अक्षर आकार:

श्रीतुरजाभवानीकवचम् अथवा तुळजाकवचम्

Shri Turaja Tulaja Kavacham

श्रीतुरजाभवानीकवचम् अथवा तुळजाकवचम्

श्रीगणेशाय नमः । अथ ध्यानम् । श्यामां पूर्णेन्दुवदनां श्वेताम्बरधरां शिवाम् । महामेघ निनादातां निर्वाते दीपवत्स्थिताम् ॥ १॥ भुजाष्टकयुक्ता बाणां चापशूलगदाधराम् । खड्गशङ्खगदाचक्रवरदाभयधारिणीम् ॥ २॥ अथ तुरजा कवचम् । श्रीदेव्युवाच देवेश परमेशान भवतानुग्रहकारक । तुरजाकवचं वक्ष्ये मम प्रीत्या महेश्वर ॥ श‍ृणु देवि महागुह्यमतिगुह्यतरं महत् । तुरजा कवचं वक्ष्ये न देयं कस्यचित् कदा ॥ अस्य श्रीतुरजाकवचमालामन्त्रस्य श्रीरामचन्द्र ऋषिः । श्रीतुरजा देवता । अनुष्टुप्छन्दः । श्रीतुरजाप्रसादसिद्ध्यर्थे जपे विनियोगः । श्रीशङ्कर उवाच । तुरजा मे शिरः पातु भाले तु परमेश्वरी । नेत्रे नारायणी रक्षेत्कर्णमूले तु शाङ्करी ॥ १॥ मुखम्पातु महामाया कण्ठं भुवनसुन्दरी । बाहुद्वयं विश्वमाता हृदयं शिववल्लभा ॥ २॥ नाभिं कुण्डलिनी पातु जानुनी जाह्नवी तथा । पादयोः पापनाशीञ्च पादाग्रं सर्वतीर्थवत् ॥ ३॥ इन्द्रायणी पातु पूर्वे आग्नेय्यामग्निदेवता । दक्षिणे नारसिंही च नैरृत्यां खड्गधारिणी ॥ ४॥ पश्चिमे वारुणी पातु वायव्यां वायुरूपिणी । उदीच्या पाशहस्ता च ईशान्ये ईश्वरी तथा ॥ ५॥ ऊर्ध्वं ब्रह्मणि मे रक्षेदधास्या वैष्णवी तथा । एवं दशदिशो रक्षेत् सर्वाङ्गे भुवनेश्वरी ॥ ६॥ इदं तु कथितं दिव्यं कवचं सर्वदेहिकम् । भूतग्रहहरं नित्यं ग्रहपीडा तथैव च ॥ ७॥ सर्वपापहरे देवि अन्ते सायुज्यं प्राप्नुयात् । यत्र तत्र न वक्तव्यं यदिच्छेदात्मनो हितम् ॥ ८॥ शठाय भक्तिहीनाय विष्णुद्वेषाय वै तथा । शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ॥ ९॥ दध्यात् कवचमित्युक्तं तत्पुण्यं श‍ृणु पार्वति । अश्वमेधसहस्राणि कन्याकोटीशचानि च ॥ १०॥ गवां लक्षसहस्राणि तत्पुण्यं लभते नरः । अष्टम्यां चतुर्दश्यां नवम्यां चैक चेतसा ॥ ११॥ सर्वपापविशुद्धात्मा सर्वलोकसनातनम् । वने रणे महाघोरे भयवादे महाहवे ॥ १२॥ जपेत्कवच मा देवि सर्वविघ्नविनाशिनी । भौमवार महापुण्ये पठेत्कवचमाहितः ॥ १३॥ सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् । किमत्र बहुनोक्तेन देवि सायुज्यं प्राप्नुयात् ॥ १४॥ इति श्रीस्कन्दपुराणे सहयाद्रिखण्डे तुरजामाहात्म्ये ईश्वरपार्वतीसंवादे श्रीतुरजाकवचं सम्पूर्णम् । श्रीउमारामेश्वरार्पणमस्तु ।