अक्षर आकार:

उमामहेश्वराष्टकम्

Umamaheshvara Ashtakam

उमामहेश्वराष्टकम्

पितामहशिरच्छेदप्रवीणकरपल्लव । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ १॥ निशुम्भशुम्भप्रमुखदैत्यशिक्षणदक्षिणे । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ २॥ शैलराजस्य जामातः शशिरेखावतंसक । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ३॥ शैलराजात्मजे! मातः शातकुम्भनिभप्रभे! नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ४॥ भूतनाथपुराराते! भुजङ्गकृतभूषण! नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ५॥ पादप्रणतभक्तानां पारिजातगुणाधिके । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ६॥ हालास्येश दयामूर्त्ते! हालाहललसद्गल । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वर! ॥ ७॥ नितम्बिनि महेशस्य कदम्बवननायिके! । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं महेश्वरि ॥ ८॥ इति श्रीहालास्यमाहात्म्ये सङ्घिलकृत उमामहेश्वराष्टकं सम्पूर्णम् ।