अक्षर आकार:

श्रीवाग्देवीस्तवः

Shri Vagdevistavah

श्रीवाग्देवीस्तवः

वादे शक्तिप्रदात्री प्रणतजनततेः सन्ततं सत्सभायां प्रश्नानां दुस्तराणामपि लघु सुसमाधानमाश्वेव वक्तुम् । वागीशाद्यैः सुराग्र्यौर्विविधफलकृते सन्ततं पूज्यमाना वाग्देवी वाञ्छितं मे वितरतु तरसा भृङ्गभूभृन्निवासा ॥ १॥ व्याख्यामुद्राक्षमालाकलशसुलिखितै राजदम्भोजपाणिः काव्यालङ्कारमुख्येष्वपि निशितधियं सर्वशास्त्रेषु तूर्णम् । मूकेभ्योऽप्यार्द्रचित्ता दिशति करुणया या जवात्सा कृपाब्धि- र्वाग्देवी वाञ्छितं मे वितरतु तरसा श‍ृङ्गभूभृन्निवासा ॥ २॥ जाड्यध्वान्तार्कपङ्क्तिस्तनुजितरजनीकान्तगर्वागमानां शीर्षैः संस्तूयमाना मुनिवरनिकरैः सन्ततं भक्तिनम्रैः । कारुण्यापारवारान्निधिरगतनयासिन्धुकन्याभिवाद्या वाग्देवी वाञ्छितं मे वितरतु तरसा श‍ृङ्गभूभृन्निवासा ॥ ३॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितः श्रीवाग्देवीस्तवः सम्पूर्णः ।