अक्षर आकार:

श्रीवाग्मतिसहस्रनामस्तोत्रम्

Shri Vagmati Sahasranama stotram

श्रीवाग्मतिसहस्रनामस्तोत्रम्

ॐ श्रीवाग्मत्याः सहस्रनामस्तोत्रस्य गायत्रीच्छन्दः । वागीश्वरी देवता वाग्भवो बीजं, कामराजः लज्जा कीलकं, शिवगङ्गा बुद्धिब्रह्मसरस्वतीशक्तिश्चतुर्वर्गसाधने विनियोगः ॥ २६॥ अथ सहस्रनामस्तोत्रम् । लज्जाबीजं त्रिधा लिख्य वाग्भवञ्च त्रयस्त्रिधा । धर्मबीजं त्रिधा ध्रीं ध्रीं नेत्रवह्निसमायुताम् ॥ २७॥ लज्जात्रयं गणेशाख्यं ग्रीं ग्रीं ग्रीमिति पूर्ववत् । शारदायै नमश्चान्ते सिद्धं सारस्वतीमनुम् ॥ २८॥ सर्वोपरि तथोङ्कारं जपाद्वागीश्वरो भवेत् । प्रणवश्च त्रयं वाणीलज्जाधर्मत्रयाङ्गणम् ॥ २९॥ शारदायै शुभे भार्या प्रजपाद्वाक्पतिर्भवेत् । करपुटे जलं धृत्वा त्रयोदश्यां निरामिषः ॥ ३०॥ वाग्मत्याः प्रजपन्यश्च कविराजो भवेद्द्रुतम् । पुण्डरीकसमासीनां कर्प्पूरेन्दुसमोज्ज्वलाम् ॥ ३१॥ त्र्यक्षां स्मिताननां ध्येयां सर्वालङ्कारशोभनाम् । मालां वरं दधानाञ्च पुस्तकमभयं करैः ॥ ३२॥ वाग्देवीं वाग्मतीं ध्यायेच्चन्द्रकलाद्रवसुधाम् । अथ सहस्रनामम् । ॐ वाग्मती वाग्भवा वाणी वागीश्वरी वचोवरा ॥ ३३॥ वागीशा वरदा ब्राह्मी वाग्विभूतिश्च भारती । वागीशवल्लभा भाषा गीरूपा वाक्-स्वरूपिणी ॥ ३४॥ वाग्रूपिणी च चैतन्या वाग्वागीश्वरवल्लभा । वाचोर्मिमालिनी वाहा अर्वाक्पापोर्मिनाशिनी ॥ ३५॥ वाग्देवेश्वरकण्ठस्था वाग्देवी वाग्मतीश्वरा । वाग्भूतार्णप्रवाहा च वागैश्वर्या सरस्वती ॥ ३६॥ अणिमारुन्धत्ती अर्द्धा अगैश्वर्यावतारिणी । अशरीरार्द्धमात्रा च अन्नरूपाघहारिणी ॥ ३७॥ अतिसौम्याच्युताशोका अर्चिताचलवाहिनी । अत्युग्राचलसम्भिन्ना अच्छिन्नाच्छिन्नवाहिनी ॥ ३८॥ आनन्दिनी स्वभक्तानामात्मान्तस्था च जीविनाम् । आनन्दाऽमृतवर्णाभा आद्याननसमुद्भवा ॥ ३९॥ आनन्दोर्मिप्रवाहा च आपोदेवी पयोमयी । आकाशवाहिनी आर्या आकरा शर्मणोमिणाम् ॥ ४०॥ इच्छाशक्तिश्च इन्द्राणी इन्दिरा हरिवल्लभा । ईप्सितार्थप्रदा इन्दुरिङ्गितज्ञा शिवप्रिया ॥ ४१॥ ईश्वरी लोकईशानी ईश्वरामोदकारिणी । ईशानी शाङ्करी शान्ता ईशानमुखसम्भवा ॥ ४२॥ उग्रास्या उग्ररूपा च उग्रवरप्रदा उमा । उग्रार्द्धाङ्गनिषण्णा च उग्रशीर्षावतारिणी ॥ ४३॥ ऊर्ध्वेश्वरी सदोर्ध्वस्था ऊनकिल्बिषकारिणी । ऊशीरगन्धसुप्रीता ऊःच वरप्रदाग्रणी ॥ ४४॥ ऊरूपा सर्वसंहारे ऊर्ध्वगतिप्रदर्शिनी । ऊर्ध्वगा ऊग्रभार्या च ऊर्ध्वस्थानप्रदायिनी ॥ ४५॥ ऋग्यजुरथ सामात्मा ऋवर्णा ऋद्धिरूपिणी । ऋकारा दितिरूपा च ऋणहन्त्री ऋतूत्सवा ॥ ४६॥ ऋकारमुखसम्भूता ऋवर्णात्मामरप्रसूः । लृकारसंस्तुताऽनेका लृवर्णसेवितारिहा ॥ ४७॥ एका चैकाररूपा च एकारा मदनोत्सवा । एकारस्था समैकास्या एकाधारा बहुश्रिता ॥ ४८॥ ऐकारवल्लभा ऐन्द्री ऐकारा वामलोचना । ऐकारात्मा अनेकाध्वा ऐन्द्रीगणप्रसेविता ॥ ४९॥ ओङ्कारस्था तथोङ्कारा ओङ्काराश्रुविभूषणा । ओङ्कारवक्त्रसम्भूता ओङ्कारपूर्वजप्रिया ॥ ५०॥ और्ध्वरेतोऽर्च्चिता और्वी और्ध्वदेहफलप्रदा । औत्तानपादसंप्रीता और्वासमोर्वशीप्रिया ॥ ५१॥ अम्बिकाम्बालिकानन्ता अर्णवाध्वरशीर्षगा । अङ्कुशधारिणी अम्बा अन्नपूर्णान्नकारिणी ॥ ५२॥ अः रुद्रवक्त्रसञ्जाता अरूपा शिववल्लभा । अप्रोक्ता चैनसां शास्ता अनङ्गारिविनोदिनी ॥ ५३॥ कलाधारा कलारूपा कौमुदी कालभैरवी । कमला कामिनी काली कुल्लुका कुसुमप्रिया ॥ ५४॥ कलावती करालास्या कैलासस्था कलानिधिः । कामाख्या कुलकान्ता च कामदा कामचारिणी ॥ ५५॥ कामधेनुः कृशाङ्गी च कालिन्दी कुञ्जरेश्वरी । कान्तिकाया च काञ्चीस्था अलका कूटवाहिनी ॥ ५६॥ कुलवती कुटिलाङ्गी कोटराक्षी कपालिनी । कामेश्वरी च कङ्काली कीर्तिदा कामसुन्दरी ॥ ५७॥ कामार्त्ता कामरूपा च करुणा कुलदेवता । कुलिशाङ्गी कला काष्ठा कुमारी कमलेक्षणा ॥ ५८॥ कल्याणी कार्चिता कान्ती कालरात्री च कौशिकी । काम्या अलकनन्दा च कुलधर्मप्रकाशिनी ॥ ५९॥ कलुषघ्नी कृपास्वच्छा कृष्णा कृष्णसमर्च्चिता । कान्तकल्लोललोलाढ्या कृपाकल्लोलशालिनी ॥ ६०॥ खगेश्वरी खरूपा च खगा खगेन्द्रवाहिनी । खवर्णा खड्गहस्ता च खेचरी खेटकायुधा ॥ ६१॥ खाखोदरी खगेन्द्राभा खमणिद्युतिशोभना । खरदंष्ट्रा खगास्या च खण्डपरशुवल्लभा ॥ ६२॥ गजास्याम्बा च गुह्येशी गजेन्द्रदशनच्छविः । गजचर्मावृताजाया गजाननप्रसूतिका ॥ ६३॥ गौरी गोदावरी गङ्गा गन्धर्वगणसेविता । गणनीया गणाध्यक्षा गम्भीरनीरवाहिनी ॥ ६४॥ गणमाता च गान्धारी गगनमणिभूषणा । गोमती गगनेशानी गिरिजा गिरिशप्रिया ॥ ६५॥ गङ्गार्चिता च गायत्री गिरिस्था गिरिसम्भवा । गण्डकी गरुडस्था च गोकर्णार्चा च गौतमी ॥ ६६॥ घनभक्तिप्रिया घोरा घनामरप्रसेविता । घृताचीसेविता घोरा घोराग्न्या घोरवल्लभा ॥ ६७॥ घनघनौघघोरास्या घनपापविनाशिनी । घनस्वना घना घोरा घोरतरा घनच्छविः ॥ ६८॥ ङेश्वरी घोरघोषा च घोरकिल्बिषघातिनी । चञ्चला चारुवाहा च चण्डेश्वरी च चित्तवित् ॥ ६९॥ प्रचण्डा चण्डरूपा च चामुण्डा चतुरानना । चपला चण्डिका चण्डी षट्चक्रान्तर्न्निवासिनी ॥ ७०॥ चारुचारा च चार्वङ्गी चतुरा चारुहासिनी । चतुःषष्टिकला चित्रा चित्राङ्गी चारुलोचना ॥ ७१॥ चारुदेहा चतुर्बाहुश्चित्रभानुतनुप्रभा । चन्द्रमा चन्द्रभागा च चैतन्या चक्रधारिणी ॥ ७२॥ छन्दोरूपा छवर्णाभा प्रोच्छायाच्छन्नविग्रहा । छायासञ्छन्दितालोका छकारा छिन्नविग्रहा ॥ ७३॥ छत्रसञ्छादिता स्वच्छा लाञ्छनोर्मिपयश्छविः । छन्दोमयी श्रुतिच्छन्दा इच्छात्मा छिन्नसंशया ॥ ७४॥ जगदानन्दिनी ज्वाला जाम्बवत्यर्चिताजिता । जगत्प्रिया जितक्रोधा जगद्धीरा जितेन्द्रिया ॥ ७५॥ जाह्नवी जानकी जाप्या जननी जननन्दिनी । जगद्धात्री जगन्मान्या जन्तुजन्मान्तराश्रिता ॥ ७६॥ जगद्वपुर्ज्जगज्जीवा जातवेदापराजिता । जयमूर्तिर्ज्जगन्माता जनस्वान्तनिवासिनी ॥ ७७॥ जाम्बूनदप्रवाहा च जया च विजयाजया । जगज्जीवमयी माता जयन्ती जगदुच्छ्रिता ॥ ७८॥ जीवेश्वरी जनैश्वर्या जीवेशजनकारीणी । झङ्केश्वरी झकारात्मा झङ्कारस्वनवाहिनी ॥ ७९॥ झर्झरानिपतन्ती च झङ्केशार्द्धाङ्गहारिणी । झषावतारसुप्रीता झषवर्गप्रसेविता ॥ ८०॥ झर्झररवसंक्षिप्ता झकाररूपतोषिता । अट्टाट्टहासिनी क्रोधात्कोटिकोटितरङ्गिणी ॥ ८१॥ तटिनी करहाटाढ्या अटवीक्षितिगामिनी । हिमकूटतटोद्भूता कूटकटकवाहिनी ॥ ८२॥ शङ्खताटङ्करम्यास्या निधनोद्यतटङ्किनी । पीठेश्वरी च पीठार्या पीवराम्बुप्रवाहिनी ॥ ८३॥ डाकिनी डमरुहस्ता डकारेशा डनादिनी । डम्भहन्त्री च भेरुण्डा डामरा डण्डतर्ज्जनी ॥ ८४॥ ढरूपा ढस्वरा ढात्मा भङ्गाढ्या ढण्ढकारिणी । ढक्कावाद्यस्वनावीचीदृढधारा दृढारवा ॥ ८५॥ प्रणवेशी प्रणम्यार्या नम्या प्रणवसम्भवा । तरङ्गिणी तरङ्गाढ्या तन्त्रीतरलगामिनी ॥ ८६॥ तामसी च तमोरूपा तमोगुणा तमःपरा । तीरवती त्रिरूपा च तुष्टिस्तीव्राद्रिहाक्त्रया ॥ ८७॥ तीव्रगा तीव्रभङ्गी च तीव्रतोया तपोमयी । दुस्तारा दुस्तरत्राता तारेशी ताररूपिणी ॥ ८८॥ तारिणी ताररूपा च तरलतरतारिणी । तपोनिष्ठा त्रिमात्रा च तपस्विनी त्रिलोचना ॥ ८९॥ त्रिदिवस्था त्रिधारा च तारेश्वरी त्रिविक्रमा । त्रिवर्गागामिनी त्रिस्था तत्त्वा त्रिपुरवासिनी ॥ ९०॥ त्रिलोकात्मा त्रिलोकस्था त्रैलोक्यतीर्थनन्दिनी । ताटङ्किनी च तारस्था तारा त्रिशूलधारिणी ॥ ९१॥ त्रिमूर्तिस्तरणी तापा त्र्यक्षरा त्रिविधाङ्गिनी । तीर्थवन्द्यालसत्तीर्था तीर्थराज्ञी च तीर्थदा ॥ ९२॥ तिर्थाद्या तीर्थज्येष्ठा च तीर्थार्या तीर्थवाहिनी । तार्क्ष्यस्था तार्क्ष्यवन्द्या च तार्क्ष्यार्या तार्क्ष्यवाहिनी ॥ ९३॥ स्थानस्था स्थण्डिला स्थीरा स्थाण्वीश्वरी स्थलाश्रिता । मथुरा मथुरास्थाता स्थानीयस्था स्थला स्थिरा ॥ ९४॥ ज्येष्ठा च स्थविरा मन्था मैथिली प्रमथाधिपा । दुष्कृतघ्नी स्पृहादोग्ध्री देवमाता दधिप्रभा ॥ ९५॥ देवता देवमूर्तिश्च देवदेवप्रियोत्तमा । देवदूती च दीप्तास्या देवकी दैत्यनाशिनी ॥ ९६॥ द्वीपिचर्मावृता दाक्ष्या दक्षयज्ञप्रमाथिनी । दारिद्र्यनाशिनी दान्ता दाक्षायणी च दुर्गहा ॥ ९७॥ दावाग्निदलना दक्षा दिग्वस्त्रा द्वादशानना । दशभुजा च दक्षिण्या दण्डिनी दण्डवत्प्रिया ॥ ९८॥ दुरितघ्नी दया दुर्गा दुराधर्षा दिगम्बरी । दाहप्रशमनी दीप्ता दुराराध्या च दारुणा ॥ ९९॥ अष्टादशभुजा चण्डा द्विपत्रवासिनी दया । दक्षकन्या द्रवा दिव्या दिव्यरूपा दरीस्तवा ॥ १००॥ दिव्यार्चिता च दिव्याङ्गी देवसैन्या सुदीप्तिका । दायिनी द्रव्यरूपा च दानवघ्नी दयाकरा ॥ १०१॥ दुर्गरूपा दुराराध्या दुर्ज्जया दुरतिक्रमा । देवेश्वरी दयाशीला दिव्यमोक्षप्रदायिनी ॥ १०२॥ धीरा धीरप्रवाहा च धाराप्रवाहिणी सुधा । धरित्री धारिणी धात्री धरणीधरप्रवाहिणी ॥ १०३॥ धन्या धान्यधरा धीरा धारणा धरणी धरा । धाराधरानना धैर्या धर्मात्मा धर्मरूपिणी ॥ १०४॥ धीरूपा धिषणा धात्री धूम्राक्षा धर्मविग्रहा । ध्यानगम्या निशि ध्येया ध्यानानना धराश्रिता ॥ १०५॥ ध्यानरूपा बुधध्याता ध्यानस्था ध्यानरूपिणी । ध्यानातीतामरध्याता ध्यातव्या ध्यानतत्परा ॥ १०६॥ ध्यानेक्षणा धिया ध्येया ध्यानास्या ध्यानसंश्रिता । धीरध्याता धराधाना धाराध्येया विधायिनी ॥ १०७॥ नन्दिनी च निराधारा निष्कला निर्गुणा नदी । नीलघनस्वना नग्ना नानाजातिनिवासिनी ॥ १०८॥ नागोपवीतिनी नाट्यानन्दा नृमुण्डधारिणी । नीलघनाभदेहा च निर्द्वन्द्वा नागनायिका ॥ १०९॥ नागेन्द्रदन्तसङ्काशा नया नरकनाशिनी । निर्भया निर्भरा निष्ठा नारायणी निरञ्जना ॥ ११०॥ निष्ठुरा च निराकारा नारसिंही च नोपमा । निशीथिनी निशाहन्त्री नानादुःखनिवारिणी ॥ १११॥ निर्मदा करतोया च निष्कलङ्काऽघनाशिनी । शतद्रुसिन्धुसंवाहा नित्यानन्दविधायिनी ॥ ११२॥ त्रिनयना नृसिंहार्या नानाकारप्रवाहिणी । पापघ्नी पावनी पद्मा पवित्रा पद्मपूजिता ॥ ११३॥ प्रज्ञारूपा प्रचण्डा च पद्मस्था पद्मसम्भवा । पद्माक्षी पद्मिनी प्रीता प्रकटवासिनी परा ॥ ११४॥ प्रीतिभक्ता च पश्यन्ती परम्ब्रह्मावतारिणी । प्रभावती परात्मा च पद्मजा परमेश्वरी ॥ ११५॥ पातकघ्नी पराशक्तिः पञ्चमी पञ्चमारुता । पञ्चात्मा पञ्चतत्त्वा च पञ्चत्वस्था परापरा ॥ ११६॥ पञ्चपीठेश्वरी पूर्णा पूरका पञ्चमीप्रिया । पूर्णिमा पूर्णरूपा च पूर्णेश्वरी परात्परा ॥ ११७॥ फणीन्द्रभूषणा फेरुः स्फटिकाभा प्रवाहिणी । स्फीता स्फोटप्रवाहा च स्नातकस्फोटनाशिनी ॥ ११८॥ फणिहारा फलाढ्यार्या स्फटिकार्णा फलप्रदा । फेरुस्था फेरुरावा च फेत्कारिणी तथा प्रभा ॥ ११९॥ वैष्णवी वामरूपा च वामेश्वरी वरप्रदा । वामस्था वाहिनी वामा वामेशा वामलोचना ॥ १२०॥ वरेण्या वरदा बाला वरार्या वरदायिनी । विमला च विशालाक्षी विश्वाक्षी विन्दुवासिनी ॥ १२१॥ विश्वात्मा च विरूपाक्षी विभवा विन्ध्यवासिनी । बोधिनी वीरजा वीरा विश्वयोनिश्च वत्सला ॥ १२२॥ विश्वा सर्वसुधा वीजा विशालामृतवाहिनी । विद्याधरी च विद्यात्मा वैखरी वामकेश्वरी ॥ १२३॥ वेदरूपा च वेदान्ता वेदाङ्गा वेदवल्लभा । वाराही वासवी वाणी वाराणसीनिवासिनी ॥ १२४॥ भवानी भववन्द्या च भूमिस्था भूमिभूषणा । भागीरथी भवाराध्या भवमाता भवेश्वरी ॥ १२५॥ भयापहा भवानन्दा भयङ्करी भयनाशिनी । प्रभादेवी भगेशी च भाविनी भवनाशिनी ॥ १२६॥ भक्तिगम्या च भीतिघ्नी भास्करी भुवनेश्वरी । भक्तिवरप्रदा भव्या भ्रामरी भगमालिनी ॥ १२७॥ भक्तितुष्टा च भेरुण्डा भुक्तिदा भवतोषिणी । भावना भुवनेशी च भक्तीशा भवलोचना ॥ १२८॥ भास्वद्देहा च भव्यास्या भावती भवरञ्जनी । भूभूषणा च भूतस्था भूमिभूषणवाहिनी ॥ १२९॥ भगवती भवात्मा च भवदुःखप्रभञ्जनी । भीमरूपा भवभ्रान्ती भव्या भव्यार्च्चितानना ॥ १३०॥ भीमादेवी शुभा भद्रा भीमा भीमनिनादिनी । भूतेशी भूतधात्री च भूतस्था भूतभाविनी ॥ १३१॥ माहेश्वरी महामाया मुञ्जवदद्रिसङ्गमा । मशेखरी महामारी मान्या महेशनन्दिनी ॥ १३२॥ महाज्योतिर्महामेधा मायापुरीनिवासिनी । मातङ्गिनी मनोरूपा महाभूता च मध्यमा ॥ १३३॥ मणिपूरकमध्यस्था मोहिनी विश्वमोहिनी । महाधृतिर्महाकाली मदिरा मन्दितानना ॥ १३४॥ महामतिर्महासूक्ष्मा मधुमती महोदरी । मेनकागर्भजा मास्था मङ्गला च सुमङ्गला ॥ १३५॥ मन्दहासा महादंष्ट्रा मालिका च महोमखा । मदालसा मनोज्ञा च मनस्विनी मनोहरा ॥ १३६॥ मन्दाकिनी महाभद्रा मोक्षदात्री च माधवी । मातरा मन्त्ररूपा च मन्वमाता मणिप्रभा ॥ १३७॥ मुद्राप्रिया च मेरुस्था मन्त्रात्मिका मनोरमा । मृगेन्द्रादिप्रवाहा च महेशमुखसम्भवा ॥ १३८॥ मणिमतिर्महावेगा मणिमुकुटसम्भवा । याज्ञेया यमुना ज्येष्ठा यज्ञमाता यशस्विनी ॥ १३९॥ यज्ञाङ्गी यामरूपा च यक्षरूपा यशोमयी । यज्ञप्रिया च यज्ञेशा यज्ञभोक्त्री यशःप्रिया ॥ १४०॥ यशोदागर्भसञ्जाता यशःपूर्णा यशोबला । यादःप्रसेविता याम्या यातुधानप्रपूजिता ॥ १४१॥ योगसारा युगाद्या च योगेश्वरी अयोनिजा । योगीशा योगरूपा च योगीन्द्रहृदयाश्रिता ॥ १४२॥ योगिनीसेविता योग्या योगीश्वरा युगस्थिता । योगीश्वरास्यसम्भूता योगसिद्धा यशोमयी ॥ १४३॥ योगोद्भवा सुयोगार्या योगेन जलवाहिनी । रसोत्तमप्रवाहा च रुद्रहृद्रमणा रसा ॥ १४४॥ रावणभूतिदा रम्भा राजराजेश्वरी वरा । रसवाहा च रम्भोरू रसभोक्त्री रसप्रिया ॥ १४५॥ रागप्रिया रसज्ञा च रामा राघावतारिणी । रमणी राधिकाऽऽराध्या राज्यदा राज्यराजिता ॥ १४६॥ राकिणी राज्यभोक्त्री च रौद्रीनामवरप्रदा । रोहिणी रक्तपद्मस्था रतिज्ञा ऋद्धिरूपिणी ॥ १४७॥ रुद्रप्रिया च रुद्री च रथस्था रथगामिनी । रत्नाङ्गी रक्तवासा च रक्ताक्षी रक्तदन्तिका ॥ १४८॥ रत्नगृहा च रत्नस्था रत्नपद्माश्रिता रसा । लम्बोदरप्रसूता च मृगलाञ्छनशेखरा ॥ १४९॥ लम्बिका नलिनोल्लासा लाकिनी ललितालका । ललना ललज्जिह्वा च ललिता लोहिताङ्गिनी ॥ १५०॥ लम्बोदरी सुलीलाङ्गा लोलकल्लोलमालिनी । लक्ष्मीर्ल्लक्ष्मीप्रदा लक्ष्मा लक्षालक्षतरङ्गिणी ॥ १५१॥ लक्ष्मीरूपा च लक्ष्मीस्था लक्ष्मीलक्ष्मावधिश्रिता । वेणुर्वशप्रिया ब्राह्मी वल्लकीवाससः प्रिया ॥ १५२॥ बालीशा बालिका बाला ब्रह्मस्वच्छोर्मिमालिनी । ब्रह्मस्था ब्रह्मरूपा च ब्रह्मेशी ब्रह्मपूजिता ॥ १५३॥ ब्रह्मातीता परं ब्राह्मी ब्रह्मेशाच्युतवन्दिता । शिवेश्वरी शिवावाहो शाम्भकरी शिवप्रिया ॥ १५४॥ शर्वेश्वरी च शर्वाणी शान्ता शान्तप्रवाहिणी । शमना शक्तिरूपा च शार्ङ्गिणी सर्वमङ्गला ॥ १५५॥ शतरुद्रा शची शीता शीला शीलप्रदा शुभा । शीलरूपा सुशीलस्था श्रीरूपा श्रीकरी शिवा ॥ १५६॥ श्रीमयी श्रीनिवासा च श्रीमती श्रीधरार्चिता । श्रद्धाप्रिया सदाश्रद्धा श्रद्धात्मा च श्रुतिप्रिया ॥ १५७॥ श्रुतिप्रज्ञा शशाङ्काभा श्रुतिरूपा शुचिस्मिता । श्रुतिनी श्रुतिनेत्रा च श्रुतिज्ञा श्रुतिपूजिता ॥ १५८॥ षट्पत्रपद्ममध्यस्था षट्चक्राधारसंश्रिता । चतुःषष्टिकलोपेता षष्ठस्वरी षडङ्गिनी ॥ १५९॥ षडास्यजननी षष्ठी षडानना षरुपिणी । षोडशी षोडशाधारा षोडशारनिषङ्गिणी ॥ १६०॥ साक्षात्सारतरा सारा सत्त्वस्था सर्ववन्दिनी । सात्त्विकी सत्त्वरूपा च सर्वसत्त्वनिवासिनी ॥ १६१॥ संसारसारहा स्वाहा सुभङ्गा साररूपिणी । संवर्त्तान्ता निमेषादिसंवत्सरावतारिणी ॥ १६२॥ सहस्रास्या सहस्राक्षा सावित्री सारदेश्वरी । सर्वेश्वरी च सत्यात्मा सर्वविद्या च साकिनी ॥ १६३॥ स्मृतिमयी च सूर्यात्मा सर्ववर्णान्तसारिणी । सर्वेन्द्रियाश्रिता सूक्ष्मा सर्वेन्द्रियाधिशी वरा ॥ १६४॥ सिद्धात्मा सूक्ष्मरूपांशा सूक्ष्मस्था सोमभूषणा । सङ्ग्रामजयदा साध्वी सृष्टिस्थितिविनाशिनी ॥ १६५॥ सर्वेशा सर्वरोगघ्नी सर्वग्रहविनाशिनी । सदसद्रूपिणी सत्ता स्वस्तिरूपा सरस्वती ॥ १६६॥ ह्रदिनी हरवाग्जाता हरहासास्यनिःसृता । हृत्पद्मवासिनी हृष्टा ग्रहराक्षसनिग्रहा ॥ १६७॥ हंसस्था हंसरूपा च हंसमूर्तिर्हरप्रिया । हिङ्गुला हंसदेवी च हाकिनी हरवल्लभा ॥ १६८॥ हंसेश्वरी हकारात्मा हंसीगतिश्च हासिनी । हरवक्त्रोद्भवा हंसी हरिवन्द्या हरिप्रिया ॥ १६९॥ हेमाभा हिमवत्पुत्री हिमकोटीतपस्विनी । हिमाद्रितुङ्गसानोर्हि पतन्ती हिमशीकरा ॥ १७०॥ क्षोणीश्वरी क्षमारूपा क्षणदेश्वरशेखरा । क्षीणक्षेमङ्करी साक्षात्क्षोभिणी क्षितिवाहिनी ॥ १७१॥ क्षामोदरी क्षमा क्षीणा यक्षेश्वरी सुदक्षिणा । क्षेमङ्करी क्षणाभाङ्गी क्षौममाम्बरी क्षणप्रभा ॥ १७२॥ क्षेत्रज्ञा क्षेमदा क्षीणा अक्षयाक्षेयभृङ्गिणी । क्षेत्रस्था क्षेत्रदेहा च मोक्षदा क्षीप्रवाहिणी ॥ १७३॥ इत्येतत्कथितं नाम्नां सहस्त्रं सुरदुर्ल्लभम् । पुण्यात्पुण्यतरन्नाम वाग्मत्या नारदाञ्जसा ॥ १७४॥ वर्णितं त्रिदशैः पूर्वं ब्रह्मविष्णुमहेश्वरैः । सुधामयानि नामानि वाग्मत्या महिमानि च ॥ १७५॥ सावधानपरो विप्र पाठकानां विशेषतः । दूरस्थानामशक्तानां वक्ष्यामि तज्जलाप्लवम् ॥ १७६॥ एकधा पाठकस्तस्यां स्नानोद्भवफलं लभेत् । द्विधा च पठनात्स्नाता मनोवाञ्छाफलं लभेत् ॥ १७७॥ त्रिधा प्रपठनात्स्नात्वा भोग्यार्थी भोग्यमाप्नुयात् । चतुर्था पठनात्सौख्यं पञ्चधा धनमाप्नुयात् ॥ १७८॥ षड्धा पाठाद्धि कीर्तिः स्यात्प्रभुत्वं सप्तधा तथा । अष्टधा पठनात्सद्य ऐश्वर्यत्वं फलं लभेत् ॥ १७९॥ नवधा चैव वाक्-सिद्धिं लोकमानपुरःसराम् । दशधा च दिगीशत्वं एकादशाद्धरात्मकम् ॥ १८०॥ पूर्वेद्युः संयमस्तस्यां स्नानं कुर्यात्परेद्युतः । अन्योऽशक्तोऽपरो धीमान् यथोक्तं तत्फलं लभेत् ॥ १८१॥ दर्भपाणिः सुसङ्कल्पी यथेप्सितफलात्मकः । वाग्मतीजीवने स्नात्वा तदभिधानकं पठेत् ॥ १८२॥ एकधा पाठकः पापैः सांवत्सरैः प्रमुच्यते । एवं दशोत्तरं वृद्धिं पाठात्किल्बिषनाशनम् ॥ १८३॥ अशक्तानां प्रभूतानं भक्त्या तच्छ्रवणात्फलम् । अन्याभिः सङ्गमे स्नात्वा वाग्मत्यां स्याद्दशोत्तरम् ॥ १८४॥ सङ्गमे विष्णुपद्याश्च शतोत्तरं फलं लभेत् । मणिमतीसमाजे च सहस्रगुणितं लभेत् ॥ १८५॥ गङ्गासमाजके स्नात्वा वाग्मत्यामयुताधिकम् । गायत्री चैव सावित्री वाग्मती पाठकोऽपराः ॥ १८६॥ तासां समाजके स्नात्वा नियुतं फलमाप्नुयात् । पूर्वजन्मविपाकैश्च विविधरोगसङ्कुलः ॥ १८७॥ वाग्मत्यां स्नातकः पाठात्तत्तद्रोगैर्विमुच्यते । तस्यां स्नाता सकृत्पाठान्मुच्यते कृमिवध्यजैः? ॥ १८८॥ तस्यां स्नानाद्द्विधापाठात्पक्षिहत्यां व्यपोहति । त्रिवारपाठतः स्नातुर्मृगवधोद्भवं तथा ॥ १८९॥ चतुर्द्धा पाठकः स्नात्वा अश्वहत्यां व्यपोहति । पञ्चधा पाठकः स्नाता नरहत्यां व्यपोहति ॥ १९०॥ षड्धा पाठाद्धि तत्स्नातुः स्त्रीहत्या प्रविनश्यति । सप्तधा बालहत्या च स्नातुस्तस्यां विनश्यति ॥ १९१॥ मिथ्योक्तमष्टधा पाठादत्युत्कटं व्यपोहति । नवधा पाठतः स्नातुर्गोवधजो विनश्यति ॥ १९२॥ दशधा पाठतः स्नातुर्ब्रह्महत्यां व्यपोहति । स्वर्णस्तेयसुरापानमगम्यागमनोद्भवम् ॥ १९३॥ अभक्ष्यभक्षजं तस्यां स्नाता पाठाद्विसर्ज्जति । कदाचिद्दैवयोगेन हरिवासे गिरौ व्रजन् ॥ १९४॥ यत्र चासीद्रमातीर्थं सावित्री वाग्मती तथा । गायत्री सङ्गमे धीमान् स्नात्वा नाम पठिष्यति ॥ १९५॥ कोटिजन्मार्ज्जितं पापं त्यक्त्वा याति परां गतिम् । गिर्यारोहणमात्रेण अश्वमेधफलं लभेत् ॥ १९६॥ सङ्क्रान्त्यां पूर्णिमायाञ्च चतुर्द्दश्यां तथा कुहौ । द्वादश्यां च तृतीयायामष्टम्यां योगसंयुगे ॥ १९७॥ नाम्नां सहस्रकं पाठाद्दशोत्तरफलं लभेत् । आतुरो मुच्यते रोगैः कुष्ठार्त्तः कुष्ठकैर्द्रुतम् ॥ १९८॥ ज्वरार्त्तो मुच्यते रुग्भिः श्रुत्वा सहस्रनामकम् । प्रौढरोगप्रयुक्तोपि प्राणकण्ठाश्रिते यदा ॥ १९९॥ नाम्नां सहस्रकं श्रुत्वा परात्परां गतिं लभेत् । ग्रहाः प्रशमनं यान्ति क्रूरा नाम्नां प्रपाठतः ॥ २००॥ विद्यार्थी लभते विद्यां पुत्रार्थी लभते सुतम् । गुर्विणी सूयते पुत्रमाकर्ण्य नामपाठतः ॥ २०१॥ कुष्माण्डा राक्षसाः क्रूरा भूताः प्रेताश्च डाकिनी । नाम्नां पाठकमालोक्य पलायन्तेऽपमृत्यवः ॥ २०२॥ सर्वयज्ञोद्भवं पुण्यं व्रतानां चैव यत्फलम् । धर्माणामुपवासानां सर्वदानोद्भवं फलम् ॥ २०३॥ सर्वतीर्थोद्भवं पुण्यं प्रतिमादर्शनस्य च । तत्पुण्यं गुणितं लक्षं स्नात्वा च वाग्मतीजले ॥ २०४॥ सहस्रनामपाठाद्वै मोक्षं परात्परं लभेत् ॥ २०५॥ वाग्मत्या सलिले स्वकीयचरणौ संस्पृश्य रोगार्जितः प्राणैः कण्ठगतोऽपि पामरजनो मुञ्चत्यसूंस्तत्तटे । सोऽन्ते योगसुगम्यमानपदवीं प्राप्नोति हृद्यं शिवं वाञ्छन्ति त्रिदशा हि तादृशगतिं धीरा जनाः किं पुनः ॥ २०६॥ इति श्रीस्कन्दपुराणे हिमवत्खण्डे ब्रह्मनारदसंवादे वाग्मतीसहस्रनाम चतुरशीत्यधिक शततमोऽध्यायः ॥ १८४॥ The verse numbers are retained as in the adhyAya.