अक्षर आकार:

वाणीगीतम्

Vanigitam

वाणीगीतम्

अथ त्रिसप्ततितमः पटलः श्रूयतां कोमलाम्भोजस्थितवक्त्रविराजिते । अत्यद्भुतं महागीतं श‍ृणोति साधको हि यत् ॥ ७३-१॥ ध्वनिरन्तर्गतं ज्योतिर्ज्योतिरन्तर्गतं मनः । तन्मनो विलयं याति ध्वनिषु ज्ञानकोटिषु ॥ ७३-२॥ तद् ध्वनिज्ञानसंज्ञानं श‍ृण्वन्ति योगिनो जनाः ॥ ७३-३॥ परमगुणगभीरे धीरनीरे शरीरे भवनवभवकान्तौ संप्रशात्मा नितान्तम् । विमलमधुरवाक्यालङ्कृतज्ञानसिन्धौ सकलवचनरत्नं स्थापयामास वाणी ॥ ७३-४॥ ॐ तुण्डोग्रस्थिरवचनगा मोहयञ्जीववर्णं शङ्कातङ्कारहितचरिता मोहिता ज्ञानतन्द्रे । सालङ्कारा खरतरकरा वाक्यमालां वहन्ती सा पश्यन्ती विमलकरुणा राध्यतां मूलचक्रे ॥ ७३-५॥ संसारे सारभागे सयुवतिसुकृपालक्षणैर्लक्षिताङ्गे सिद्धान्तज्ञानजीवं चरमसमगुणं भूपतेर्योगिनो वा । विप्रेन्द्राणामनन्तं ध्वनिगुरुमधुरं व्यापितं पार्वतीशे हे हे कालप्रकालप्रियतनुशिखरे वेशमासं चयत्वम् ॥ ७३-६॥ सञ्चारे परमस्थिरे हरिहरे विद्याधरे भूधरे साकारे करुणाकरे स्वविलये ते पादपङ्केरुहे । नित्यज्ञानमयं जयं सुरतरुच्छायालयं पूजये मातः कालि कलाधरे गलबिले शाकम्भरि शाकिनि ॥ ७३-७॥ भास्वत्कोटिरविच्छटाभरसुखश्रीकण्ठवीरालये हृत्पङ्केरुहमध्यसारघटितं सारस्वतोत्पत्तिदम् । श्रीदेवीगुरुरूपिणीचरणपद्मान्तःप्रभामण्डलं शैलेन्द्रोदयकारिणीमणिगृहं मापद्मनाभेरधः ॥ ७३-८॥ वाञ्छाकल्पद्रुमस्था स्थितिलयफलदा योगिनी योगमाता सूक्ष्मानन्दप्रशंसा तरुणरविकला कोकिलालापमुग्धा । स्निग्धा स्निग्धाङ्गसङ्गा नवशशिमुकुटा चारुवर्णा विशाला सा दुर्गा दुःखहन्त्री भवतु शिवगृहे कामनासिद्धिदात्री ॥ ७३-९॥ निराश्रयमहं पदं भवति कालि भक्त्याश्रये श्रिये विमलभावदे सकलभावगो गोगणः । मयि प्रियधनं मुदा वितर चारुदृष्ट्या सुखं तदैव गलभागकृद्गगनपद्ममध्यस्थले ॥ ७३-१०॥ नित्ये निष्फलरूपभूतिनिकरे त्रैलोक्यरक्षाकरे धर्मध्वान्तनिकेतने गणयति ज्ञानप्रयोगान्तरम् । ते पादाम्बुजसम्भवः प्रियगणः प्राणाश्रितः पार्थिवो मातः पर्वतराजराजदुहिते पुण्यं पवित्राप्तये ॥ ७३-११॥ भीभर्गो भारसर्गो भवरवविभवो भूतिभारावलम्बी भावाभावः प्रभावः प्रभवति भुवने भीमभक्तिप्रकाशः । भूभूतोद्भूतभीतिप्रभृतिभयभवासम्भवानन्दभावो मातस्ते पादपङ्केरुहविमलतलानन्दसेवाभिवृद्ध्या ॥ ७३-१२॥ नित्यं पातु गणेश्वरी गणपतेर्माता रमे मातरं प्राणं प्रत्यय पूर्वसिद्धिकरणी सिद्धासने रक्षतु । आनन्दाम्बुधिमज्जनैकसुखदा भालस्थलस्थापिनी कण्ठाम्भोरुहकर्णिका सुरगणान् गीता परा सुस्वरान् ॥ ७३-१३॥ कृपापारावारा विमलपुरुषं गौरिवपुषं धरावक्षे मुख्ये धरणिसुतबुद्ध्याऽधमनरम् । न जाने त्वत्कामं तनुविरहचिन्तामणिमयं तव स्नेहाध्वीनां गमयति न पारं सुरवरः ॥ ७३-१४॥ जयति जय जयाज्योतिराधारजेता सुरनरगणपूज्यः खेटचक्रस्य मध्ये । भवकमलकराढ्यं नम्रभावं प्रतापं गमयति तव पादाम्भोजसेवाबलेन ॥ ७३-१५॥ इत्येतैः श्लोकमुख्यैस्तु स्तुत्वा गीतरसान्तरैः । परब्रह्ममयीं ध्यात्वा स्वयं ब्रह्मतनुं गतः ॥ ७३-१६॥ अकस्माद् भोगसम्पत्तिर्मोक्षपद्धतयः शुभाः । प्रभवन्ति स्वयं विद्या अष्टादश गुणोदयाः ॥ ७३-१७॥ नीलजीमूतसङ्काशं चन्द्रशेखरमीश्वरम् । सदाशिवं महाशक्तिशाकिनीवामसंस्थितम् ॥ ७३-१८॥ चतुर्भुजं देवदेवमनन्तमक्षरं हरम् । भावगीतं पुनर्गीत्वा परं ब्रह्मसमो भवेत् ॥ ७३-१९॥ कण्ठषोडशसम्पूर्णमध्ये योगी स्थिराशयः । अष्टसिद्धीश्वरो भूत्वा भावसिद्धिं लभेद् ध्रुवम् ॥ ७३-२०॥ त्वया सह समाह्लाददर्शनं सिद्धिमाप्नुयात् ॥ ७३-२१॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे वाणीगीतविन्यासो नाम त्रिसप्ततितमः पटलः ॥ ७३॥ The numbers correspond to paTala and verse numbers from Rudrayamala uttaratantra.