अक्षर आकार:

श्रीवागीश्वर्यष्टोत्तरशतनामावलिः अथवा वाग्वादिन्यष्टोत्तरशतनामावलिः

Shri Vagishvaryashtottarashatanamavalih

श्रीवागीश्वर्यष्टोत्तरशतनामावलिः अथवा वाग्वादिन्यष्टोत्तरशतनामावलिः

ॐ अस्यश्री वागीश्वरी महामन्त्रस्य कण्व ऋषिः विराट् छन्दः श्री वागीश्वरी देवता ॥ ॐ वद - वद - वाक् - वादिनि - स्वाहा एवं पञ्चाङ्गन्यासमेव समाचरेत् ॥ ध्यानम् अमलकमलसंस्था लेखनीपुस्तकोद्यत्- करयुगलसरोजा कुन्दमन्दारगौरा । धृतशशधरखण्डोल्लासिकोटीरचूडा भवतु भवभयानां भङ्गिनी भारती नः ॥ मन्त्रः - ॐ वद वद वाग्वादिनि स्वाहा ॥ । अथ वाग्वादिन्याः नामावलिः । ॐ वागीश्वर्यै नमः । ॐ सर्वमन्त्रमयायै नमः । ॐ विद्यायै नमः । ॐ सर्वमन्त्राक्षरमयायै नमः । ॐ वरायै नमः । ॐ मधुस्रवायै नमः । ॐ श्रवणायै नमः । ॐ भ्रामर्यै नमः । ॐ भ्रमरालयायै नमः । ॐ मातृमण्डलमध्यस्थायै नमः । १० ॐ मातृमण्डलवासिन्यै नमः । ॐ कुमारजनन्यै नमः । ॐ क्रूरायै नमः । ॐ सुमुख्यै नमः । ॐ ज्वरनाशिन्यै नमः । ॐ अतीतायै नमः । ॐ विद्यमानायै नमः । ॐ भाविन्यै नमः । ॐ प्रीतिमन्दिरायै नमः । ॐ सर्वसौख्यदात्र्यै नमः । २० ॐ अतिशक्तायै नमः । ॐ आहारपरिणामिन्यै नमः । ॐ निदानायै नमः । ॐ पञ्चभूतस्वरूपायै नमः । ॐ भवसागरतारिण्यै नमः । ॐ अर्भकायै नमः । ॐ कालभवायै नमः । ॐ कालवर्तिन्यै नमः । ॐ कलङ्करहितायै नमः । ॐ हरिस्वरूपायै नमः । ३० ॐ चतुःषष्ट्यभ्युदयदायिन्यै नमः । ॐ जीर्णायै नमः । ॐ जीर्णवस्त्रायै नमः । ॐ कृतकेतनायै नमः । ॐ हरिवल्लभायै नमः । ॐ अक्षरस्वरूपायै नमः । ॐ रतिप्रीत्यै नमः । ॐ रतिरागविवर्धिन्यै नमः । ॐ पञ्चपातकहरायै नमः । ॐ भिन्नायै नमः । ४० ॐ पञ्चश्रेष्ठायै नमः । ॐ आशाधारायै नमः । ॐ पञ्चवित्तवातायै नमः । ॐ पङ्क्तिस्वरूपिण्यै नमः । ॐ पञ्चस्थानविभाविन्यै नमः । ॐ उदक्यायै नमः । ॐ वृषभाङ्कायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ धूम्रकृत्यै नमः । ॐ प्रस्रवणायै नमः । ५० ॐ बहिःस्थितायै नमः । ॐ रजसे नमः । ॐ शुक्लायै नमः । ॐ धराशक्त्यै नमः । ॐ जरायुषायै नमः । ॐ गर्भधारिण्यै नमः । ॐ त्रिकालज्ञायै नमः । ॐ त्रिलिङ्गायै नमः । ॐ त्रिमूर्त्यै नमः । ॐ पुरवासिन्यै नमः । ६० ॐ अरागायै नमः । ॐ परकामतत्त्वायै नमः । ॐ रागिण्यै नमः । ॐ प्राच्यावाच्यायै नमः । ॐ प्रतीच्यायै नमः । ॐ उदीच्यायै नमः । ॐ उदग्दिशायै नमः । ॐ अहङ्कारात्मिकायै नमः । ॐ अहङ्कारायै नमः । ॐ बालवामायै नमः । ७० ॐ प्रियायै नमः । ॐ स्रुक्स्रवायै नमः । ॐ समिध्यै नमः । ॐ सुश्रद्धायै नमः । ॐ श्राद्धदेवतायै नमः । ॐ मात्रे नमः । ॐ मातामह्यै नमः । ॐ तृप्तिरूपायै नमः । ॐ पितृमात्रे नमः । ॐ पितामह्यै नमः । ८० ॐ स्नुषादायै नमः । ॐ दौहित्रदायै नमः । ॐ नादिन्यै नमः । ॐ पुत्र्यै नमः । ॐ स्वसायै प्रियायै नमः । ॐ स्तनदायै नमः । ॐ स्तनधरायै नमः । ॐ विश्वयोन्यै नमः । ॐ स्तनप्रदायै नमः । ॐ शिशुरूपायै नमः । ९० ॐ सङ्गरूपायै नमः । ॐ लोकपालिन्यै नमः । ॐ नन्दिन्यै नमः । ॐ खट्वाङ्गधारिण्यै नमः । ॐ सखड्गायै नमः । ॐ सबाणायै नमः । ॐ भानुवर्तिन्यै नमः । ॐ विरुद्धाक्ष्यै नमः । ॐ महिषासृक्प्रियायै नमः । ॐ कौशिक्यै नमः । १०० ॐ उमायै नमः । ॐ शाकम्भर्यै नमः । ॐ श्वेतायै नमः । ॐ कृष्णायै नमः । ॐ कैटभनाशिन्यै नमः । ॐ हिरण्याक्ष्यै नमः । ॐ शुभलक्षणायै नमः । ॐ वाग्वादिन्यैः नमः । १०८ ॥ॐ॥