श्रीउमात्रिशतीसहितं नामावली
उमा हैमवति देवी महादेवी महेश्वरी । अजा धूम्रा सुरूपैका विश्वसूर्विश्वधारिणी ॥ १॥ शिवा भगवती भद्रा प्रकृतिर्विकृतिः कृतिः । अनन्ताऽनादिरव्यक्ता दुर्गपारा दुरात्यया ॥ २॥ स्वधा स्वाहा सुधा पुष्टिः सुखा सोमस्वरुपिणी । तुष्टिर्निद्रा विष्णुमाया जातिर्धीश्चेतना चितिः ॥ ३॥ माता शान्तिः क्षमा श्रद्धा ह्रीर्वृत्तिर्व्यापिनी स्मृतिः । शक्तिस्तृष्णा क्षुधा भ्रान्तिः कान्तिः छाया रमा दया ॥ ४॥ भवानी राजसी सृष्टिर्मृडानी सात्त्विकी स्थितिः । रुद्राणी तामसी मृत्युः शर्वाणी त्रिगुणा परा ॥ ५॥ कृष्णा लक्ष्मीः कामधेनुरार्या दाक्षायणी सती । गणेशजननि दुर्गा पार्वति ब्रह्मचारिणी ॥ ६॥ गम्भीरनादवद्धण्टा कूष्माण्डा षण्मुखप्रसूः । कात्यायनी कालरात्रिर्गौरी सिद्धिप्रदायिनि ॥ ७॥ अपर्णा तापसी बाला कन्या कान्तारचारिणी । महर्षिस्तुतचारित्रा त्रिनेत्रार्धाङ्गभागिनी ॥ ८॥ रमणीयतमा राज्ञी रजताद्रिनिवासिनी । गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ९॥ सर्वागमस्तुतोपास्या विद्या त्रिपुरसुन्दरी । कमलात्मा छिन्नमस्ता मातङ्गी भुवनेश्वरी ॥ १०॥ तारा धूमावति काली भैरवी बगलामुखी । अनुल्लङ्घ्यतमा सन्ध्या सावित्री सर्वमङ्गला ॥ ११॥ छन्दः सवित्री गायत्री श्रुतिर्नादस्वरूपिणी । कीर्तनीयतमा कीर्तिः पावनी परमाम्बिका ॥ १२॥ उषा देव्यरुषी मैत्री भास्वती सूनृतार्जुनी । विभावरी बोधयित्री वाजिनी वाजिनीवती ॥ १३॥ रात्रिः पयस्वती नम्या धृताची वारुणी क्षपा । हिमानिवेशिनी रौद्रा रामा श्यामा तमस्वती ॥ १४॥ कपालमालिनी धोरा करालाखिलमोहिनी । ब्रह्मस्तुता महाकाली मधुकैटभनाशिनी ॥ १५॥ भानुपादाङ्गुलिर्ब्रह्मपादा पाश्यूरुजङ्धिका । भूनितम्बा शक्रमध्या सुधाकरपयोधरा ॥ १६॥ वसुहस्ताङ्गुलिर्विष्णुदोःसहस्रा शिवानना । प्रजापतिरदा वह्निनेत्रा वित्तेशनासिका ॥ १७॥ सन्ध्याभ्रूयुगला वायुश्रवणा कालकुन्तला । सर्वदेवमयी चण्डी महिषासुरमर्दिनी ॥ १८॥ कौशिकी धूम्रनेत्रध्नी चण्डमुण्डविनाशिनी । रक्तबीजप्रशमनी निशुम्भमदशोषिणी ॥ १९॥ शुम्भविध्वंसिनी नन्दा नन्दगोकुलसम्भवा । एकानंशा मुरारातिभगिनी विन्ध्यवासिनी ॥ २०॥ योगीश्वरी भक्तवश्या सुस्तनी रक्तदन्तिका । विशाला रक्तचामुण्डा वैप्रचित्तनिषूदिनी ॥ २१॥ शाकम्भरी दुर्गमध्नी शताक्ष्यमृतदायिनी । भीमैकवीरा भीमास्या भ्रामर्यरूणनाशिनी ॥ २२॥ ब्रह्माणी वैष्णवीन्द्राणी कौमारी सूकरानना । माहेश्वरी नारसिंही चामुण्डा शिवदूतिका ॥ २३॥ गौर्भूर्महीद्यौरदितिर्देवमाता दयावती । रेणुका रामजननी पुण्या वृद्धा पुरातनी ॥ २४॥ भारती दस्युजिन्माता सिद्धा सौम्या सरस्वती । विद्युद्वज्रेश्वरी वृत्रनाशिनी भूतिरच्युता ॥ २५॥ दण्डिनी पाशिनी शूलहस्ता खट्वाङ्गधारिणी । खड्गिनी चापिनी बाणधारिणी मुसलायुधा ॥ २६॥ सीरायुधाङ्कुशवती शङ्खिनी चक्रधारिणी । उग्रा वैरोचनी दीप्ता ज्येष्ठा नारायणी गतिः ॥ २७॥ महीश्वरी वह्निरूपा वायुरूपाऽम्बरेश्वरी । द्युनायिका सूर्यरूपा नीरूपाखिलनायिका ॥ २८॥ रतिः कामेश्वरी राधा कामाक्षी कामवर्धिनी । भण्डप्रणाशिनी गुप्ता त्र्यम्बका शम्भुकामुकी ॥ २९॥ अरालनीलकुन्तला सुधांशुसुन्दरानना । प्रफुल्लपद्मलोचना प्रवाललोहिताधरा ॥ ३०॥ तिलप्रसूननासिका लसत्कपोलदर्पणा । अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ ३१॥ विवस्वदिन्दुकुण्डला सरस्वतीजितामृता । समानवर्जितश्रुतिः समानकम्बुकन्धरा ॥ ३२॥ अमूल्यमाल्यमण्डिता मृणालचरुदोर्लता । करोपमेयपल्लवा सुरोपजीव्यसुस्तनी ॥ ३३॥ बिसप्रसूनसायकक्षुराभरोमराजिका । बुधानुमेयमध्यमा कटीतटीभरालसा ॥ ३४॥ प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका । मनोहरोरुयुग्मका मनोजतूणजङ्धिका ॥ ३५॥ क्वणत्सुवर्णहंसका सरोजसुन्दराङ्ध्रिका । मतङ्गजेन्द्रगामिनी महाबला कलावती ॥ ३६॥ शुद्धा बुद्धा निस्तुला निर्विकारा सत्या नित्या निष्फला निष्कलङ्का । अज्ञा प्रज्ञा निर्भवा नित्यमुक्ता ध्येया ज्ञेया निर्गुणा निर्विकल्पा ॥ ३७॥ आगमाब्धिलोडनेन सारभूतमाहृतं शैलपुत्रिकभिधाशतत्रयामृतं मया। ये भजन्ति सूरयस्तरन्ति ते महद्भयं रोगजं च वैरिजं च मृत्युजं सर्वजम् ॥ ३८॥ ॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य नरसिंहसूनोः गणपतेः कृतिः उमात्रिशती समाप्ता ॥ अनुष्टुब्वृत्तम् (१-३६) । इन्द्रवज्रा (३७) । तूणकम् (३८) ।उमात्रिशती नामावली उमा । हैमवति । देवी । महादेवी । महेश्वरी । अजा । धूम्रा । सुरूपा । एका । विश्वसूः । विश्वधारिणी ॥ १-११॥ शिवा । भगवती । भद्रा । प्रकृतिः । विकृतिः । कृतिः । अनन्ता । अनादि । अव्यक्ता । दुर्गपारा । दुरात्यया ॥ १२-२२॥ स्वधा । स्वाहा । सुधा । पुष्टिः । सुखा । सोमस्वरुपिण् । तुष्टिः । निद्रा । विष्णुमाया । जातिः । धीः । चेतना । चितिः ॥ २३-३५॥ माता । शान्तिः । क्षमा । श्रद्धा । ह्रीः । वृत्तिः । व्यापिनी । स्मृतिः । शक्तिः । तृष्णा । क्षुधा । भ्रान्तिः । कान्तिः । छाया । रमा । दया ॥ ३५-५१॥ भवानी । राजसी । सृष्टिः । मृडानी । सात्त्विकी । स्थितिः । रुद्राणी । तामसी । मृत्युः । शर्वाणी । त्रिगुणा । परा ॥ ५२-६३॥ कृष्णा । लक्ष्मीः । कामधेनुः । आर्या । दाक्षायणी । सती । गणेशजननि । दुर्गा । पार्वति । ब्रह्मचारिणी ॥ ६४-७३ ॥ गम्भीरनादवद्धण्टा । कूष्माण्डा । षण्मुखप्रसूः । कात्यायनी । कालरात्रिः । गौरी । सिद्धिप्रदायिनि ॥ ७४-८०॥ अपर्णा । तापसी । बाला । कन्या । कान्तारचारिणी । महर्षिस्तुतचारित्रा । त्रिनेत्रार्धाङ्गभागिनी । ॥ ८१-८७॥ रमणीयतमा । राज्ञी । रजताद्रिनिवासिनी । गीर्वाणमौलिमाणिक्यनीराजितपदाम्बुजा ॥ ८७-९१ ॥ सर्वागमस्तुत । उपास्या । विद्या । त्रिपुरसुन्दरी । । कमलात्मा । छिन्नमस्ता । मातङ्गी । भुवनेश्वरी ॥ ९२-९९॥ तारा । धूमावति । काली । भैरवी । बगलामुखी । अनुल्लङ्घ्यतमा । सन्ध्या । सावित्री । सर्वमङ्गला ॥ १००-१०८ ॥ छन्दः । सवित्री । गायत्री । श्रुतिः । नादस्वरूपिणी । कीर्तनीयतमा । कीर्तिः । पावनी । परमा । अम्बिका ॥ १०९-११८॥ उषा । देव्यरुषी । मैत्री । भास्वती । सूनृता । अर्जुनी । विभावरी । बोधयित्री । वाजिनी । वाजिनीवती ॥ ११९-१२८ ॥ रात्रिः । पयस्वती । नम्या । धृताची । वारुणी । क्षपा । हिमानिवेशिनी । रौद्रा । रामा । श्यामा । तमस्वती ॥ १२९-१३९ ॥ कपालमालिनी । धोरा । कराला । अखिलमोहिनी । ब्रह्मस्तुता । महाकाली । मधुकैटभनाशिनी ॥ १४०-१४६ ॥ भानुपादाङ्गुलिः । ब्रह्मपादा । पाश्यूरुजङ्धिका । भूनितम्बा । शक्रमध्या । सुधाकरपयोधरा ॥ १४७-१५२ ॥ वसुहस्ताङ्गुलिः । विष्णुदोःसहस्रा । शिवानना । प्रजापतिरदा । वह्निनेत्रा । वित्तेशनासिका ॥ १५३-१५८ ॥ सन्ध्या-भ्रूयुगला । वायुश्रवणा । कालकुन्तला । सर्वदेवमयी । चण्डी । महिषासुरमर्दिनी ॥ १५९-१६४ ॥ कौशिकी । धूम्रनेत्रध्नी । चण्डमुण्डविनाशिनी । रक्तबीजप्रशमनी । निशुम्भमदशोषिणी ॥ १६५-१६९ ॥ शुम्भविध्वंसिनी । नन्दा । नन्दगोकुलसम्भवा । एकानंशा । मुरारातिभगिनी । विन्ध्यवासिनी ॥ १७०-१७५ ॥ योगीश्वरी । भक्तवश्या । सुस्तनी । रक्तदन्तिका । विशाला । रक्तचामुण्डा । वैप्रचित्तनिषूदिनी ॥ १७६-१८२ ॥ शाकम्भरी । दुर्गमध्नी । शताक्षी । अमृतदायिनी । भीमा । एकवीरा । भीमास्या । भ्रामरी । अरूणनाशिनी ॥ १८३-१९१॥ ब्रह्माणी । वैष्णवी । इन्द्राणी । कौमारी । सूकरानना । माहेश्वरी । नारसिंही । चामुण्डा । शिवदूतिका ॥ १९२-२०० ॥ गौः । भूः । मही । द्यौः । अदितिः । देवमाता । दयावती । रेणुका । रामजननी । पुण्या । वृद्धा । पुरातनी ॥ २०१-२१२ ॥ भारती । दस्युजिन्माता । सिद्धा । सौम्या । सरस्वती । विद्युत् । वाज्रेश्वरी । वृत्रनाशिनी । भूतिः । अच्युता ॥ २१३-२२२॥ दण्डिनी । पाशिनी । शूलहस्ता । खट्वाङ्गधारिणी । खड्गिनी । चापिनी । बाणधारिणी । मुसलायुधा ॥ २२३-२३० ॥ सीरायुधा । अङ्कुशवती । शङ्खिनी । चक्रधारिणी । उग्रा । वैरोचनी । दीप्ता । ज्येष्ठा । नारायणी । गतिः ॥ २३१-२४० ॥ महीश्वरी । वह्निरूपा । वायुरूपा । अम्बरेश्वरी । द्युनायिका । सूर्यरूपा । नीरूपा । अखिलनायिका ॥ २४१-२४८ ॥ रतिः । कामेश्वरी । राधा । कामाक्षी । कामवर्धिनी । भण्डप्रणाशिनी । गुप्ता । त्र्यम्बका । शम्भुकामुकी ॥ २४९-२५७॥ अरालनीलकुन्तला । सुधांशुसुन्दरानना । प्रफुल्लपद्मलोचना । प्रवाललोहिताधरा ॥ २५८-२६१ ॥ तिलप्रसूननासिका । लसत्कपोलदर्पणा । अनङ्गचापझिल्लिका स्मितापहास्यमल्लिका ॥ २६२-२६५ ॥ विवस्वदिन्दुकुण्डला । सरस्वतीजितामृता । समानवर्जितश्रुतिः । समानकम्बुकन्धरा ॥ २६६-२६९ ॥ अमूल्यमाल्यमण्डिता । मृणालचरुदोर्लता । करोपमेयपल्लवा । सुरोपजीव्यसुस्तनी ॥ २७०-२७३ ॥ बिसप्रसूनसायकक्षुराभरोमराजिका । बुधानुमेयमध्यमा । कटीतटीभरालसा ॥ २७४-२७६ ॥ प्रसूनसायकागमप्रवादचुञ्चुकाञ्चिका । मनोहरोरुयुग्मका । मनोजतूणजङ्धिका ॥ २७७-७९ ॥ क्वणत्सुवर्णहंसका । सरोजसुन्दराङ्ध्रिका । मतङ्गजेन्द्रगामिनी । महाबला । कलावती ॥ २८०-२८४ ॥ शुद्धा । बुद्धा । निस्तुला । निर्विकारा । सत्या । नित्या । निष्फला । निष्कलङ्का । अज्ञा । प्रज्ञा । निर्भवा । नित्यमुक्ता ध्येया । ज्ञेया । निर्गुणा । निर्विकल्पा ॥ २८५-३०० ॥ From the complete volume 1 of collected works of Ganapati Muni