अक्षर आकार:

उमाऽष्टोत्तरशतनामस्तोत्रम्

umAaShTottarashatanAmastotram

उमाऽष्टोत्तरशतनामस्तोत्रम्

श्रीगणेशाय नमः । श्रीउमामहेश्वराभ्यां नमः । पातु नः पार्वती दुर्गा हैमवत्यम्बिका शुभा । शिवा भवानी रुद्राणी शङ्करार्धशरीरिणी ॥ १॥ ॐ उमा कात्यायनी गौरी काली हैमवतीश्वरी । शिवा भवानी रुद्राणी शर्वाणी सर्वमङ्गला ॥ २॥ अपर्णा पार्वती दुर्गा मृडानी चण्डिकाऽम्बिका । आर्या दाक्षायणी चैव गिरिजा मेनकात्मजा ॥ ३॥ स्कन्दामाता दयाशीलासुन्दरी भक्तरक्षका । भक्तवश्या च लावण्यनिधिः सर्वसुखप्रदा ॥ ४॥ महादेवी भक्तमनोह्वलादिनी कठिनस्तनी । कमलाक्षी दयासारा कामाक्षी नित्ययौवना ॥ ५॥ सर्वसम्पत्प्रदा कान्ता सर्वसंमोहिनी मही । शुभप्रिया कम्बुकण्ठी कल्याणी कमलप्रिया ॥ ६॥ सर्वेश्वरी च कमलहस्ताविष्णुसहोदरी । वीणावादप्रिया सर्वदेवसम्पूजिताङ्घ्रिका ॥ ७॥ कदम्बारण्यनिलया विन्ध्याचलनिवासिनी । हरप्रिया कामकोटिपीठस्था वाञ्छितार्थदा ॥ ८॥ श्यामाङ्गा चन्द्रवदना सर्ववेदस्वरूपिणी । सर्वशास्त्रस्वरूपाच सर्वदेवमयी तथा ॥ ९॥ पुरुहूतस्तुता देवी सर्ववेद्या गुणप्रिया । पुण्यस्वरूपिणी वेद्या पुरुहूतस्वरूपिणी ॥ १०॥ पुण्योदया निराधारा शुनासीरादिपूजिता । नित्यपूर्णा मनोगम्या निर्मलाऽऽनन्दपूरिता ॥ ११॥ वागीश्वरी नीतिमती मञ्जुला मङ्गलप्रदा । वाग्मिनी वञ्जुला वन्द्या वयोऽवस्थाविवर्जिता ॥ १२॥ वाचस्पतिर्महालक्ष्मीर्महामङ्गलनायिका । सिंहासनमयी सृष्टिस्थितिसंहारकारिणी ॥ १३॥ महायज्ञानेत्ररूपा सावित्री ज्ञानरूपिणी । वररूपधरायोगा मनोवाचामगोचरा ॥ १४॥ दयारूपा च कालज्ञा शिवधर्मपरायणा । वज्रशक्तिधरा चैव सूक्ष्माङ्गी प्राणधारिणी ॥ १५॥ हिमशैलकुमारी च शरणागतरक्षिणी । सर्वागमस्वरूपा च दक्षिणा शङ्करप्रिया ॥ १६॥ दयाधारा महानागधारिणी त्रिपुरभैरवी । नवीनचन्द्रचूडस्य प्रिया त्रिपुरसुन्दरी ॥ १७॥ नाम्नामष्टोत्तरशतं उमायाः कीर्तितं सकृत् । शान्तिदं कीर्तिदं लक्ष्मीयशोमेधाप्रदायकम् ॥ १८॥ ॥ इति श्रीउमाऽष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥