अक्षर आकार:

श्रीवाग्वादिनीषट्कम्

Shri Vagvadinishatkam

श्रीवाग्वादिनीषट्कम्

वरदाप्यहेतुकरुणाजन्मावनिरपि पयोजभवजाये । किं कुरुषेन कृपां मयि वद वद वाग्वादिनि स्वाहा ॥ १॥ किं वा ममास्ति महती पापततिस्तत्प्रभेदने तरसा । किं वा न तेऽस्ति शक्तिर्वद वद वाग्वादिनि स्वाहा ॥ २॥ किं जीवः परमशिवाद्भिन्नोऽभिन्नोऽथ भेदश्च । औपाधिकः स्वतो वा वद वदवाग्वादिनि स्वाहा ॥ ३॥ वियदादिकं जगदिदं सर्वं मिथ्याऽथवा सत्यम् । मिथ्यात्वधीः कथं स्याद्वद वद वाग्वादिनि स्वाहा ॥ ४॥ ज्ञानं कर्म च मिलितं हेतुर्मोक्षेऽथवा ज्ञानम् । तज्ज्ञानं केन भवेद्वद वदवाग्वादिनि स्वाहा ॥ ५॥ ज्ञानं विचारसाध्यं किं वा योगेन कर्मसाहस्रैः । कीदृक्सोऽपि विचारो वद वद वाग्वादिनि स्वाहा ॥ ६॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीवाग्वादिनीषट्कम् सम्पूर्णम् ।