अक्षर आकार:

तुलस्यष्टोत्तरशतनामस्तोत्रम्

tulasyaShTottarashatanAmastotram

तुलस्यष्टोत्तरशतनामस्तोत्रम्

॥ तुलस्यष्टोत्तरशतनामस्तोत्रम् ॥

तुलसी पावनी पूज्या वृन्दावननिवासिनी । ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥ १॥ सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा । कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥ २॥ लक्ष्मीसखी नित्यशुद्धा सुदती भूमिपावनी । हरिद्रान्नैकनिरता हरिपादकृतालया ॥ ३॥ पवित्ररूपिणी धन्या सुगन्धिन्यमृतोद्भवा । सुरूपाऽऽरोग्यदा तुष्टा शक्तित्रितयरूपिणी ॥ ४॥ देवी देवर्षिसंस्तुत्या कान्ता विष्णुमनःप्रिया। भूतवेतालभीतिघ्नी महापातकनाशिनी ॥ ५॥ मनोरथप्रदा मेधा कान्तिर्विजयदायिनी । शङ्खचक्रगदापद्मधारिणी कामरूपिणी ॥ ६॥ अपवर्गप्रदा श्यामा कृशमध्या सुकेशिनी । वैकुण्ठवासिनी नन्दा बिम्बोष्ठी कोकिलस्वरा ॥ ७॥ कपिला निम्नगाजन्मभूमिरायुष्यदायिनी । वनरूपा दुःखनाशिन्यविकारा चतुर्भुजा ॥ ८॥ गरुत्मद्वाहना शान्ता दान्ता विघ्ननिवारिणी । श्रीविष्णुमूलिका पुष्टिस्त्रिवर्गफलदायिनी ॥ ९॥ महाशक्तिर्महामाया लक्ष्मीवाणीसुपूजिता । सुमङ्गल्यर्चनप्रीता सौमङ्गल्यविवर्धिनी ॥ १०॥ चातुर्मास्योत्सवाराध्या विष्णु सान्निध्यदायिनी । उत्थानद्वादशीपूज्या सर्वदेवप्रपूजिता ॥ ११॥ गोपीरतिप्रदा नित्या निर्गुणा पार्वतीप्रिया । अपमृत्युहरा राधाप्रिया मृगविलोचना ॥ १२॥ अम्लाना हंसगमना कमलासनवन्दिता । भूलोकवासिनी शुद्धा रामकृष्णादिपूजिता ॥ १३॥ सीतापूज्या राममनःप्रिया नन्दनसंस्थिता । सर्वतीर्थमयी मुक्ता लोकसृष्टिविधायिनी ॥ १४॥ प्रातर्दृश्या ग्लानिहन्त्री वैष्णवी सर्वसिद्धिदा । नारायणी सन्ततिदा मूलमृद्धारिपावनी ॥ १५॥ अशोकवनिकासंस्था सीताध्याता निराश्रया । गोमतीसरयूतीररोपिता कुटिलालका ॥ १६॥ अपात्रभक्ष्यपापघ्नी दानतोयविशुद्धिदा श्रुतिधारणसुप्रीता शुभा सर्वेष्टदायिनी ॥ १७॥ नाम्नां शतं साष्टकं तत्तुलस्याः सर्वमङ्गलम् । सौमङ्गल्यप्रदं प्रातः पठेद्भक्त्या सुभाग्यदम् । लक्ष्मीपतिप्रसादेन सर्वविद्याप्रदं नृणाम् ॥ १८॥ इति तुलस्यष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ।