अक्षर आकार:

श्रीवाणीशरणागतिस्तोत्रम्

Shri Vanisharanagatistotram

श्रीवाणीशरणागतिस्तोत्रम्

वेणीं सितेतरसमीरणभोजितुल्यां वाणीं च केकिकुलगर्वहरां वहन्तीम् । श्रोणीं गिरिस्मयविभेदचणां दधानां वाणीमनन्यशरणः शरणं प्रपद्ये ॥ १॥ वाचः प्रयत्नमनपेक्ष्य मुखारविन्दा- द्वाताहताब्धिलहरीमदहारदक्षाः । वादेषु यत्करुणया प्रगलन्ति तां त्वां वाणीमनन्यशरणः शरणं प्रपद्ये ॥ २॥ राकाशशाङ्कसदृशाननपङ्कजातां शोकापहारचतुराङ्घ्रिसरोजपूजाम् । पाकारिमुख्यदिविषत्प्रवरेड्यमानां वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ३॥ बालोडुपप्रविलसत्कचमध्यभागां नीलोत्पलप्रतिभटाक्षिविराजमानाम् । कालोन्मिषत्किसलयारुणपादपद्मां वाणीमनन्यशरणः शरणं प्रपद्ये ॥ ४॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचितं श्रीवाणीशरणागतिस्तोत्रं सम्पूर्णम् ।