अक्षर आकार:

श्रीवाणीपाण्यवलम्बस्तुतिः

Shri Vanipanyavalambastutih

श्रीवाणीपाण्यवलम्बस्तुतिः

जाड्यवारिधिनिमग्नसुबुद्धेर्जातरूपसदृशच्छविकाये । वासवादिदिविषत्प्रवरेड्ये वाणि देहि मम पाण्यवलम्बम् ॥ १॥ पाणिनिर्जितसरोरुहगर्वे पारदे विविधदुःखपयोधेः । वासनाविरहितैर्लघुलभ्ये वाणि देहि मम पाण्यवलम्बम् ॥ २॥ श‍ृङ्गशैलशिखरादृतवासेऽनङ्गगर्वहरशम्भुसगर्भ्ये । तुङ्गमङ्गलनिदानकटाक्षे वाणि देहि मम पाण्यवलम्बम् ॥ ३॥ शारदाभ्रसदृशाम्बरवीते नारदादिमुनिचिन्तितपादे । नीलनीरदसदृक्कचभारे वाणि देहि मम पाण्यवलम्बम् ॥ ४॥ यत्पदाम्बुरुहपूजकवक्त्रादाशु निःसरति वागनवद्या । स्वर्धुनी हिमगिरेरिव सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ५॥ जातुचित्प्रणमतोऽपि पदाब्जे देवराजसदृशान्प्रकरोषि । यत्तदम्ब चरणौ तव वन्दे वाणि देहि मम पाण्यवलम्बम् ॥ ६॥ शान्तिदान्तिमुखसाधनयुक्तैर्वेदशीर्षपरिशीलनसक्तैः । आदरादहरहःपरिसेव्ये वाणि देहि मम पाण्यवलम्बम् ॥ ७॥ कोशपञ्चकनिषेधनपूर्वं क्लेशपञ्चकमपि प्रविहाय । यां प्रपश्यति यतिर्हृदि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ८॥ वन्द्यमानचरणे सुरवृन्दैर्गीयमानचरिते तुरगास्यैः । जप्यमाननिजनाम्नि मुनीन्द्रैर्वाणि देहि मम पाण्यवलम्बम् ॥ ९॥ सन्निरीक्ष्य कमलानि यदङ्घ्रीसाम्यमाप्तुमनयोस्तपसाम्भः । कण्ठदघ्नमधिजग्मुरसौ सा वाणि देहि मम पाण्यवलम्बम् ॥ १०॥ पुण्यमम्ब न कृतं मतिपूर्वं पापमेव रचितं त्वतियत्नात् । तेन तप्तमनिशं हृदयाब्जं वाणि देहि मम पाण्यवलम्बम् ॥ ११॥ नाहमम्ब सरसां च सुवर्णामातनोमि कवितां विविधार्थाम् । केन पूजयति मां भुवि लोको वाणि देहि मम पाण्यवलम्बम् ॥ १२॥ अक्षपादकणभुक्फणिनाथैर्देवहूतिसुतजैमिनिमुख्यैः । प्रोक्तशास्त्रनिचये न हि बुद्धिर्वाणि देहि मम पाण्यवलम्बम् ॥ १३॥ नैव पादसरसीरुहयोस्ते पूजनं प्रतिदिनं प्रकरोमि । हेतुशून्यकरुणाजनिभूमे वाणि देहि मम पाण्यवलम्बम् ॥ १४॥ सन्निरुध्य हृदयाम्बुजमध्ये स्वान्तमम्ब तव सुन्दरमूर्तेः । ध्यानमप्यनुदिनं न हि कुर्वे वाणि देहि मम पाण्यवलम्बम् ॥ १५॥ दुःखजन्मवसुधा विषया इत्यादरेण श्रुतिभिः श्रुतिशीर्षैः । बोधितोऽपि न हि यामि विरक्तिं वाणि देहि मम पाण्यवलम्बम् ॥ १६॥ पुत्रमित्रगृहदारजनन्यो भ्रातृबन्धुधनभृत्यमुखा वा । नैव कालवशगस्य सहाया वाणि देहि मम पाण्यवलम्बम् ॥ १७॥ एकमेव सदबाधितमन्यत्तुच्छमित्यसकृदागमशीर्षम् । वक्त्यथापि न निवृत्तिरनित्याद्वाणि देहि मम पाण्यवलम्बम् ॥ १८॥ जन्ममृत्युभयनीरधिमध्ये मज्जतो विविधरुङ्मकराढ्ये । पश्यतोऽपि न हि भीतिरनेकान्वाणि देहि मम पाण्यवलम्बम् ॥ १९॥ त्वत्पदाम्बुरुहयुग्ममपास्य प्राक्तनाघपरिमार्जनदक्षम् । नास्ति तारणविधानसमर्थं वाणि देहि मम पाण्यवलम्बम् ॥ २०॥ बालचन्द्रपरिचुम्बितशीर्षे बाहुसक्तकनकाङ्गदरम्ये । कण्ठलोलवरमौक्तिकहारे वाणि देहि मम पाण्यवलम्बम् ॥ २१॥ आननेन चरणेन कटाक्षैर्नीरजासनमनोहरकान्ते । चन्द्रमम्बुजमलिं च हसन्ती वाणि देहि मम पाण्यवलम्बम् ॥ २२॥ मध्यनिर्जितमृगाधिपगर्वे मत्तवारणसदृग्गतिशीले । मञ्जुशिञ्जितमहाभरणाढ्ये वाणि देहि मम पाण्यवलम्बम् ॥ २३॥ तापमम्ब विनिवार्य समस्तं पापमप्यहरहःकृतमाशु । चित्तशुद्धिमचिरात्कुरु मातर्वाणि देहि मम पाण्यवलम्बम् ॥ २४॥ पादपद्मयुगमर्दनरूपा पात्रवस्त्रपरिशुद्धिमुखा वा । श्रीगुरोर्न हि कृता बत सेवा वाणि देहि मम पाण्यवलम्बम् ॥ २५॥ मन्त्रराजलयपूर्वकयोगान्योगिनीहृदयमुख्यसुतन्त्रान् । नैव वेद्मि करुणामृतराशे वाणि देहि मम पाण्यवलम्बम् ॥ २६॥ कामलोभमदपूरितचेतःप्राणिदूरनिजपादपयोजे । कामनिर्मथनदक्षसगर्भ्ये वाणि देहि मम पाण्यवलम्बम् ॥ २७॥ अङ्गयष्टिरुचिनिर्जितभर्मे कुम्भिकुम्भपरिपन्थिकुचाढ्ये । भृङ्गनीलचिकुरे तनुमध्ये वाणि देहि मम पाण्यवलम्बम् ॥ २८॥ स्वाङ्घ्रिसेवनसमागतकाष्ठाकान्तदारकरमर्दितपादे । स्वामिनि त्रिजगतां धृतवीणे वाणि देहि मम पाण्यवलम्बम् ॥ २९॥ नीलनागनिवहा विविशुर्यद्वेणिकां मुहुरवेक्ष्य बिलानि । लज्जयाऽऽशु विधिभामिनि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ३०॥ शान्तिदान्तिविरतिप्रमुखा मां मोहकोपमुखरोगविशीर्णम् । वीक्ष्य यान्ति तरसा बहुदूरं वाणि देहि मम पाण्यवलम्बम् ॥ ३१॥ काकलोकसदृशः पिकलोकः केकिजालमपि शोकिनितान्तम् । यद्वचः श्रवणतः खलु सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ३२॥ राजराजपदवीं क्षणमात्राद्याति यत्पदसरोरुहनत्या । दीनराडपि जनो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ३३॥ श्रीघ्रकाव्यकरणेऽम्ब पटुत्वं यान्ति मूकबधिरादिममर्त्याः । यत्पदप्रणतितो भुवि सा त्वं वाणि देहि मम पाण्यवलम्बम् ॥ ३४॥ ब्राह्मि भारति सरस्वति भाषे वाक्सवित्रि कमलोद्भवजाये । पाणिपङ्कजलसद्वरवीणे वाणि देहि मम पाण्यवलम्बम् ॥ ३५॥ चामरप्रविलसत्करगौरीविष्णुदारपरिसेवितपार्श्वे । चामराजसुतपालनसक्ते वाणि देहि मम पाण्यवलम्बम् ॥ ३६॥ शेषशैलपतिनामकमन्त्रिश्रेष्ठपालनपरायणचित्ते । शेवधेऽब्जभवपूर्ववृषाणां वाणि देहि मम पाण्यवलम्बम् ॥ ३७॥ श्रीनृसिंहशिशुरामयुतश्रीकण्ठपालननिषक्तमनस्के । श्रीशशङ्करमुखामरपूज्ये वाणि देहि मम पाण्यवलम्बम् ॥ ३८॥ इति श‍ृङ्गेरि श्रीजगद्गुरु श्रीसच्चिदानन्दशिवाभिनवनृसिंह- भारतीस्वामिभिः विरचिता श्रीवाणीपाण्यवलम्बस्तुतिः सम्पूर्णा ।