अक्षर आकार:

श्रीवाणीप्रश्नमालास्तवः

Shri Vaniprashnamalastavah

श्रीवाणीप्रश्नमालास्तवः

(जैत्रयात्नामधिकृत्य श्रीवाण्याज्ञानन्तरं) किं नाहं पुत्रस्तव मातुः सचराचरस्य जगतोऽस्य । किं मां दूरीकुरुषे देवि गिरां ब्रूहि कारणं तत्र ॥ १॥ किं चाहुरार्यपादास्त्वद्भक्ता मद्गुरूत्तमाः पूर्वम् । औरसतनयं मां तव कस्माद्दूरीकरोषि वद वाणि ॥ २॥ आनीय दूरतो मां मातस्त्वत्पादसविधमतिकृपया । परिपाल्य च सुचिरं मां कस्माद्दूरीकरोषि वद वाणि ॥ ३॥ अतिपरिचयादवज्ञा प्रभवेत्पुत्रेषु किं सवित्रीणाम् । नहि सा क्वचिदपि दृष्टा कस्माद्दूरीकरोषि वद वाणि ॥ ४॥ कादाचित्कनमस्कृतिकर्तॄणामप्यभीष्टदे तरसा । नाहं सकृदपि नन्ता कस्माद्दूरीकरोषि वद वाणि ॥ ५॥ गुरुरूपेणाबाल्यात्सोढ्वा मन्तूंश्च मत्कृतान्विविधान् । परिरक्ष्य करुणया मां कस्माद्दूरीकरोषि वद वाणि ॥ ६॥ जगतां पालनमनिशं कुर्वन्त्यास्ते भवेत्कियान्भारः । अहमम्ब दीनवर्यः कस्माद्दूरीकरोषि वद वाणि ॥ ७॥ पापान्निवार्य सरणौ विमलायां मे प्रवर्तने तरसा । कर्तव्ये सति कृपया कस्माद्दूरीकरोषि वद वाणि ॥ ८॥ यद्यप्यन्यानन्यान्देवानाराधयामि न त्वं ते । सर्वात्मिकेति चपलः कस्माद्दूरीकरोषि वद वाणि ॥ ९॥ यात्राशक्तमिमं मां गलितशरीरं रुजा समाक्रान्तम् । पात्रमहेतुकदयायाः कस्माद्दूरीकरोषि वद वाणि ॥ १०॥ तव सद्मनि गुरुसदने विद्यातीर्थालये च बहुसुखतः । खेलां कुर्वन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ ११॥ त्वत्क्षेत्रनिकटराजन्नरसिंहाख्याचलश‍ृङ्गाग्रे । स्वैरविहारकृतं मां कस्माद्दूरीकरोषि वद वाणि ॥ १२॥ त्वत्पादपूततुङ्गातीरे विजने वने चरन्तं माम् । अनुघस्रं मोदभरात्कस्माद्दूरीकरोषि वद वाणि ॥ १३॥ तुङ्गातीरे दिनकरनिवेशनिकटस्थले विपुले । ध्यायन्तं परतत्त्वं कस्माद्दूरीकरोषि वद वाणि ॥ १४॥ तुङ्गातीरे रघुवरमन्दिरपुरतः सुदीर्घपाषाणे । कुतुकाद्विहरन्तं मां कस्माद्दूरीकरोषि वद वाणि ॥ १५॥ जातु च नरसिंहपुरे तुङ्गातीरे सुसैकते मोदात् । विहृतिं कुर्वाणं मां कस्माद्दूरीकरोषि वद वाणि ॥ १६॥ यतिवरकृतात्मविद्याविलासमनिशं पठन्तमतिमोदात् । कुहचित्तुङ्गातीरे कस्माद्दूरीकरोषि वद वाणि ॥ १७॥ शङ्करभगवत्पादप्रणीतचूडामणिं विवेकादिम् । श‍ृण्वन्तं नृहरिवने कस्माद्दूरीकरोषि वद वाणि ॥ १८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीवाणीप्रश्नमालास्तुतिः समाप्ता ।