दुस्वरूपिणी । नक्षत्ररूपा नन्दिता नगस्था नगनन्दिनी ॥ ५३॥ सारदा सरितारूपा सत्यभामा सुरेश्वरी । सर्वानन्दकरीदेवी सर्वाभरणभूषिता ॥ ५४॥ सर्वविद्याधरादेवी सर्वशास्त्रस्वरूपिणी । सर्वमङ्गलदात्री च सर्वकल्याणकारिणी ॥ ५५॥ सर्वज्ञा सर्वभाग्यं च सर्वसन्तुष्टिदायका । सर्वभारधरादेवी सर्वदेशनिवासिनी ॥ ५६॥ सर्वदेवप्रियादेवी सर्वदेवप्रपूजिता । सर्वदोषहरादेवी सर्वपातकनाशिनी ॥ ५७॥ सर्वसंसारसंराज्ञी सर्वसङ्कष्टनाशिनी । सर्वसंसारसाराणि सर्वकलहविध्वंसी सर्वविद्याधिदेवता ॥ ५८॥ सर्वमोहनकारी च सर्वमन्त्रप्रसिद्धिदा । सर्वतन्त्रात्मिकादेवी सर्वयन्त्राधिदेवता ॥ ५९॥ सर्वमण्डलसंस्था च सर्वमायाविमोहिनी । सर्वहृदयवासिन्यो सर्वमात्मस्वरूपिणी ॥ ६०॥ सर्वकारणकारी च सर्वशान्तस्वरूपिणी । सर्वसिद्धिकरस्था च सर्ववाक्यस्वरूपिणी ॥ ६१॥ सर्वाधारा निराधारा सर्वाङ्गसुन्दरी सती । सर्ववेदमयीदेवी सर्वशब्दस्वरूपिणी ॥ ६२॥ सर्वब्रह्माण्डव्याप्ता च सर्वब्रह्माण्डवासिनी । सर्वाचाररता साध्वी सर्वबीजस्वरूपिणी ॥ ६३॥ सर्वोन्मादविकारघ्नी सर्वकल्मषनाशिनी । सर्वदेहगतादेवी सर्वयोगेश्वरी परा ॥ ६४॥ सर्वकण्ठस्थिता नित्यं सर्वगर्भासुरक्षका । सर्वभावा प्रभावाद्या सर्वलक्ष्मीप्रदायिका ॥ ६५॥ सर्वैश्वर्यप्रदा देवी सर्ववायुस्वरूपिणी । सुरलोकगता देवी सर्वयोगेश्वरी परा ॥ ६६॥ सर्वकण्ठस्थिता नित्यं सुरासुरवरप्रदा । सूर्यकोटिप्रतीकाशा सूर्यमण्डलसंस्थिता ॥ ६७॥ शून्यमण्डलसंस्था च सात्त्विकी सत्यदा तथा । सरिता सरिताश्रेष्ठा सदाचारसुशोभिता ॥ ६८॥ साकिनी साम्यरूपा च साध्वी साधुजनाश्रया । सिद्धिदा सिद्धिरूपा च सिद्धिस्सिद्धिविवर्धिनी ॥ ६९॥ श्रितकल्याणदादेवी सर्वमोहाधिदेवता । सिद्धेश्वरी च सिद्धात्मा सर्वमेधाविवर्धिनी ॥ ७०॥ शक्तिरूपा च शक्तेशी श्यामा कष्टनिषूदिनी । सर्वभक्षा शङ्खिनी च सरसागतकारिणी ॥ ७१॥ सर्वप्रणवरूपा च सर्व अक्षररूपिणी । सुखदा सौख्यदा भोगा सर्वविघ्नविदारिणी ॥ ७२॥ सन्तापहा सर्वबीजा सावित्री सुरसुन्दरी । श्रीरूपा श्रीकरी श्रीश्च शिशिराचलवासिनी ॥ ७३॥ शैलपुत्री शैलधात्री शरणागतवल्लभा । रत्नेश्वरी रत्नप्रदा रत्नमन्दिरवासिनी ॥ ७४॥ रत्नमालाविचित्राङ्गी रत्नसिंहासनस्थिता । रसधारारसरता रसज्ञा रसवल्लभा ॥ ७५॥ रसभोक्त्री रसरूपा षड्रसज्ञा रसेश्वरी । रसेन्द्रभूषणा नित्यं रतिरूपा रतिप्रदा ॥ ७६॥ राजेश्वरी राकिणी च रावणावरदायका । दशास्यवरदायका रामकान्ता रामप्रिया रामचन्द्रस्य वल्लभा ॥ ७७॥ राक्षसघ्नी राजमाता राधा रुद्रेश्वरी निशा । रुक्मिणी रमणी रामा राज्यभुग्राज्यदायका ॥ ७८॥ रक्ताम्बरधरादेवी रकाराक्षररूपिणी । रासिस्था रामवरदा राज्यदा राज्यमण्डिता ॥ ७९॥ रोगहा लोभहा लोला ललिता ललितेश्वरी । तन्त्रिणी तन्त्ररूपा च तत्त्वी तत्त्वस्वरूपिणी ॥ ८०॥ तपसा तापसी तारा तरुणानङ्गरूपिणी । तत्त्वज्ञा तत्त्वनिलया तत्त्वालयनिवासिनी ॥ ८१॥ तमोगुणप्रदादेवी तारिणी तन्त्रदायिका । तकाराक्षररूपा च तारकाभयभञ्जनी ॥ ८२॥ तीर्थरूपा तीर्थसंस्था तीर्थकोटिफलप्रदा । तीर्थमाता तीर्थज्येष्ठा तरङ्गतीर्थदायका ॥ ८३॥ त्रैलोक्यजननीदेवी त्रैलोक्यभयभञ्जनी । तुलसी तोतला तीर्था त्रिपुरा त्रिपुरेश्वरी ॥ ८४॥ त्रैलोक्यपालकध्वंसी त्रिवर्गफलदायका । त्रिकालज्ञा त्रिलोकेशी तृतीयज्वरनाशिनी ॥ ८५॥ त्रिनेत्रधारी त्रिगुणा त्रिसुगन्धिविलेपिनी । त्रिलौहदात्री गम्भीरा तारागणविलासिनी ॥ ८६॥ त्रयोदशगुणोपेता तुरीयमूर्तिरूपिणी । ताण्डवेशी तुङ्गभद्रा तुष्टिस्त्रेतायुगप्रिया ॥ ८७॥ तरङ्गिणी तरङ्गस्था तपोलोकनिवासिनी । तप्तकाञ्चनवर्णाभा तपःसिद्धिविधायिनी ॥ ८८॥ त्रिशक्तिस्त्रिमधुप्रीता त्रिवेणी त्रिपुरान्तका । पद्मस्था पद्महस्ता च परत्रफलदायका ॥ ८९॥ परमात्मा पद्मवर्णा परापरतराष्टमा । परमेष्ठी परञ्ज्योतिः पवित्रा परमेश्वरी ॥ ९०॥ पारकर्त्री पापहन्त्री पातकौघविनाशिनी । परमानन्ददादेवी प्रीतिदा प्रीतिवर्द्धिनी ॥ ९१॥ पुण्यनाम्नी पुण्यदेहा पुष्टिपुस्तकधारिणी । पुत्रदात्री पुत्रमाता पुरुषार्थपुरेश्वरी ॥ ९२॥ पौर्णमीपुण्यफलदा पङ्कजासनसंस्थिता । पृथ्वीरूपा च पृथिवी पीताम्बरस्य वल्लभा ॥ ९३॥ पाठादेवी च पठिता पाठेशी पाठवल्लभा । पन्नगान्तकसंस्था च परार्धाङ्गोश्वपद्धती ॥ ९४॥ हंसिनी हासिनीदेवी हर्षरूपा च हर्षदा । हरिप्रिया हेमगर्भा हंसस्था हंसगामिनी ॥ ९५॥ हेमालङ्कारसर्वाङ्गी हैमाचलनिवासिनी । हुत्वा हसितदेहा च हाहा हूहू सदाप्रिया ॥ ९६॥ हंसरूपा हंसवर्णा हिता लोकत्रयेश्वरी । हुङ्कारनादिनीदेवी हुतभुक्ता हुतेश्वरी ॥ ९७॥ ज्ञानरूपा च ज्ञानज्ञा ज्ञानदा ज्ञानसिद्धिदा । ज्ञानेश्वरी ज्ञानगम्या ज्ञानी ज्ञानविशालधीः ॥ ९८॥ ज्ञानमूर्तिर्ज्ञानधात्री तातव्याकरणादिनी । अज्ञाननाशिनीदेवी ज्ञाता ज्ञानार्णवेश्वरी ॥ ९९॥ महादेवी महामोहा महायोगरता तथा । महाविद्या महाप्रज्ञा महाज्ञाना महेश्वरी ॥ १००॥ मञ्जुश्री मञ्जुरप्रीता मञ्जुघोषस्य वन्दिता । महामञ्जुरिकादेवी मणीमुकुटशोभिता ॥ १०१॥ मालाधरी मन्त्रमूर्तिर्मदनी मदनप्रदा । मानरूपा मनसी च मतिर्मतिमनोत्सवा ॥ १०२॥ मानेश्वरी मानमान्या मधुसूदनवल्लभा । मृडप्रिया मूलसंस्था मूर्ध्निस्था मुनिवन्दिता ॥ १०३॥ मुखबेक्ता ?? मूठहन्ता मृत्युर्भयविनाशिनी । मृत्रिका मातृका मेधा मेधावी माधवप्रिया ॥ १०४॥ मकाराक्षररूपा च मणिरत्नविभूषिता । मन्त्राराधनतत्त्वज्ञा मन्त्रयन्त्रफलप्रदा ॥ १०५॥ मनोद्भवा मन्दहासा मङ्गला मङ्गलेश्वरी । मौनहन्त्री मोददात्री मैनाकपर्वते स्थिता ॥ १०६॥ मणिमती मनोज्ञा च माता मार्गविलासिनी । मूलमार्गरतादेवी मानसा मानदायिनी ॥ १०७॥ भारती भुवनेशी च भूतज्ञा भूतपूजिता । भद्रगङ्गा भद्ररूपा भुवना भुवनेश्वरी ॥ १०८॥ भैरवी भोगदादेवी भैषज्या भैरवप्रिया । भवानन्दा भवातुष्टी भाविनी भरतार्चिता ॥ १०९॥ भागीरथी भाष्यरूपा भाग्या भाग्यवतीति च । भद्रकल्याणदादेवी भ्रान्तिहा भ्रमनाशिनी ॥ ११०॥ भीमेश्वरी भीतिहन्त्री भवपातकभञ्जनी । भक्तोत्सवा भक्तप्रिया भक्तस्था भक्तवत्सला ॥ १११॥ भञ्जा च भूतदोषघ्नी भवमाता भवेश्वरी । भयहा भग्नहा भव्या भवकारणकारिणी ॥ ११२॥ भूतैश्वर्यप्रदा देवी भूषणाङ्की भवप्रिया । अनन्यज्ञानसम्पन्ना अकाराक्षररूपिणी ॥ ११३॥ अनन्तमहिमा त्र्यक्षी अजपामन्त्ररूपिणी । अनेकसृष्टिसम्पूर्णा अनेकाक्षरज्ञानदा ॥ ११४॥ आनन्ददायिनी देवी अमृता अमृतोद्भवा । आनन्दिनी च अरिहा अन्नस्था अग्निवच्छविः ॥ ११५॥ अत्यन्तज्ञानसम्पन्ना अणिमादिप्रसिद्धिदा । आरोग्यदायिनी आढ्या आदिशक्तिरभीरुहा ॥ ११६॥ आज्ञा अगोचरी आदिमाता अश्वत्थवृक्षवासिनी । धर्मावती धर्मधरी धरणीधरवल्लभा ॥ ११७॥ धारणा धारणाधीशा धर्मरूपधराधरी । धर्ममाता धर्मकर्त्री धनदा च धनेश्वरी ॥ ११८॥ ध्रुवलोकगता धाता धरित्री धेनुरूपधृक् । धीरूपा धीप्रदा धीशा धृतिर्वाक्सिद्धिदायका ॥ ११९॥ धैर्यकृद्धैर्यदा धैर्या धौतवस्त्रेण शोभिता । धुरन्धरी धुन्धिमाता धारणाशक्तिरूपिणी ॥ १२०॥ वैकुण्ठस्था कण्ठनिलया कामदा कामचारिणी । कामधेनुस्वरूपा च कष्टकल्लोलहारिणी ॥ १२१॥ कुमुदहासिनी नित्यं कैलासपददायका । कमला कमलस्था च कालहा क्लेशनाशिनी ॥ १२२॥ कलाषोडशसंयुक्ता कङ्काली कमलेश्वरी । कुमारी कुलसन्तोषा कुलज्ञा कुलवर्द्धिनी ॥ १२३॥ कालकूटविषध्वंसी कमलापतिमोहनी । कुम्भस्था कलशस्था च कृष्णवक्षोविलासिनी ॥ १२४॥ कृत्यादिदोषहा कुन्ती कस्तूरीतिलकप्रिया । कर्पुरवासितादेहा कर्पूरमोदधारिणी ॥ १२५॥ कुशस्था कुशमूलस्था कुब्जा कैटभनाशिनी । कुरुक्षेत्रकृता देवी कुलश्री कुलभैरवी ॥ १२६॥ कृतब्रह्माण्डसर्वेशी काली कङ्कणधारिणी । कुबेरपूजिता देवी कण्ठकृत्कण्ठकर्षणी ॥ १२७॥ कुमुदःपुष्पसन्तुष्टा किङ्किणीपादभूषिणी । कुङ्कुमेन विलिप्ताङ्गी कुङ्कुमद्रवलेपिता ॥ १२८॥ कुम्भकर्णस्य भ्रमदा कुञ्जरासनसंस्थिता । कुसुममालिकावेत्री कौशिकीकुसुमप्रिया ॥ १२९॥ यज्ञरूपा च यज्ञेशी यशोदा जलशायिनी । यज्ञविद्या योगमाया जानकी जननी जया ॥ १३०॥ यमुनाजपसन्तुष्टा जपयज्ञफलप्रदा । योगधात्री योगदात्री यमलोकनिवारिणी ॥ १३१॥ यशःकीर्तिप्रदा योगी युक्तिदा युक्तिदायनी । जैवनी युगधात्री च यमलार्जुनभञ्जनी ॥ १३२॥ जृम्भन्यादिरतादेवी जमदग्निप्रपूजिता । जालन्धरी जितक्रोधा जीमूतैश्वर्यदायका ॥ १३३॥ क्षेमरूपा क्षेमकरी क्षेत्रदा क्षेत्रवर्धिनी । क्षारसमुद्रसंस्था च क्षीरजा क्षीरदायका ॥ १३४॥ क्षुधाहन्त्री क्षेमधात्री क्षीरार्णवसमुद्भवा । क्षीरप्रिया क्षीरभोजी क्षत्रियकुलवर्द्धिनी ॥ १३५॥ खगेन्द्रवाहिनी खर्व खचारीणी खगेश्वरी । खरयूथविनाशी च खड्गहस्ता च खञ्जना ॥ १३६॥ षट्चक्राधारसंस्था च षट्चक्रस्याधिदेवता । षडङ्गज्ञानसम्पन्ना खण्डचन्द्रार्धशेखरा ॥ १३७॥ षट्कर्मरहिता ख्याता खरबुद्धिनिवारिणी । षोडशाधारकृद्देवी षोडशभुजशोभिता ॥ १३८॥ षोडशमूर्तीषोडश्या खड्गखेटकधारिणी । घृतप्रिया घर्घरिका घुर्घुरीनादशोभिता ॥ १३९॥ घण्टानिनादसन्तुष्टा घण्टाशब्दस्वरूपिणी । घटिकाघटसंस्था च घ्राणवासी घनेश्वरी ॥ १४०॥ चारुनेत्रा चारुवक्त्रा चतुर्बाहुश्चतुर्भुजा । चञ्चला चपला चित्रा चित्रिणी चित्ररञ्जिनी ॥ १४१॥ चन्द्रभागा चन्द्रहासा चित्रस्था चित्रशोभना । चित्रविचित्रमाल्याङ्गी चन्द्रकोटिसमप्रभा ॥ १४२॥ चन्द्रमा च चतुर्वेदा प्रचण्डा चण्डशेखरी । चक्रमध्यस्थिता देवी चक्रहस्ता च चक्त्रिणी ॥ १४३॥ चन्द्रचूडा चारुदेहा चण्डमुण्डविनाशिनी । चण्डेश्वरी चित्रलेखा चरणे नूपुरैर्युता ॥ १४४॥ चैत्रादिमासरूपा सा चामरभुजधारिणी । चार्वङ्का चर्चिका दिव्या चम्पादेवी चतुर्थचित् ॥ १४५॥ चतुर्भुजप्रिया नित्यं चतुर्वर्णफलप्रदा । चतुस्सागरसङ्ख्याता चक्रवर्तिफलप्रदा ॥ १४६॥ छत्रदात्री छिन्नमस्ता छलमध्यनिवासिनी । छायारूपा च छत्रस्था छुरिकाहस्तधारिणी ॥ १४७॥ उत्तमाङ्गी उकारस्था उमादेवीस्वरूपिणी । ऊर्ध्वाम्नायी उर्ध्वगाम्या ॐकाराक्षररूपिणी ॥ १४८॥ एकवक्त्रा देवमाता ऐन्द्री ऐश्वर्यदायका । औषधीशा चौषधीकृत् ओष्टस्था ओष्टवासिनी ॥ १४९॥ स्थावरस्था स्थलचरा स्थितिसंहारकारिका । रुं रुं शब्दस्वरूपा च रुङ्काराक्षररूपिणी ॥ १५०॥ आर्युदा अद्भुतप्रदा आम्नायषट्स्वरूपिणी । अन्नपूर्णा अन्नदात्री आशा सर्वजनस्य च ॥ १५१॥ आर्तिहारी च अस्वस्था अशेषगुणसंयुता । शुद्धरूपा सुरूपा च सावित्री साधकेश्वरी ॥ १५२॥ बालिका युवती वृद्धा विश्वासी विश्वपालिनी । फकाररूपा फलदा फलवन्निर्फलप्रदा ॥ १५३॥ फणीन्द्रभूषणा देवी फकारक्षररूपिणी । ऋद्धिरूपी ऋकारस्था ऋणहा ऋणनाशिनी ॥ १५४॥ रेणुराकाररमणी परिभाषा सुभाषिता । प्राणापानसमानस्थोदानव्यानौ धनञ्जया ॥ १५५॥ कृकरा वायुरूपा च कृतज्ञा शङ्खिनी तथा । कृर्मनाम्न्युन्मीलनकरी जिह्वकस्वादुमीलना ॥ १५६॥ जिह्वारूपा जिह्वसंस्था जिह्वास्वादुप्रदायका । स्मृतिदा स्मृतिमूलस्था श्लोककृच्छ्लोकराशिकृत् ॥ १५७॥ आधारे संस्थिता देवी अनाहतनिवासिनी । नाभिस्था हृदयस्था च भूमध्ये द्विदले स्थिता ॥ १५८॥ सहस्रदलसंस्था च गुरुपत्नीस्वरूपिणी । इति ते कथितं प्रश्नं नाम्ना वाग्वादिनी परम् ॥ १५९॥ सहस्रं तु महागोप्यं देवानामपि दुर्लभम् । न प्रकाश्यं मयाऽऽख्यातं तव स्नेहेन आत्मभूः ॥ १६०॥ एककालं द्विकालं वा त्रिकालं वापि भक्तितः । न तेषां दुर्लभं किञ्चित् त्रिषु लोकेषु वल्लभ ॥ १६१॥ साधकाभीष्टदो ब्रह्मा सर्वविद्याविशारदः । त्रिवारं यः पठिष्यति नरः शक्तिधरो भवेत् ॥ १६२॥ पञ्चधा भाग्यमाप्नोति सप्तधा धनवान्भवेत् । नवमैश्वर्यमाप्नोति साधकश्शुद्धचेतसा ॥ १६३॥ पठेदेकादशो नित्यं स सिद्धिभाजनो भवेत् । मासमेकं पठित्वा तु भवेद्योगीश्वरोपमः ॥ १६४॥ मासषट्कं पठेद्धीमान्सर्वविद्या प्रजायते । वत्सरैकं पठेद्यो मां साक्षात्सर्वाङ्गतत्त्ववित् ॥ १६५॥ गोरोचनाकुङ्कुमेन विलिखेद्भूर्जपत्रके । पूजयित्वा विधानेन देवीं वागीश्वरीं जपेत् ॥ १६६॥ सहस्रवारपठनान्मूकोऽपि सुकविर्भवेत् । पञ्चम्यां च दशम्यां च पूर्णमास्यामथापि वा ॥ १६७॥ गुरोराराधनतत्त्वेनार्च्चयेद्भक्तिभावतः । जडं हन्ति गदं हन्ति वान्तिभ्रान्तिविनाशनम् ॥ १६८॥ बुद्धि मेधा प्रवर्धते आरोग्यं च दिने दिने । अपमृत्युभयं नास्ति भूतवेतालडकिनी- ॥ १६९॥ राक्षसीग्रहदोषघ्नं कलिदोषनिवारणम् । आधिव्याधिजलोन्मग्न अपस्मारं न बाधते ॥ १७०॥ प्रातःकाले पठेन्नित्यमुन्मादश्च विनश्यति । मेधाकान्तिस्मृतिदा भोगमोक्षमवाप्यते ॥ १७१॥ महाव्याधिर्महामूठनिर्मूलनं भवेतत्क्षणात् । विद्यारम्भे च वादे च विदेशगमने तथा ॥ १७२॥ यात्राकाले पठेद्यदि विजयं नात्र संसयः । सिद्धमूली तथा ब्राह्नी उग्रगन्धा हरीतकी ॥ १७३॥ चतुर्द्रव्यसमायुक्तं भक्तियुक्तेन मानसा । ब्राह्मणेन लभेद्विद्या राज्यं च क्षत्रियो लभेत् ॥ १७४॥ वैश्यो वाणिज्यसिद्धिं च शूद्रेषु चिरजीवितः । वाग्वादिनीसरस्वत्यास्सहस्रन्नाम यस्मरेत् ॥ १७५॥ तस्य बुद्धिः स्थिरा लक्ष्मी जायते नात्र संशयः । यं यं कामयते मर्त्यस्तं तं प्राप्नोति नित्यशः ॥ १७६॥ अतःपरं किमुक्तेन परमेष्टिन् महामते । सर्वान्कामान्लभेत्सद्यः लोकवश्यं तिकारकः ॥ १७७॥ षट्कर्मं च महासिद्धिमन्त्रयन्त्रादिगीश्वरः । कामक्रोधादहङ्कारदम्भलोभं विनश्यति ॥ १७८॥ पुरुषार्थी भवेद्विद्वान् विजित्वा तु महीतले । नातःपरतरं स्तोत्रं सरस्वत्या पितामह ॥ १७९॥ न देयं परशिष्येभ्यो भक्तिहीनाय निन्दके । सुभक्तेभ्यो सुशिष्येभ्यो देयं देयं न संशयः ॥ १८०॥ इदं स्तोत्रं पठित्वा तु यत्र यत्रैव गच्छति । कार्यसिद्धिश्च जायते निर्विघ्नं पुनरागमः ॥ १८१॥ इति श्रीभविष्योत्तरपुराणे श्रीनन्दिकेश्वरब्रह्मासंवादे सर्वाधारसमये हृदयाकर्षणकारणे वाग्वादिनीसहस्रनामस्तोत्रं सम्पूर्णम् । शुभमस्तु । संवत १८५१ फल्गुनमासे कृष्णपक्षे नवम्यां सौम्यवासरे सहस्रनाम लिखितं, तुलसीब्राह्मण यथाप्रत्यर्हं च लिखितम् ॥ श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं श्रीं